०३ आग्नेयस्थालीपाकः

अथ आग्नेयस्थालीपाकः

आग्नेयेन स्थालीपाकेन यक्ष्ये
इति सङ्कल्पयेत् ।
पत्नी व्रीहिन् अवहन्यात् ।

तस्मिन्न् एवाग्नौ स्वयं चरुं श्रपयित्वा
अभिघार्योत्तरतोऽवतार्य
पुनर् अभिघार्याग्निप्रतिष्ठाद्य्-अग्नि-मुखान्ते

पत्न्या ऽन्वारब्धो दर्व्याम् उपस्तीर्य
हविर् मध्याद् अङ्गुष्ठ-पर्व-मात्रं मध्यानामिकाऽङ्गुष्ठैः द्विर् अवदाय (जमदग्नीनां त्रिः)
सकृद्-अभिघार्य
चरौ प्रत्य्-अभिघार्य
‘अग्नये स्वाहा’ इत्य्-अग्नि-मध्ये हुत्वा
पूर्ववद् उपस्तीर्य

आर्द्रामलक-मात्रम् उत्तरार्धात् सकृद् अवदाय
(तेषां +++(जमदग्नीनां)+++ द्विर् अवदाय)
द्विर् अभिघार्य
‘अग्नये स्विष्टकृते स्वाहा’ इति प्राग्-उदीच्यां पूर्वाहुत्य्-असंसक्तं हुत्वा

निधान-क्रमेण परिधीन् अभ्यज्य
प्रधान-दर्वीं दक्षिणत
इतरां मध्ये
आज्यस्थालीम् उत्तरतश् चाग्नेः पश्चान् निधाय
पात्र-सादन-दर्भान् आदाय
प्रधान-दर्व्याम् अग्रम्, इतरदर्व्यां मध्यम्, आज्य-स्थाल्यां मूलम्
इति क्रमेण त्रिर् अक्त्वा
तेष्व् एकं दर्भं प्रज्ञातं निधाय

[[30]]

दक्षिणोत्तराभ्यां पाणिभ्यां दर्व्यां प्रतिष्ठाप्य
सव्यङ् करं निरस्य
तिर्यञ्चं हस्तम् अधारयन्
अग्रम् उदत्याग्नौ प्रहृत्य
पुनर् उदत्य, मध्यं प्रहृत्य
पुनर् उदत्य, मूलं प्रहृत्य
निहितं दर्भं च प्रहृत्य

तर्जन्या त्रिर् अग्निं निर्दिश्य
तम् अभिमन्त्र्य
दक्षिण-हस्तेन भूमिं स्पृष्ट्वा

मध्यमं परिधिम् अग्नौ प्रहृत्य
अन्यौ हस्ताभ्यां युगपद् आदाय
अग्नाव् उत्तरार्धस्य अङ्गारेषु अग्रं प्रवेश्य प्रहृत्य
सँस्राव-होमादि कुर्यात् ।

एवं सर्वत्र चरु-कर्मसु परिध्य्-अञ्चनादि सँस्रावान्तं लेप-कार्यं कुर्यात् ।

ततो बह्व्-आज्य-सिक्तेन हुत-शेषेण चरुणा
दक्षिणतो निषादितं ब्राह्मणं भोजयित्वा
पूज्याय ब्राह्मणायर्षभं दद्यात् ।

पूर्ण-पात्रम् अपीत्येके ।