०४ होमः

पूर्वाङ्गम्

अग्निप्रतिष्ठा

अग्निप्रतिष्ठा

प्राचीः पूर्वम् उदक्-सँस्थं
दक्षिणारम्भम् आलिखेत् ।
अथोदीचीः पुरःसँस्थं
पश्चिमारम्भम् आलिखेत् ॥

अवाक्-करोऽभ्युक्ष्य,
तृणं निर्ऋत्यां निरस्य,
अप उपस्पृश्य,

व्याहृतीभिः अग्निं प्रतिष्ठाप्य,
उत्सृज्यते ऽवोक्षण-तोयशेषं प्राक्तोयम्।
अन्यत् निदधाति,
उदग् वा ।

ये पार्थि॑वासः ...{Loading}...

ये पार्थि॑वासः पि॒तरो॒ ये अ॒न्तरि॑क्षे॒
ये दि॒वि ये वा मृता॑ बभूवुः ।
ते अ॒स्मिन् य॒ज्ञे सम॑वयन्ताम् ॥

इति सव्यानामिकाङ्गुष्ठाभ्यां दक्षिणतो भुवं स्पृष्ट्वा,

अग्निम् इद्ध्वा, परिसमूह्य,
अग्निं प्राग्-आदि +अप्रदक्षिणं परिस्तृणाति -
दक्षिणाग्रैः पित्र्येषु; दक्षिणान् अधरान्; उत्तरान् उत्तरान्,
उत्तरेणाग्निं प्राग्-अग्रान् दर्भान् संस्तीर्य।

पात्रसादनादि

एकैकशः पात्राणि प्रयुनक्ति -
दर्वीम्, आज्य-स्थालीं, वैकङ्कतीं प्रोक्षणीं, प्रणीतीम्,
इध्मम्, उपस्तरणार्थ-दर्वीं, बर्हिश् च।
दक्षिणम् इध्मम्, उत्तरं बर्हिः, हविःपात्रम्, अ-हविः-पात्रं+++(=??)+++ च प्रयुज्य,
समौ अच्छिन्नाग्रौ दर्भौ प्रादेश–मात्रौ पवित्री-कुरुते;
तृणं काष्ठं वा अन्तर्धाय छिनत्ति ।

अप उपस्पृश्य, पवित्री-कृत्य, पात्राणि संस्पृश्य,

प्रोक्षणीम् आदाय, अपरेणाग्निं निधाय,
पवित्रान्तर्हितायाम् अप आनीय,
उत्तान-पाण्योर् अङ्गुष्ठोपकनिष्ठिकाभ्यां त्रिर् उत्पूय,

उत्तानानि पात्राणि त्रिः प्रोक्ष्य,
विस्रस्येध्मम् अपि,

अपरेणाग्निं पवित्रान्तर्हिते प्रणीतिपात्रे अप आनीय,
पूर्ववत् त्रिरुत्पूय,
समं प्राणैर् हृत्वा,
उत्तरेणाग्निम् अन्येषु दर्भेषु सादयित्वा,

आज्य-निर्वापादि

पवित्रम् आदाय,
आज्य-स्थाल्यां निधाय,
दर्भैः प्रच्छाद्य,
ब्राह्मणं दक्षिणतो दर्भेषु निषाद्य,
आज्यं विलीनम् अपि विलाप्य,

[[110]]

अपरेणाग्निं पवित्रान्तर्हितायां आज्य-स्थाल्याम् आज्यं निरुप्य,
उदीचोऽङ्गारान् निरूह्य,
परिस्तरण-पात्र-सादनयोर् मध्ये तेष्व् अधिश्रित्य,

एकेन तृणेन ज्वलता अवद्योत्य,
बहिर् निरस्य,

द्वे दर्भाग्रे तृणं काष्ठं वा +अन्तर्धाय प्रच्छिद्य,
अप उपस्पृश्य,
प्रक्षाल्य,
+++(आज्ये)+++ प्रत्यस्य,

अधोमुखाभ्यां ज्वलद्भ्यां तृणाभ्यां त्रिः पर्यग्नि कृत्वा,

निरूढाग्निश्+++(=??)+++ चेत् तत्रैव निक्षिप्य -
नो चेद् अन्यत्र निक्षिप्य,
+++(आज्यपात्रम्)+++ उदग् उद्वास्य,
अङ्गारान् अग्नौ प्रत्यूह्य,
दर्भास्तृते पश्चिमे निधाय,
उदग्-अग्राभ्यां पवित्राभ्यां पुनर्-आहारं प्रागारम्भं प्रागपवर्गं त्रिर् उत्पूय,

पवित्र-ग्रन्थिं विस्रस्य,
अप उपस्पृश्य,
प्राग्-अग्रम् अग्नौ प्रहरति ।

दर्वी-संस्कारः

येन जुहोति, तद् अग्नौ प्रतितप्य, जुहूम्

05 वाचम् प्राणमिति जुहूमग्रैरन्तरतोऽभ्याकारम् ...{Loading}...

“वाचं प्राणम्” इति
जुहूम् अग्रैर् अन्तरतो ऽभ्याकारं+++(=पुनः पुनः)+++ प्राचीं,
मध्यैर् बाह्यतः प्रतीचीम्,
मूलैर् दण्डम् ५

इत्य्-आदि-प्रकारेण प्रत्येकं संमृज्य,
पुनः प्रतितप्य,
प्रोक्ष्य, निधाय,
दर्भान् अद्भिः संस्पृश्य
अग्नौ प्रहरति ।

परिधि-स्थापनादि

परिधीन् परिदधाति -
स्थविष्ठो मध्यमः,
अणीयान् द्राघीयान्+++(=दीर्घतरः)+++ दक्षिणार्ध्यः,
अणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः -
एवं परिस्तरणान्तः सर्वान् परिधीन् परिधाय -

उपवीती -
द्वे आघारसमिधौ मध्यमं परिधिम् उपस्पृश्य
दक्षिणम् उत्तरम् अग्नौ आदधाति ।

प्राचीनावीती - परिध्यन्तः परिस्तरणोपरि तूष्णीं समन्तम् अप्रदक्षिणं परिषिच्य, इध्यममाज्येनाभ्यज्य [[ध्म??]],

अस्मिन् मम पितुः प्रत्याब्दिक-श्राद्ध-होम-कर्मणि
ब्रह्मन्! इध्मम् आधास्ये ।

इति ब्राह्मणम् अनुज्ञाप्य,
दक्षिणहस्तेन सर्वाणि +इध्म-काष्ठानि युगपत् अग्नावाधाय -

आघारः

उपवीती - इतर-दर्व्या आज्यम् आदाय,
उत्तरं परिधि-सन्धिम् अन्ववसृत्य,
‘प्रजापतिं’ मनसा ध्यायन्न्
आघारम् आघारयति - ‘प्रजापतय इदं न मम’ ।

दक्षिणं परिधिसन्धिम् अन्ववसृत्य
‘इन्द्रं’ मनसा ध्यायन्न्
आघारम् आघारयति - ‘इन्द्रायेदं न - मम’
इति उद्देशत्यागं कृत्वा,

[[111]]

आज्यभागौ

‘ओम् अ॒ग्नये॒ स्वाहा᳚” इति उत्तरार्ध-पूर्वार्धे (अग्नय इदं न मम) इति,
‘ओं सोमा॑य॒ स्वाहा᳚’ इति दक्षिणपूर्वार्धे (सोमाय इदं न मम) इति,

‘ओम् अ॒ग्नये॒ स्वाहा᳚’ (अग्नय इदं न मम) इति,
‘ओं भूर्भुव॒स्सुव॒स्स्वाहा᳚’ (प्रजापतय इदं न मम) इति च मध्ये जुहोति ।

सर्वत्र दर्वीं मध्यमानामिकाङ्गुष्ठैरेव धृत्वा
देवतीर्थेन जुहोति ॥+++(5)+++

आवाहनम्

वैश्वदेवम्

उत्थाय स-यव-हस्तः,
‘विश्वान् देवान् आवाहयिष्ये’ इति वैश्वदेविक-ब्राह्मणान् आपृच्छ्य,
‘आवाहय’ इत्यनुज्ञातः -

अग्नेर् उतरत्तः,
युग्मेषु दर्भेषु प्राङ्मुखः

१३ विश्वे देवाः ...{Loading}...

विश्व॑देवाश् शृणु॒तेमँ हवं॑ मे॒
ये अ॒न्तरि॑क्षे य उप॒ द्यवि॒ ष्ठ
ये अ॑ग्नि-जि॒ह्वा उ॒त वा॒ यज॑त्रा
आ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्वम्

आगच्छन्तु महाभागा
विश्वेदेवा महाबलाः ।
ये अत्र विहिताश् श्राद्धे
सावधाना भवन्तु ते ॥

इति मन्त्राभ्यां

… गोत्रस्य …. शर्मणः पितुः
प्रत्याब्दिकश्राद्धे पुरूरवार्द्रव-संज्ञकान्
विश्वाख्य-दक्ष-प्रजापति-दुहितुर् उत्पन्नान् देवान् आवाहयामि

इत्यावाह्य

“(उक्तानां) विश्वेषां देवानां सयवम् इदमासनम्”
इति ऋजु-दर्भ-द्वयं साक्षतं दत्वा,

देवतीर्थेन यवोदकम् उत्सिञ्चति 1

[[112]]

पैतृकम्

प्राचीनावीती -
अग्नेर् दक्षिणतस् त्रिभिः (सप्तभिर्वा) दर्भैः कृतं
भुग्नं दक्षिणाग्रं निधाय,

सतिल-हस्तः
“पितृ-पितामह-प्रपितामहान् आवाहयिष्ये’
(इति पूर्ववद् आपृच्छ्य)
‘आवाहय’ (इत्य् अनुज्ञातः)

AyAta_pitaraH ...{Loading}...

आया॑त पितरस् सो॒म्या
ग॑म्भी॒रैः प॒थिभिः॑ पू॒र्व्यैः ।
प्र॒जाम् अ॒स्मभ्यं॑ ददतो+++(=ददत + उ)+++ र॒यिञ् च॑
दीर्घायु॒त्वं च॑ श॒तशा॑रदं च ॥

… गोत्रस्य ….शर्मणः पितुः प्रत्याब्दिकश्राद्धे
… गोत्रान् …. शर्मणः वसु-रुद्रादित्य-स्वरूपान्
अस्मत्-पितृ-पितामह-प्रपितामहान् आवाहयामि’

इति तिलैः पितृतीर्थेन आवाह्य,

90 सकृदाच्छिन्नं बर्हिर् ...{Loading}...

स॒कृ॒दा॒च्छि॒न्नं ब॒र्हिर् ऊर्णा॑-मृदु ।
स्यो॒नं पि॒तृभ्य॑स् त्वा भराम्य् अ॒हम् ।
अ॒स्मिन् सी॑दन्तु मे पि॒तर॑स् सो॒म्याः ।
पि॒ता॒म॒हाः प्रपि॑तामहाश् चानु॒गैस् स॒ह ॥33॥

इति सतिलं भुग्नं दक्षिणाग्रं पितृतीर्थेनैव,

.. गोत्राणां …. शर्मणां … वसुरुद्रादित्यस्वरूपाणाम् अस्मत्-पितृ-पितामह-प्रपितामहानां स-तिलम् इदम् आसनम्

इति दत्वा

३४ ऊर्जं वहन्तीरमृतम् ...{Loading}...

ऊर्जं॒ वह॑न्तीर् अ॒मृतं॑ घृ॒तं
पयः॑ की॒लालं॑ परि॒स्रु॑तम्।
स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ॥३४॥

इति पितृतीर्थेन2 तिलोदकं उत्सिञ्चेत् ॥

[[113]]

वैष्णवम्

३. उपवीती - विष्ण्व्-अर्थब्राह्मणम् अपि पूर्ववत् आपृच्छ्य,
अनुज्ञातः

०१ सहस्रशीर्षा पुरुषः ...{Loading}...

+++(बहु-देवता-सङ्ग्रहात्)+++ स॒हस्र॑+++(~अनन्त)+++शीर्षा॒ पुरु॑षः
स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स +++(वक्ष्यमाणां विराजं)+++ भूमिं॑ वि॒श्वतो॑ वृ॒त्वा
अत्य॑तिष्ठद् दशाङ्गु॒लम् । १
+++(मुख-मूर्ध्नोर् अन्तरं दशाङ्गुलम्, वाचिक+अव्यक्त-कल्पनयोश् चेति केचित्।)+++

… गोत्रस्य …… शर्मणः पितुः प्रत्याब्दिकश्राद्धे
श्राद्ध-संरक्षकं श्रीविष्णुम् आवाहयामि

इति आवाह्य,

पुरु॑ष ए॒वेदँ सर्व᳚म् । यद्भू॒तं यच्च॒ भव्य᳚म् । उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑नाति॒रोह॑ति ॥ [[TODO:परिष्कार्यम्??]]

“विष्णोर् इदम् आसनम्”,
इति ऋजु-दर्भ-द्वयं साक्षतं पूर्ववत् दत्वा,

यवोदकं उत्सिच्य,

अन्नाहुतयः

प्राचीनावीती -
“उद्ध्रियताम्, अग्नौ च क्रियताम्” इति ब्राह्मणान् आपृच्छ्य,
“काममुद्ध्रियतां, काम् अमग्नौ च क्रियताम्” इति विसृष्टः,

हविः-पात्रे भगवन्-निवेदिताद् अलवणात्
पक्वापक्वात् सर्वस्मात् किञ्चित् किञ्चिद् उद्धृत्य,

अ-हविः-पात्रे सलवणात् व्यञ्जनादिकात् किञ्चित् किञ्चित् उद्धृत्य

अग्नेर् उत्तरतः प्रतिष्ठितम् अभिघार्य,
सौकर्यार्थं पुरतो वा निधाय,
दर्व्याम् उपस्तीर्य हविषः,
द्विर् अवदाय (3 वत्सानां त्रिर् अवदाय),
पुनर् अभिघार्य,
अवदानान्य् एकीकृत्य

‘यन्मे पद्यतां’ .. शर्मणे अस्मत्पित्रे स्वाहा

इत्यादि-क्रमेण षड् आहुतीः
वामेन हविःपात्रं स्पृशन्
कृष्णायां मध्ये वा हुत्वा,
प्रत्येकं उद्देशत्यागं कृत्वा ॥

तत्प्रकारः,

[[114]]

०१ यन्मे माता ...{Loading}...

यन् मे॑ मा॒ता प्रलु॑लोभ॒ चर॒त्य् अन॑नुव्रता,
तन् मे॒ रेतः॑ पि॒ता वृ॑ङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आ॒भुर्+++(←आभवतीति)+++ अ॒न्यो +++(बलेर् दूरम्)+++ ऽव॑पद्यताम्।+++(र५)+++
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।

… शर्मणे अस्मत्पित्रे स्वाहा ॥ (पित्र इदं न मम)

०२ यास्तिष्ठन्ति या ...{Loading}...

यास् तिष्ठ॑न्ति॒, या धाव॑न्ति॒,
या आ॑॑र्द्रो॒घ्नीः+++(=कूलादिघ्नीः)+++ परि॑त॒स्थुषीः॑॑ ।
अ॒द्भिर् विश्व॑स्य भ॒र्त्रीभि॑र्
अ॒न्तर् अ॒न्यं पि॒तुर् द॑धे॒, +++(र५)+++
ऽमुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑ ।

… शर्मणे अस्मत्पित्रे स्वाहा ॥ (पित्र इदं न मम)

०३ यन्मे पितामही ...{Loading}...

यन् मे॑ पिताम॒ही प्रलु॑लोभ॒ चर॒त्य् अन॑नुव्रता,
तन् मे॒ रेतः॑ पिताम॒हो वृ॑ङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आ॒भुर्+++(←आभवतीति)+++ अ॒न्यो +++(बलेर् दूरम्)+++ ऽव॑पद्यताम्।
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।

… शर्मणे अस्मत् पितामहाय स्वाहा ॥ (पितामहाय इदं न मम)

०४ अन्तर्दधे पर्वतैरन्तर्मह्या ...{Loading}...

अ॒न्तर् द॑धे॒ पर्व॑तैर्
अ॒न्तर् मह्या॑ पृथि॒व्या ।
आ॒भिर् दि॒ग्भिर् अ॑न॒न्ताभि॑र्
अ॒न्तर् अ॒न्यं पि॑ताम॒हाद् द॑धे॒
ऽमुष्मै॒ स्वाहा॑॑ ।

… शर्मणे अस्मत् पितामहाय स्वाहा ॥ (पितामहाय इदं न मम)

०५ यन्मे प्रपितामही ...{Loading}...

यन् मे॑ प्रपिताम॒ही प्रलु॑लोभ॒ चर॒त्य् अन॑नुव्रता,
तन् मे॒ रेतः॑ प्रपिताम॒हो वृ॑ङ्क्ताम्+++(=आच्छिद्य स्वीकरोतु)+++।
आ॒भुर्+++(←आभवतीति)+++ अ॒न्यो +++(बलेर् दूरम्)+++ ऽव॑पद्यताम्।
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।

… शर्मणे अस्मत्प्रपितामहाय स्वाहा ॥ (प्रपितामहाय इदं न मम)

०६ अन्तर्दध ऋतुभिरहोरात्रैश्च ...{Loading}...

अ॒न्तर्द॑ध ऋ॒तुभि॑र्
अहोरा॒त्रैश् च॑ +++(काल)+++स॒न्धिभिः॑ ।
अ॒र्ध॒मा॒सैश् च॒ मासै॑॑श् च+
अ॒न्तर् अ॒न्यं प्र॑पिताम॒हाद् द॑धे॒
अ॒मुष्मै॒+++(←नामनिर्देशः)+++ स्वाहा॑॑।

… शर्मणे अस्मत्प्रपितामहाय स्वाहा ॥ (प्रपितामहाय इदं न मम)

[[115]]

पूर्ववद् उपस्तीर्य,
द्विर् अवदाय,
अभिघार्य दर्वीम् अनुत्सृजन्न् -

उपवीती, हविः प्रत्यभिघार्य,
प्राचीनावीती - सकृद् अभिघार्य

०७ ये चेह ...{Loading}...

ये चे॒ह पि॒तरो॒ ये च॒ नेह॒
याँश् च॑ वि॒द्म याँ उ॑ च॒ न प्र॑ वि॒द्म ।
अग्ने॒ तान् वेत्थ॒ यदि॒
ते जा॑तवेद॒स् तया॑॑ प्र॒त्तँ+++(→प्रत्तया = प्रदत्तया)+++ स्व॒धया॑ मदन्तु॒
स्वाहा॑॑ ।

इति हुत्वा, ‘ज्ञाताज्ञातपितृभ्य इदं न मम',

आज्याहुतयः

आज्याहुतयः

‘स्वाहा पित्रे’ इत्यादि षडाज्याहुतीर् जुहोति ॥
पञ्चानां पिता देवता, अन्तिमस्य कव्यवाहनोऽग्निः ॥

तत्-प्रकारः -

१. स्वाहा॑ पि॒त्रे । (पित्र इदं न मम)
२. पि॒त्रे स्वाहा᳚ । (पित्र इदं न मम)
३. स्वाहा॑ पि॒त्रे । (पित्र इदं न मम )
४. पित्रे॒ स्वाहा᳚ । (पित्र इदं न मम )
५. स्व॒धा स्वाहा᳚ । (पितृभ्य इदं न मम)
६. अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा᳚ । (अग्नये कव्यवाहनाय इदं न मम)

स्विष्टकृत्

उपवीती -
दर्व्याम् उपस्तीर्य
प्रधानाहुत्य्-अधिकम् उत्तरार्धात् सकृत् अवदाय (पञ्चावत्ती चेत् द्विरवदाय),
द्विर् अभिघार्य,
‘अ॒ग्नये᳚ स्विष्ट॒कृते॒ स्वाहा᳚’ इत्य्
असंसक्तम् इतराभिर् आहुतिभिर् उत्तर-पूर्वस्यां जुहोति ।
(अग्नये स्विष्टकृत इदं न मम) ।

[[116]]

अहविष्यहोमः

प्राचीनावीती
दर्व्याम् उपस्तीर्य,
अहविष्यं सकृत् अवदाय,
अभिघार्य,
उत्तर-भस्मनि अग्नौ ‘स्वाहा’कारेण जुहोति; (हुतदेवताभ्य इदं न मम) ।

लेपकार्यम्

आज्य-स्थालीम् उत्तरतः, प्रधान-दर्वीं दक्षिणत, इतरन् मध्ये कृत्वा,
उत्तरतः पूर्वास्तीर्णे पात्र-सादनार्थं बर्हिः सर्वम् आदाय,
प्रधान-दर्व्याम् अग्रम् - इतरस्यां मध्यम् - आज्यस्थाल्यां मूलम्
एवं त्रिर् अक्त्वा,

तृणम् एकं प्रज्ञातं +++(पार्श्वतो??)+++ निधाय,

प्रधान-दर्व्यां दक्षिणोत्तराभ्यां पाणिभ्यां मूलं निधाय,
सव्यं निरस्य,
दक्षिणं तिर्यञ्चं धारयित्वा,
अग्रम् उद्यम्य प्रहृत्य,
मध्यम् उद्यम्य प्रहृत्य,
मूलम् उद्यम्य प्रहृत्य,
तृणं प्रहृत्य,

तर्जन्या अग्निं त्रिर् निर्दिश्य,
अग्निम् अञ्जलिना अभिमन्त्र्य,
दक्षिण-हस्तेन भूमिं स्पृष्ट्वा

उत्तराङ्गम्

परिधिप्रहरणम्

मध्यमं परिधिं प्रहृत्य,
इतरौ पाणिभ्याम् आदाय
उत्तरार्धस्याग्रम् अङ्गारेषु +उपोहति,
दक्षिणम् उपरि कृत्वा प्रहरति ।

संस्रावः

दक्षिण-वाम-हस्ताभ्यां प्रधानाप्रधान-दर्वीभ्याम् आज्यम् आदाय
प्रधानोत्तरया दर्व्या सँस्रावं जुहोति । (‘स्वाहा’) वसुभ्यो रुद्रेभ्य आदित्येभ्यः सँस्रावभागेभ्य इदं न मम ।

प्रायश्चित्ताहुतयः

उपवीति – प्राणान् आयम्य

… अस्मिन् मम पितुः (प्रत्याब्दिक) श्राद्ध-होम-कर्मणि
मन्त्र-तन्त्र-देवता-विपर्यास-न्यूनातिरेक-स्वराक्षर-भ्रंष-प्रायश्चित्तार्थं
सर्वप्रायश्चित्ताहुतीर् होष्यामि,
प्राणायामञ्च करिष्ये

इति सङ्कल्प्य

भूर् भुव॒स् सु॒व॒स् स्वाहा᳚ ...{Loading}...
विश्वास-प्रस्तुतिः

ओं भूर् भुव॒स् सुव॒स् स्वाहा᳚ ॥
(प्रजापतय इदं न मम) ॥१॥

मूलम्

ओं भूर् भुव॒स् सुव॒स् स्वाहा᳚ ॥
(प्रजापतय इदं न मम) ॥१॥

35 अनाज्ञातय्ँयदाज्ञातम् यज्ञस्य ...{Loading}...

अना᳚ज्ञात॒य्ँयदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थम् ।

38 पुरुषसम्मितो यज्ञः ...{Loading}...

पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थम् ।

41 यत्पाकत्रा मनसा ...{Loading}...

यत्पा॑क॒त्रा मन॑सा दी॒नद॑ख्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्न् ।
यजि॑ष्ठो दे॒वाꣳ ऋ॑तु॒शो य॑जाति ॥115॥

०४ त्वं नो ...{Loading}...

त्वन् नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्
दे॒वस्य॒ हेडो+++(=क्रोधो )+++ ऽव॑ यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
यजि॑ष्ठो॒ +++(हविर्)+++वह्नि॑तम॒श् शोशु॑चानो॒+++(=देदीप्यमानः)+++
विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य् अ॒स्मत् ।

०५ स त्वं ...{Loading}...

स त्वन् नो॑ अग्ने ऽव॒मो+++(=मूलभूतो)+++ भ॑व॒+ऊ॒ती+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
नेदि॑ष्ठो+++(=अन्तिकतमो)+++ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ+++(=व्युष्टायाम्)+++ ।
अव॑ यक्ष्व नो॒ वरु॑णँ॒, ररा॑णो
वी॒हि+++(=खाद)+++ मृ॑डी॒कँ+++(=सुखयितारं [हविः])+++ सु॒हवो॑ न एधि

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

व्याहृतिहोमाः

व्याहृति-होमाः ४ ...{Loading}...
विश्वास-प्रस्तुतिः

(ओं) भूस्स्वाहा᳚ ॥ (अ॒ग्नय॑ +इ॒दं न म॑म)

(ओं) भुव॒स्स्वाहा᳚ ॥ (वा॒यव॑ +इ॒दं न म॑म)

(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्या॑य +इ॒दं न म॑म)

(ओं) भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥
(प्र॒जाप॑तय +इ॒दं न म॑म)

मूलम्

(ओं) भूस्स्वाहा᳚ ॥ (अग्नय इदं न मम)

(ओं) भुव॒स्स्वाहा᳚ ॥ (वायव इदं न मम)

(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्याय इदं न मम)

(ओं) भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥
(प्रजापतय इदं न मम)

पूर्णाहुति-प्राणायामौ

ओं विष्ण॑वे॒ स्वाहा᳚ ॥ (विष्णव इदं न मम) ॥११॥

इति पूर्णाहुतिः

प्राणायामः ।

[[118]]

परिषेचनम्, प्रणीताविमोकः

प्राचीनावीती,
तूष्णीम् अप्रदक्षिणं परिषेचनं, प्रणीतावोक्षणम् ।

प्रणीतिपात्रं पश्चान् निधाय,
प्रणीतासु अपः अविच्छिन्नधारया आनीय,
‘प्राच्यां’ इत्यादिक्रमेण (प्राच्यां, दक्षिणायां, प्रतीच्याम्, उदीच्याम्, ऊर्ध्वायां, भूमौ)
प्रतिदिशं सकृत् व्युत्सिच्य,

१८ समुद्रं वः ...{Loading}...

स॒मु॒द्रं वः॒ प्रहि॑णोमि॒
स्वां योनि॒म् अपि॑ गच्छत ।
अच्छि॑द्रः प्र॒जया॑ भूयासं॒
मा परा॑ सेचि॒ मत् पयः॑ ॥ (9)

आत्मानं प्रोक्षयेत् ॥

उपस्थानानि

उपवीती - ब्रह्मोद्वासनम्।
“अग्ने नयेति” उपस्थानम् ।

०१ अग्ने नय ...{Loading}...

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्
विश्वा॑नि देव व॒युना॑नि+++(=ज्ञानानि)+++ वि॒द्वान् ।
यु॒यो॒ध्य्+++(=अपनय)+++ अ॑स्मज्-जुहुरा॒णम्+++(=कुटिलकारि)+++ एनो॒
भूयि॑ष्ठान् ते॒ नम॑-उक्तिव्ँ विधेम

मन्त्रहीनं - हुताशन ...{Loading}...

(अग्नये नमः)

विश्वास-प्रस्तुतिः

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

मूलम्

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

प्रायश्चित्तान्यशेषाणि ...{Loading}...
विश्वास-प्रस्तुतिः

प्रायश्चित्तान्य् अशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां
कृष्णानुस्मरणं परम् ॥

मूलम्

प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम्॥

(कृष्ण कृष्ण कृष्ण॥)

इत्युक्त्वा, प्रणम्य अभिवाद्य,

प्राचीनावीती -

पिता पितामहश् चैव
तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्व् अद्य
होमाप्यायित-मूर्तयः ॥

स्वामिनः! अद्यानुष्ठिते मम पितुः (प्रत्याब्दिक)-श्राद्ध-होम-कर्मणि
मन्त्रलोपे क्रियालोपे द्रव्यलोपे नियमलोपे सत्य् अपि
सर्वं यथाशास्त्रानुष्ठितं भूयाद् इति भवन्तो ऽनुगृह्णन्तु

इति प्रार्थना ।
“तथाऽस्तु” इति प्रतिवचनम् ॥

[[119]]


  1. सर्वं देवतीर्थेन देवोपचारं दद्यात् । ↩︎

  2. पित्रुपचारं सर्वं पितृतीर्थेन कुर्यात् ↩︎

  3. ‘हविषो मध्यात्, अङ्गुष्ठ-पर्व-मात्रम् अवदानं
    तिरश्चीनम् अवद्यति+++(=कर्तयति)+++ ।
    पूर्वात्, द्वितीयम् अनूचीनं चतुर्-अवत्तिनः+++(=अवदातारः)+++ पश्चार्धात्,
    तृतीयं पञ्चावत्तिनः’

    इति प्रकारेण वदाय ↩︎