०३ होतृगणस्य प्रश्नप्रतिवचने

यज्ञशर्मणः सोमो भविष्यति तत्र भवता हौत्रं कर्तव्यम् । को यज्ञः । ज्योतिष्टोमोऽग्निष्टोमस्सोमः । क ऋत्विजः । नारायणशर्मादयः । का दक्षिणा । द्वादशशतं गावो दक्षिणाः । मैत्रावरुणाच्छावाक-ग्रावस्तुतां क्रमेणैवम् ।