०७ उत्थापनम्

दण्ड-ग्रहणम्

सू - दण्डमुत्तरेणादत्ते । पालाशो दण्डो ब्राह्मणस्य ॥

०१ सुश्रवस्सुश्रवसम् मा ...{Loading}...

सु॒श्रव॑स् +++(पलाश!)+++ सु॒श्रव॑सं मा कुरु।+++(५)+++
यथा॒ त्वꣳ सु॒श्रव॑स् सु॒श्रवा॑ अस्य्, ए॒वम् अ॒हꣳ सु॒श्रव॑स् सु॒श्रवा॑ भूयासम्॥
यथा॒ त्वꣳ सु॒श्रव॑स् सु॒श्रवो॑ दे॒वानां॑ निधिगो॒पो॑ ऽस्य्, ए॒वम॒हं ब्रा॑ह्म॒णानां॒ ब्रह्म॑णो निधि-गो॒पो भू॑यासम् ।+++(५)+++

इत्य् एतद् वाचयित्वा

व्रतसङ्कल्पः कुमारेण

आचार्यः कुमारं “स्मृतञ् च म” इत्य् एतन् मन्त्रग्रामं वाचयेत् ।

०२-१० स्मृतञ्च मे ...{Loading}...

स्मृ॒तञ् च॒ मे, ऽस्मृ॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
नि॒न्दा च॒ मे ऽनि॑न्दा च मे॒ - तन् म॑ उ॒भयं॑ व्र॒त२ꣳ,
श्र॒द्धा च॒ मे ऽश्र॑द्धा च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
वि॒द्या च॒ मे ऽवि॑द्या च मे॒ - तन् म॑ उ॒भयं॑ व्र॒त२ꣳ,
श्रु॒तञ् च॒ मे ऽश्रु॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तꣳ,
स॒त्यञ् च॒ मे ऽनृ॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
तप॑श् च॒ मे ऽत॑पश्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,
व्र॒तञ् च॒ मे ऽव्र॑तञ्च मे॒ - तन् म॑ उ॒भयं॑ व्र॒तं,

यद् ब्रा॑ह्म॒णानां॒ ब्रह्म॑णि+++(=वेदविषये)+++ व्र॒तम्,
यद् अ॒ग्नेस् +++(→यातृत्वं)+++ सेन्द्र॑स्य॒ +++(→प्राधान्यम्)+++ सप्र॑जापतिकस्य॒ +++(→स्रष्टृत्वं)+++ सदे॑वस्य॒ +++(→दातृत्वादि)+++ सदे॑वराजस्य॒ सम॑नुष्यस्य॒ +++(→प्रियवचनादि)+++ सम॑नुष्यराजस्य॒ +++(→प्रजारक्षणम्)+++ सपि॑तृकस्य॒ +++(→पुत्रोत्पत्ति)+++ सपि॑तृराजस्य॒ +++(यमस्य → सर्वसमत्वं)+++ सग॑न्धर्वाप्सर॒स्कस्य॑ +++(→परिचरणकौशलम्, उदात्तद्वयम्?? )+++,
यन् म॑ आ॒त्मन॑ आ॒त्मनि॑ व्र॒तन्,
तेना॒हꣳ सर्व॑व्रतो भूयासम् ।

तमिऴ्

அதன் ப்ரகாரமாவது. ஓம்பூ: தத்ஸவிதுர்வரேண்யம் ஓம்புவ:- பர்க்கோதேவஸ்யதீமஹி । ஓம்ஸுவ: - தியோயோந: ப்ரசோதயாத் ஓம்பூ: தத்ஸவிதுர் வரேண்யம் பர்க்கோதேவஸ்ய தீமஹி! ஓம் புவ: தியோயோந: ப்ரசோதயாத் ஓம்ஸுவ: தத்ஸவிதுர்வரேண்யம் பர்க்கோதேவஸ்ய தீமஹிதியொளயோந: ப்ரசோதயாத் பிறகு ப்ரணவ வ்யாஹ்ருதி ஸஹிதமான காயத்ரியை அவனுக்குச் சொல்லி வைத்துச் சொல்லும்படிக்கும் சொல்ல வேண்டும். “ப்ரம்மோபதேச முஹுர்த்த: ஸுமுஹுர்த்தோஸ்த்விதி பவந்த: அநுகிருஹ்ணந்து” என்று ஸபையோரை பிரார்த்திக்க அவர்களும் “ததாஸ்து” என்று சொல்ல வேண்டும். பிறகு “அவ்ருத மஸௌஸெளம்ய [[TODO::परिष्कार्यम्??]]

वरदानम्

[[83]]

(सू - गुरवे वरं दत्वा)
कुमारः -

हे गुरो!
वरं ते ददामि

इति गां दक्षिणां वा दद्यात्,
प्रतिग्रहीताऽऽचार्यः सप्त-दश-कृत्वो ऽपान्य,

०१ अग्नये हिरण्यम् ...{Loading}...
दे॒वस्य॑ त्वा सवि॒तुः प्रति॑गृह्णामि ...{Loading}...
मूलम् (संयुक्तम् आरण्यके)

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे ।
अ॒श्विनो᳚र्बा॒हुभ्या᳚म् ।
पू॒ष्णो हस्ता᳚भ्यां॒ प्रति॑गृह्णामि ।

देवस्य त्वा सवितुः ...{Loading}...
विश्वास-प्रस्तुतिः

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे᳚+++(=अनुज्ञायां)+++, ऽश्विनो᳚र् बा॒हुभ्या᳚म्, पू॒ष्णो हस्ता᳚भ्याम्…

Keith

On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.

मूलम्

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे᳚ऽश्विनो᳚र् बा॒हुभ्या᳚म्, पू॒ष्णो हस्ता᳚भ्यां॒…

भट्टभास्कर-टीका

सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं

‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥


सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥


तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां

विश्वास-प्रस्तुतिः

प्रति॑गृह्णामि

मूलम्

प्रति॑गृह्णामि

विश्वास-प्रस्तुतिः

राजा᳚ त्वा॒ वरु॑णो नयतु
देवि दख्षिणे॒ऽग्नये॒ हिर॑ण्यम् ।

मूलम्

राजा᳚ त्वा॒ वरु॑णो नयतु
देवि दख्षिणे॒ऽग्नये॒ हिर॑ण्यम् ।

भट्टभास्कर-टीका

हे हिरण्यात्मिके ! देवि! दक्षिणे! राजा वरुणः त्वां हिरण्यं अग्नये नयतु । तच्चेयमिष्टकाऽस्ति ।

तेना॑मृत॒त्वम॑श्याम् ...{Loading}...
विश्वास-प्रस्तुतिः

तेना॑मृत॒त्वम॑श्याम् ।
वयो॑+++(=अन्नम्)+++ दा॒त्रे ।
मयो॒ मह्य॑म् अस्तु प्रतिग्रही॒त्रे ।

मूलम्

तेना॑मृत॒त्वम॑श्याम् ।
वयो॑ दा॒त्रे ।
मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे ।

भट्टभास्कर-टीका

तेन हिरण्येन प्रतिगृहीतेन इष्टकाभूतेन अहं अमृतत्वं अश्यां प्राप्यासम् ।
वयः अन्नं दात्रे हिरण्यं दत्तवतेऽस्तु । मां च तत्प्रतिग्रहीत्रे मयः सुखमस्तु, दातुरेवोपकारकत्वात् ।

विश्वास-प्रस्तुतिः

क इ॒दङ्कस्मा॑ अदात् ।
कामः॒ कामा॑य ।

मूलम्

क इ॒दङ्कस्मा॑ अदात् ।
कामः॒ कामा॑य ।

भट्टभास्कर-टीका

किञ्च - कः प्रजापतिरेव कस्मै प्रजापतये इदं हिरण्यं अदात्, न देवदत्तो मह्यम् । अनिर्ज्ञातपरमार्थः प्रजापतिः कशब्देनोच्यते । यद्वा - क इति प्रजापतेस्संज्ञा, व्यत्ययेन स्मैभावः । कामः इच्छा । काम एव कामाय ददाति ।
अन्य आह - इदं हिरण्यं को नाम कस्मै वा दातुमर्हति कामादृते । तस्मात् कामः कामाय ददाति ।

विश्वास-प्रस्तुतिः

कामो॑ दा॒ता ।
(15)
कामः॑ प्रतिग्रही॒ता ।

मूलम्

कामो॑ दा॒ता ।
(15)
कामः॑ प्रतिग्रही॒ता ।

विश्वास-प्रस्तुतिः

कामꣳ॑ समु॒द्रम् आवि॑श ।
कामे॑न त्वा॒ प्रति॑गृह्णामि ।

मूलम्

कामꣳ॑ समु॒द्रमावि॑श ।
कामे॑न त्वा॒ प्रति॑गृह्णामि ।

भट्टभास्कर-टीका

तथा हि - काम एव दाता, काम एव प्रतिग्रहीता, न देवदत्तो, न चाहम् । तस्मात् समुद्र समुद्रसदृशं अनन्तत्वात् काममाविश । ततः कामेनैकीभावमापन्नं त्वां अहं प्रतिगृह्णामि ।

विश्वास-प्रस्तुतिः

कामै॒तत् ते᳚ ।
ए॒षा ते॑ काम॒ दख्षि॑णा ।

मूलम्

कामै॒तत् ते᳚ ।
ए॒षा ते॑ काम॒ दख्षि॑णा ।

भट्टभास्कर-टीका

एवं हिरण्यमुक्त्वा
इदानीं कामं प्रत्याह -
हे काम !
एतत् ते हिरण्यं, त्वमेव प्रतिगृहाण ।
एषा हि त्वदीया दक्षिणा इदानीमिष्टकाभूता ।

विश्वास-प्रस्तुतिः

उ॒त्ता॒नस् त्वा᳚ङ्गीर॒सः प्रति॑गृह्णातु ।

मूलम्

उ॒त्ता॒नस् त्वा᳚ङ्गीर॒सः प्रति॑गृह्णातु ।

भट्टभास्कर-टीका

अथ दक्षिणां प्रत्याह -
हे दक्षिणे!
त्वामिष्टका-भूतां उत्तानः आङ्गीरसः प्रतिगृह्णातु । ' इयं वा उत्तान आङ्गीरतः’ इति ब्राह्मणम् ।
तस्मात् पृथिव्येव त्वां प्रतिगृह्णातु
नाहमस्य प्रतिग्रहीतेति ॥

इति दक्षिणां प्रतिगृह्णीयात् ॥

विस्तारः (द्रष्टुं नोद्यम्)

अत्रापि कश्चिद् विचारः ।
पूर्वोक्तः प्रतिग्रह-मन्त्रः गृह्य-रत्ने नोक्तः,
तस्यावश्यकता कथम्
इति विचारः ।

तस्मिन्न् एव गृह्यरत्ने
शम्याऽपोहनानन्तरं
प्रायश्चित्त-होम-विधि-प्रकरणे
स्मार्त-प्रायश्चित्त-होमात् पूर्वं
“यजुर्भ्रेष-प्रायश्चित्तं करिष्ये” इत्युक्त्वा
“ओं भुवः स्वाहे"त्य् उक्तम्।

इदं श्रौतप्-रायश्चित्तम् ।
स्मार्तकर्मणि उपनयने
श्रौतप्रायश्चित्तस्य बीजं किम् इति विचार्यमाणे,
‘‘उपनयनं विद्यार्थस्य श्रुतितस् संस्कारः”
इत्य् उक्तत्वात्

[[84]]

इदम् उपनयनं श्रौतकर्मस्व् अपि योग्यतापादक–वेद-विद्याऽभ्यास-मूलकम्
इति कृत्वा
श्रौत-प्रायश्चित्तम् अपि
पूर्वम् एव कर्तव्यम्
इति तत्र निर्णीतम् ।
तद् अनुसृत्य श्रौत-प्रतिग्रह-मन्त्र-ग्रहणम्
अत्रावश्यकम् इति कृत्वा
तात्पर्यदर्शनम् अनुसृत्य
सो ऽयं पन्था अस्माभिर् अप्य् आदृतः ।+++(5)+++

तमिऴ्

ப்ராணஸ்வம்மேகோபாய” என்று மாணவகன் தன்னுடைய மேல் உதட்டைத் தொட வேண்டும். உட்கார்ந்தபடியே வடக்கு முகமாகத் திரும்பி, ஒரு ஆசமனம் செய்து மறுபடி ஆசார்யனுக்கு அபிமுகமாகத் திரும்பி, “ப்ரஹ்மண ஆணீஸ்த:” என்கிற மந்திரத்தினால் தன்னுடைய காதுகளைத் தொட வேண்டும். “ஸுச்ரவஸ்ஸுச்ரவஸம் + நிதிகோபோபூயாஸம்” என்கிற மந்திரத்தினால் பலாச தண்டத்தை எடுத்துக் கொள்ள வேண்டும். “ஸ்ம்ருதம்சமே + ஸர்வ வ்ரதோபூயாஸம்” என்கிற பர்யந்தம் குமாரனுக்குச் சொல்லி வைக்க வேண்டும்.

ப்ரம்மோபதேசம் செய்வித்த ஆசார்யனுக்கு “ஹே குரோ வரம் தே ததாமி" என்று குரு தக்ஷிணையாக ஒரு பசுவையோ [[TODO::परिष्कार्यम्??]]

उत्थानम्

(सू - उदायुषेत्युत्थाप्य)

आचार्यः,

११ उदायुषा स्वायुषोदोषधीनाम् ...{Loading}...

उद् आयु॑षा स्वा॒युषा,
+उद् ओष॑धीना॒ꣳ॒ रसे॑न॒+,
+उत् प॒र्जन्य॑स्य॒ शुष्मे॑ण+++(=बलेन)++++
+उद् अ॑स्थाम्,
अ॒मृता॒ꣳ॒+++(=देवान्)+++ अनु॑ ।

इति कुमारम् उत्थापयेत् ।
उत्थापनानन्तरं तं मन्त्रं कुमारं वाचयित्वा ।

आदित्योपस्थानम्

(सू - उत्तरैरादित्यमुपतिष्ठते ॥)

१२ तच्चक्षुर्देवहितम् पुरस्ताच्छुक्रमुच्चरत् ...{Loading}...

+++(सूर्यस्)+++ तच् चक्षु॑र् दे॒व+++(नि)+++हि॑तं पु॒रस्ता॑च् छु॒क्र+++(द्ध)+++म् उ॒च्चर॑त् -
पश्ये॑म श॒रद॑श् श॒तं
जीवे॑म श॒रद॑श् श॒तं
नन्दा॑म श॒रद॑श् श॒तं
मोदा॑म श॒रद॑श् श॒तं
भवा॑म श॒रद॑श् श॒तꣳ
शृ॒णवा॑म श॒रद॑श् श॒तं
प्रब्र॑वाम श॒रद॑श् श॒तम्
अजी॑ताः स्याम श॒रद॑श् श॒तं
ज्योक्+++(=दीर्घकालं)+++ च॒ सूर्य॑न् दृ॒शे ।

इति कुमार आदित्यम् उपतिष्ठते ।

तमिऴ्

அதற்கான தக்ஷிணையையோ ஸமர்ப்பிக்க வேண்டும். அதை ஆசார்யன் ஏற்றுக் கொள்வதற்கு முன்பாக பதினேழு தடவை ச்வாஸத்தை அடக்கி, அடக்கி, விட்டு, தேவஸ்யத்வாஸவிது: + தேவிதக்ஷிணே ருத்ராயகாம் தேநாம்ருதத்வம் + உத்தாந ஸ்த்வாங்கீரஸ: ப்ரதிக்ருஹ்ணாது என்று சொல்லிப் பெற்றுக் கொள்ள வேண்டும். “உதாயுஷா + அம்ருதால் அநு” என்கிற மந்திரத்தைச் சொல்லி உட்கார்ந்திருக்கும் குமாரனை எழுப்பி விட வேண்டும். எழுந்ததும் அவனுக்கு இதே மந்திரத்தைச் சொல்லி வைக்க வேண்டும். “தச்சக்ஷ; + ஸூர்யந் த்ருசே” என்கிற மந்திரங்களால் குமாரன் ஸூர்யனை உபஸ்தானம் செய்ய -

हस्त-ग्रहणम्

(सू - यं कामयेत, नायं मच्छिद्येतेति
तम् उत्तरया दक्षिणे हस्ते गृह्णीयात् ।)

इदं काम्य-परम् इति अस्माभिः नाद्रियते ।
वेदाध्ययन, [[85]] वेदार्थ, शास्त्रार्थ-ग्रहणादिषु
अयं शिष्यः मां परित्यज्यान्यत्र न गच्छेद्
इति यं शिष्यं मन्यते आचार्यः,
तं प्रति +अयं विधिः ।
इदानीन्तने काले तादृशस्योपदेष्टुर् एवाप्रसक्तेः
मन्त्रपठनं व्यर्थम् एव।
यदा-कदाचित् तादृशस्योपदेष्टुः तादृश-शिष्य-लाभे सति

१३ यस्मिन्भूतञ्च भव्यञ्च ...{Loading}...

यस्मि॑न् भू॒तञ् च॒ भव्य॑ञ् च॒
सर्वे॑ लो॒कास् स॒माहि॑ताः ।
तेन॑ गृह्णामि त्वाम् अ॒हं,
मह्यं॑ गृह्णामि त्वाम् अ॒हं
प्र॒जाप॑तिना त्वा॒ मह्यं॑ गृह्णाम्य् असौ+++(→नामनिर्देशः)+++ ॥

इति तं शिष्यं दक्षिणे हस्ते गृहीयात् ।

क्रम-प्राप्तं ब्राह्मणोद्वासनं,
अग्न्य्-उपस्थानञ् च कुर्यात् ।