‘नवोनवो भवति’ इत्यनुवाकान्
३, चान्द्रमासादीनां सप्तानामिष्टीनां याज्यानुवाक्याः ...{Loading}...
चन्द्रमाः
भास्करोक्त-विनियोगः
1-2अथ ‘चन्द्रमा वा अकामयत’ इत्यादीनां सप्तानां क्रमेण याज्यानुवाक्याः द्वेद्वे । तत्र चन्द्रमसः (ननु ‘नक्षत्रेष्टका उपदधात्येतानि वै दिवो ज्योतीꣳषि तान्येवावरुन्धे’ इति ब्राह्मणे ‘कृत्तिका नक्षत्रमग्निर्देवता’ इत्यादीनामष्टाविंशतिनक्षत्रा दर्शपूर्णमासयोश्च त्रिंशतामेवोपधानमुक्तम् । किञ्च - ‘अभिचरन् श्येनचिता यजेत’ इत्यत्र ‘अग्नेः कृत्तिकाः’ इति त्रिंशतामेवोपधानम् । अत्र नक्षत्रेष्ट्यां चन्द्रादिसप्तानां यजनं किमर्थमित्यत आह - चन्द्रमा वा अकामयत इत्यादि । चन्द्रादीनामपि नक्षत्राधीनत्वात् चन्द्रसूर्ययोर्नक्षत्रेषु गमनं प्रसिद्धम् । अवशिष्टानां त्रयाणां तद्विभागतत्सन्धानतदात्मत्वेन अदितेर्विष्णोश्च यजनं नक्षत्रसत्रकर्तुः यजमानस्य ज्योतिष्ट्वावाप्तये प्रतिष्ठायै च भवति । तेषां द्वेद्वे याज्यानुऽवाक्ये) । नवोनवो भवति, यमादित्या अंशुमिति । व्याख्याते चैते द्वितीयकाण्डस्य चतुर्थान्त्ये ॥
१९ नवोनवो भवति ...{Loading}...
नवो॑नवो भवति॒ जाय॑मा॒नो
ऽह्नां॑ के॒तुर् उ॒षसा॑म् ए॒त्य् अग्र॑म् +++(कृष्णपक्षे)+++।
भा॒गं +++(सोमपाभ्यो)+++ दे॒वेभ्यो॒ वि द॑धात्य् आ॒यन्
प्र च॒न्द्रमा॑स् तिरते+++(=वर्धयति)+++ दी॒र्घम् आयुः॑ ॥१९
019 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - चन्द्रमाः
- ऋषिः - सावित्री सूर्या ऋषिका
- छन्दः - त्रिष्टुप्
Thomson & Solcum
न꣡वो-नवो भवति जा꣡यमानो
अ꣡ह्नां केतु꣡र् उष꣡साम् एति अ꣡ग्रम्
भागं꣡ देवे꣡भ्यो वि꣡ दधाति आय꣡न्
प्र꣡ चन्द्र꣡मास् तिरते दीर्घ꣡म् आ꣡युः
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
bhavati ← √bhū- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
jā́yamānaḥ ← √janⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
návo-navaḥ ← náva- 2 (nominal stem)
{case:NOM, gender:M, number:SG}
ágram ← ágra- (nominal stem)
{case:NOM, gender:N, number:SG}
áhnām ← áhar ~ áhan- (nominal stem)
{case:GEN, gender:N, number:PL}
eti ← √i- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
ketúḥ ← ketú- (nominal stem)
{case:NOM, gender:M, number:SG}
uṣásām ← uṣás- (nominal stem)
{case:GEN, gender:F, number:PL}
āyán ← √i- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
bhāgám ← bhāgá- (nominal stem)
{case:ACC, gender:M, number:SG}
dadhāti ← √dhā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
devébhyaḥ ← devá- (nominal stem)
{case:DAT, gender:M, number:PL}
ví ← ví (invariable)
{}
ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}
candrámāḥ ← candrámas- (nominal stem)
{case:NOM, gender:M, number:SG}
dīrghám ← dīrghá- (nominal stem)
{case:NOM, gender:N, number:SG}
prá ← prá (invariable)
{}
tirate ← √tr̥̄- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
पद-पाठः
नवः॑ऽनवः । भ॒व॒ति॒ । जाय॑मानः । अह्ना॑म् । के॒तुः । उ॒षसा॑म् । ए॒ति॒ । अग्र॑म् ।
भा॒गम् । दे॒वेभ्यः॑ । वि । द॒धा॒ति॒ । आ॒ऽयन् । प्र । च॒न्द्रमाः॑ । ति॒र॒ते॒ । दी॒र्घम् । आयुः॑ ॥
Hellwig Grammar
- navo ← navaḥ ← nava
- [noun], nominative, singular, masculine
- “new; fresh; young; matutinal; recent; nava [word]; modern; fresh.”
- navo ← navaḥ ← nava
- [noun], nominative, singular, masculine
- “new; fresh; young; matutinal; recent; nava [word]; modern; fresh.”
- bhavati ← bhū
- [verb], singular, Present indikative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- jāyamāno ← jāyamānaḥ ← jan
- [verb noun], nominative, singular
- “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”
- ‘hnāṃ ← ahnām ← ahar
- [noun], genitive, plural
- “day; day; ahar [word]; day; day.”
- ketur ← ketuḥ ← ketu
- [noun], nominative, singular, masculine
- “banner; ketu; sunbeam; enemy; sign; Premna spinosa Roxb.; comet; signal; signal; luminosity.”
- uṣasām ← uṣas
- [noun], genitive, plural, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- ety ← eti ← i
- [verb], singular, Present indikative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- agram ← agra
- [noun], accusative, singular, neuter
- “tip; beginning; peak; end; front; top; beginning; battlefront; agra [word]; acme; fingertip; top; best; optimum; climax; matter; glans.”
- bhāgaṃ ← bhāgam ← bhāga
- [noun], accusative, singular, masculine
- “part; part; part; parcel; quarter; body part; location; region; allotment; part; numerator; division; application; function; outside; bhāga [word]; volume; helping.”
- devebhyo ← devebhyaḥ ← deva
- [noun], dative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- vi
- [adverb]
- “apart; away; away.”
- dadhāty ← dadhāti ← dhā
- [verb], singular, Present indikative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- āyan ← e ← √i
- [verb noun], nominative, singular
- “come; travel.”
- pra
- [adverb]
- “towards; ahead.”
- candramās ← candramāḥ ← candramas
- [noun], nominative, singular, masculine
- “moon; Candra; candramas.”
- tirate ← tṛ
- [verb], singular, Present indikative
- “traverse; overcome; float; rescue; reach; satisfy.”
- dīrgham ← dīrgha
- [noun], accusative, singular, neuter
- “long; long; long; large; far; deep; dīrgha [word].”
- āyuḥ ← āyus
- [noun], accusative, singular, neuter
- “life; longevity; āyus; life; āyus [word]; Āyus.”
सायण-भाष्यम्
अयं चन्द्रमाः जायमानः प्रतिदिनं जायमान एकैककलाधिक्येनोत्पद्यमानः सन् नवोनवो भवति प्रतिदिनं नूतन एव भवति । एतत्पूर्वपक्षाद्यभिप्रायम् । तथा अह्नां दिवसानां केतुः प्रज्ञापकः प्रतिपदादीनां तिथीनां चन्द्रकलाहासवृद्ध्यधीनत्वात् । तादृशश्चन्द्रमाः उषसां प्रभातीनाम् अग्रम् एति। एतत्कृष्णपक्षान्ताभिप्रायम् । केचनैतं पादमादित्यदैवत्यमाहुः । तस्मिन् पक्षेऽह्नां केतुत्वमुषसामग्रगतिश्च प्रसिद्धे । देवेभ्यः भागं हविर्भागं वि दधाति करोति उभयपक्षान्ते । किं कुर्वन् । आयन प्रतिदिनं हासवृद्ध्या पक्षान्तमभिगच्छन्। एतदर्धमासाभिप्रायम्। चन्द्रमाः उक्तलक्षणो देवः दीर्घमायुः तिरते वर्धयति ॥
भट्टभास्कर-टीका
अत्र चन्द्रगुणकीर्तनेनादित्य एव स्तूयते, तेषां चन्द्रगुणानामादित्याधीनत्वात् । तथा हि - चन्द्रो नामायं भास्वरः सलिलकटाहात्मा । यथाहुः -
सूर्योग्निमयो गोळः चन्द्रोम्बुमयस्स्वभावतस्स्वच्छः । इति ।
तस्मादस्य दिवसकररुचिसमाश्लेषेण भास्वरत्वं भवति । यथाहुः -
भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि ।
अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥ इति ।
तस्माच्चन्द्रमसो बिम्बं गोळार्धं सूर्याभिमुखं सदा चकास्ति । किं सर्वदा चकास्ति? किमिति नोपलभ्यते?
श्रूयताम् - अमावास्यायां चन्द्रमस उपर्यादित्यः ; तदा चन्द्रमस उपरि यद्बिम्बार्धं तदशेषमवभासयति सविता । चन्द्रस्यामावास्योपलक्षितोपरिबिम्बे केन्द्राद्यथायथा पश्चादादित्योवलम्बते तथातथा चन्द्रमसो बिम्बं केन्द्रस्य परतोवलम्बते । तत्केन्द्रवशात् चन्द्रमसो बिम्बार्धशेषं आभासयति सविता । यावदेवास्योपलक्षितबिम्बपरिध्यवधेरधोवलम्बते तावत् चन्द्रमसो बिम्बस्या[स्यार्धम]स्माभिरुपलक्ष्यते, शेषमुपरिस्थितत्वान्नोपलभ्यते सूर्याभिमुखं भास्वरमपि, भूगोळविशेषवर्तिभिरस्माभिरुपलब्धुमयोग्यत्वात् । तस्माद्यावद्यावत्सवितृकराश्लिष्टमवलम्बते तावत्तावत्तिथिभेदेन शुक्लचन्द्र उपलभ्यते । तेनामी ज्योत्स्नावितानावभासिनः चन्द्रकराः तत्तत्क्षितितलावभासिनो भवन्ति । यथा दर्पणोदरे जले वा दिवाकरकरास्सम्मूर्छितास्सन्तो गृहान्तर्गतं तमः क्षपयन्ति एवं सवितृमरीचयोम्बुमये स्वभावश्यामेपि चन्द्रबिम्बे सम्मूर्छिता नैशं ध्वान्तमपध्वंसयन्ति ।
तत्रायं विशेषः - यो यश्चन्द्रबिम्बप्रदेशः सवितृमार्गे ऋजुत्वेन व्यवस्थितः स एव शुक्लः उपलभ्यते ; तेन दक्षिणोत्तरयोश्शृङ्गयोः कालविशेषेणोन्नतिविशेषः । तत्र यावद्यावत्सवित्रा विश्लिष्टो भवति तावत्तावच्छुक्लप्रतिपत्प्रभृति चन्द्रमसि सविता संवर्धते । कृष्णप्रतिपत्प्रभृति असितिमा संवर्धते । एतावता जायमान आप्यायमानः क्षीयमाणः चन्द्रमा उपलभ्यते ।
उक्तं च निरुक्ते - ‘तस्यैको रश्मिश्चन्द्रमसं प्रति दीप्यते’ इति,
श्रूयते च - ‘सुषुम्नस्शूर्यरस्मिश्चन्द्रमा गन्धर्वः’ इति ।
ननु कथं अस्तमिते सवितरि चन्द्रश्चकास्ति? नैष दोषः - भूमेर्दूरेण सूर्यमार्गः ; तेनोपरिमुखानां सूर्यमरीचीनां न व्यवधात्री भूतधात्री भवति । कृष्णपक्षप्रतिपदादिषु चन्द्रमसो बिम्बपूर्वभागं प्रत्यासन्नः सवितेति परमुच्छुक्लमुपपद्यते । अत्र यदुक्तं सौगतैः स्वत एव शुक्लस्य चन्द्रमसः सुर्यसन्निकर्षणाद्वैवर्ण्यं भवतीति, तदयुक्तम् । स्वभावतश्शुक्लस्य सूर्यसन्निकर्षस्स्याच्चेत्तदा शुक्लप्रतिपदादिषु चन्द्रमसो बिम्बस्यापरभागे वैवर्ण्यं स्यात्, सन्निकृष्टत्वात् तस्यापरभागस्य । ततश्चावाङ्मुखश्च[खं च]न्द्रबिम्बमुपलभ्येतेत्यलमतिप्रसङ्गेन ॥
एवं यश्चन्द्रमसा जायमानः प्रादुर्भवन् शुक्लप्रतिपदादिषु आदित्यस्यार्चिषा प्रकाशमानो नवोनवो भवति पुनःपुनः अभिनव एव भवति प्रजानामाह्लादहेतुर्भवति । ‘अनुदात्तं च’ इति द्वितीयो नवशब्दः अनुदात्तः । किं च – अह्नां तिथीनां केतुः तद्वत्केतयिता ज्ञापयिता । कित ज्ञाने । तिथिविभागहेतुत्वात् । उषसां रात्रीणां अग्रे गच्छति अग्रणीः भवति, रजनीनां कर्तृत्वात् । यद्वा - अह्नां केतुः अहरवसाने शुक्लपक्षे प्रतीच्यां दृश्यते, कृष्णपक्षे तु रत्रीणामवसाने प्राच्यां दृश्यते । एवमायन्नागच्छन् अयं देवेभ्यो भागं विदधाति तिथिविशेषनिबन्धनत्वात्सर्वयागानां, आदित्यसन्निकर्षविप्रकर्षनिबन्धनत्वात्सर्वतिथीनाम् । सूर्याचन्द्रमसोर्हि परस्परसन्निकर्षोमावास्या, विप्रकर्षः पौर्णमासीति । इत्थं महाप्रभावोयं चन्द्रमाः दीर्घमायुरस्य प्रतिरति वर्धयतु ॥
यद्वा - आदित्य एव चन्द्रमा उच्यते, चन्द्रस्य माता निर्माता उत्पादक इति । ‘गतिकारकयोरपि’ इत्यसिः, डित्वाट्टिलोपः । स जायमानो दिनेदिने प्राच्यामुद्यन् नवोनवो भवति सदोद्यन्नप्यपूर्व इव भवति । अह्नां केतुः दिवसकरत्वात् । उषसां रात्रीणां अग्रे अग्रतो गच्छति रात्रय एनमनुधावन्ति । एवमायन् उद्यन् देवेभ्यो भागं विदधाति, आदित्यगत्यधीनत्वात्सर्वकर्मणाम् । एवं महानुभावश्चन्द्रमसोप्युक्तवन्निर्माता आदित्यः दीर्घमायुर्वर्धयत्विति ॥
Wilson
English translation:
“New every day (the moon) is born; the manifester of days he goes on front of the Dawns; hedistributes their portion to the gods as he goes; the moon protracts a long existence.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The first half othe verse isaddressed to the sun; but, the moon is the manifester of days in regulating the time of tithis (lunar days)
Jamison Brereton
He becomes ever new as he is born; as beacon of the days he goes at the forefront of the dawns.
He portions out their share to the gods as he comes here. The Moon extends his lifetime long.
Griffith
He, born afresh, is new and new for ever ensign of days he goes before the Mornings
Coming, he orders f6r the Gods their portion. The Moon prolongs the days of our existence.
Macdonell
Ever anew, being born again, he rises; He goes before the dawns as daylight’s token. He, coming, to the gods their share apportions: The moon draws out the span of man’s existence.
Geldner
Immer wieder wird er neu geboren, als das Wahrzeichen der Tage geht er der Usas voran. Durch sein Kommen bestimmt er den Göttern ihren Anteil: der Mond zieht sein Leben in die Länge.
Grassmann
Immer wieder neu wird er geboren, als der Tage Banner geht er den Morgenröthen voran; indem er ankommt vertheilt er den Göttern ihren Antheil; lange lässt der Mond das Leben fortdauern.
Elizarenkova
Рождаясь, он возникает каждый раз новым,
Как символ дней он идет впереди утренних зорь.
Приходя, он устанавливает долю богам.
Далеко простирает месяц (свою) жизнь.
अधिमन्त्रम् (VC)
- चन्द्रमाः
- सूर्या सावित्री
- पादनिचृत्त्रिष्टुप्
- धैवतः
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (चन्द्रमाः) (नवः-नवः-जायमानः-भवति) प्रतिरात्रि नया-नया कलाओं से उदय होता है (अह्नाम्-उषसां केतुः) दिनों और उषाओं का प्रज्ञानभूत (अग्रम्-एति) कृष्णपक्ष में आगे चलता है (देवेभ्यः) देवों के लिए (भागं वि दधाति) हविर्भाग नियत करता है कालसूचना से, (दीर्घम्-आयुः-प्र तिरते) सदुपयोग से दीर्घ आयु को देता है। यह चन्द्र के पक्ष में निरुक्त के अनुसार आधिदैविक अर्थ है॥ प्रस्तुत गृहस्थपक्ष में तो−(जायमानः)पुत्ररूप से उत्पन्न हुआ (नवः नवः भवति) नया-नया होता है (अह्नाम्-उषसां केतुः) प्रतिदिन और प्रति उषा वेला में साक्षात् हुआ (अग्रम्-एति) आगे जाता है (आयन्) गृहस्थाश्रम में आते हुए (देवेभ्यः) विद्वानों के लिए और अग्नि आदि के लिए (भागं विदधाति) भोजनभाग तथा हविर्भाग नियत करता है (चन्द्रमाः) स्वजीवन में आह्लादकारी होता हुआ (दीर्घम्-आयुः) दीर्घ आयु का (प्र तिरते) विस्तार करता है ॥१९॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - चन्द्रमा प्रतिरात्रि कृष्णपक्ष में दिनों और उषावेलाओं से प्रथम आकाश में दृष्टिगोचर होता है, उसे देखकर यागों का निर्णय करते हैं देवताओं के प्रति हवि देने के लिए, चन्द्रमा के सदुपयोग से आयु बढ़ता है एवं गृहस्थाश्रम में वर पुत्ररूप से पुन:-पुन: जन्म पाता है। प्रतिदिन प्रति उषावेला में साक्षात् जागृत हो विद्वानों के लिए भोजन-भाग और अग्नि आदि के लिए हविर्भाग उसे देना चाहिए, ऐसा करते रहने से अपने जीवन में प्रसन्न रहते हुए आयु का विस्तार करे ॥१९॥
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (चन्द्रमाः-नवः-नवः-जायमानः-भवति) चन्द्रमाः खलु प्रतिरात्रि नवो नवः कलाश उद्यन् भवति (अह्नां केतुः-उषसाम्-अग्रम्-एति) दिवसानामुषसां च प्रज्ञानभूतोऽग्रमेति कृष्णपक्षे (देवेभ्यः-भागं विदधाति) उद्यन् देवेभ्यो यागकालसूचनया हविर्भागं समर्पयति (दीर्घम्-आयुः प्रतिरते) एवमुपयोगेन दीर्घमायुर्वर्धयति इति चन्द्रपक्षे निरुक्तमनुसृत्याधिदैविकोऽर्थः॥ प्रस्तुतगृहस्थपक्षे तु−(जायमानः) पुत्ररूपेणोत्पद्यमानः (नवः-नवः-भवति) नवो नवः पुत्ररूपो भवति (अह्नाम्-उषसां-केतुः-अग्रम्-एति) प्रतिदिनं प्रत्युषोवेलं च साक्षाद्भूतोऽग्रमेव गच्छति (आयन्) गृहाश्रममागच्छन्नेव (देवेभ्यः-भागं विदधाति) विद्वद्भ्योऽग्निप्रभृतिभ्यश्च भोजनभागं हविर्भागं च नियतं करोति (चन्द्रमाः-दीर्घम्-आयुः प्रतिरते) स्वजीवने खल्वाह्लादकारी सन् दीर्घमायुर्वर्धयति ॥१९॥
मूलम्
नवो॑नवो भवति॒ जाय॑मानो॒ …
विश्वास-प्रस्तुतिः ...{Loading}...
यम् +++(सोमं)+++ आ॑दि॒त्या अ॒ꣳ॒शुम् आ᳚प्या॒यय॑न्ति॒
यम् अख्षि॑त॒म् अख्षि॑तय॒ᳶ पिब॑न्ति ।
तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्-पति॒र्
आ प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
यमा॑दि॒त्या अ॒ꣳ॒शुमा᳚प्या॒यय॑न्ति॒ यमख्षि॑त॒मख्षि॑तय॒ᳶ पिब॑न्ति ।
तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ।
भट्टभास्कर-टीका
यमंशुं रश्मिं आत्मीयरश्मिभूतं सोमम् आदित्या आप्याययन्ति वर्धयन्ति, यं च सोममक्षितमविच्छिन्नं सर्वेष्वपि पर्वसु अक्षितयोऽक्षीणाः पित्रादयः पिबन्ति, तेन सोमेन सह राजा देवराजः वरुणश्च बृहस्मतिश्चाप्याययन्तु इममक्षीणं यजमानं वर्धयन्तु भुवनस्य भूतजातस्य गोपाः प्रवृत्तिप्रदाः ॥
मूलम् (संयुक्तम्)
प्राच्या᳚न्दि॒शि त्वमि॑न्द्रासि॒ राजो॒तोदी᳚च्याव्ँवृत्रहन्वृत्र॒हासि॑ ।
यत्र॒ यन्ति॑ स्रो॒त्यास्तत् [44] जि॒तन्ते॑ दख्षिण॒तो वृ॑ष॒भ ए॑धि॒ हव्यः॑ ।
अहोरात्रे
भास्करोक्त-विनियोगः
3अहोरात्रयोः - ये विरूपे इति ॥
03 ये विरूपे ...{Loading}...
ये विरू॑पे॒ सम॑नसा स॒व्ँ व्यय॑न्ती ।
स॒मा॒नन्तन्तु॑म्परितात॒ना ते᳚ ।
वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे ।
ते नो॒ नख्ष॑त्रे॒ हव॒माग॑मेतम् ।
03 ये विरूपे ...{Loading}...
मूलम्
ये विरू॑पे॒ सम॑नसा स॒व्ँ व्यय॑न्ती ।
स॒मा॒नन्तन्तु॑म्परितात॒ना ते᳚ ।
वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे ।
ते नो॒ नख्ष॑त्रे॒ हव॒माग॑मेतम् ।
भट्टभास्कर-टीका
3अहोरात्रयोः - ये विरूपे इति ॥ अहोरात्रे विरूपे विविधरूपे शुक्लकृष्णरूपे समनसा समानमनस्के ऐकमत्यं गते । पूर्ववदाकारः । संव्ययन्ती समन्तादाच्छादयन्ती शुक्लकृष्णे इव वस्त्रे संव्ययन्ती । औङश्शीभावः, न स्त्रीप्रत्ययः । समानं एकं तन्तुं तायमानं संवत्सरं यज्ञं वा परि तातनाते परितो विस्तारयन्तः । तनोतेः छन्दसि लिटि एत्वाभ्यासलोपाभावे ‘तुजादीनाम्’ इत्यभ्यासस्य दीर्घत्वम् । विभू व्याप्तिमती अविच्छेदेन प्रवृत्तत्वात् । ‘सुपां सुलुक्’ इति पूर्वसवर्णदीर्घत्वम् । प्रभू पर्याप्ते भावानां निष्पत्तौ । अनुभू अनुक्रमेण भवन्ती । लोकस्य वा कृताकृते अनुभवन्ती । पूर्ववत् सवर्णदीर्धत्वम् । ते अहं विश्वतो हुवे सर्वेण प्रकारेणाह्वयामि ते चाहोरात्रे नक्षत्रे नक्षत्रविशेषयूक्ते अस्मिन्वा नक्षत्रेऽहनि वा नः हवं यज्ञं आगमेतं युवामागच्छतम् । लिङ्याशिष्यङ् ॥
04 वयन्देवी ब्रह्मणा ...{Loading}...
व॒यन्दे॒वी ब्रह्म॑णा सव्ँ विदा॒नाः ।
सु॒रत्ना॑सो दे॒ववी॑ति॒न्दधा॑नाः ।
अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्धय॑न्तः ।
अति॑ पा॒प्मान॒मति॑ मुक्त्या गमेम ।
04 वयन्देवी ब्रह्मणा ...{Loading}...
मूलम्
व॒यन्दे॒वी ब्रह्म॑णा सव्ँ विदा॒नाः ।
सु॒रत्ना॑सो दे॒ववी॑ति॒न्दधा॑नाः ।
अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्धय॑न्तः ।
अति॑ पा॒प्मान॒मति॑ मुक्त्या गमेम ।
भट्टभास्कर-टीका
4वयं देवी हति ॥ वयं ब्रह्मणा मन्त्रेण संविदानाः ऐकमत्यं गताः सुरत्नासः शोभनेन हविराख्येन कर्मसाधनेन तद्वन्तः । देववीतिं दधानाः देवानां यागं निर्वर्तयन्तः अहोरात्रे देवी देव्यौ देवनशीले । रात्र्यपेक्षं स्त्रीत्वं, लिङ्गव्यत्ययो वा । हविषा वर्धयन्तः पाप्मानं अतिगमेम अतिक्रमेम अतिमुक्त्या अत्यर्थं पाप्मनां मोचनेनानेन कर्मणा ॥
उषाः
भास्करोक्त-विनियोगः
5उषसः - प्रतीति परोष्णिक् ॥
05 प्रत्युवदृश्यायती 24 ...{Loading}...
प्रत्यु॑वदृश्याय॒ती ॥24॥
व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः ।
अ॒पो म॒ही वृ॑णुते॒ चख्षु॑षा ।
05 प्रत्युवदृश्यायती 24 ...{Loading}...
मूलम्
प्रत्यु॑वदृश्याय॒ती ॥24॥
व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः ।
अ॒पो म॒ही वृ॑णुते॒ चख्षु॑षा ।
भट्टभास्कर-टीका
5उषसः - प्रतीति परोष्णिक् ॥ उ इत्यवधारणे । व्युच्छन्ती प्रभान्ती उषा आयती आगच्छन्त्येव प्रत्यदृशि प्रत्येकं सर्वैर्दृश्यते । आत्माभिमुखं वा दृश्यते । ‘सर्वे विधयश्छन्दसि विकल्पन्ते’ इति लघूपधगुणाभावः । दिवो दुहिता दुहितृस्थानीया तत उपलब्धेः । अपः कर्माणि उदकानि वा वृणुते छादयति चक्षुषा प्रकाशेन विवृणोतीत्यर्थः । प्रकाशावरणं विवरणमेव । मही महनीया सर्वैः ॥
06 तमो ज्योतिष्कृणोति ...{Loading}...
तमो॒ ज्योति॑ष्कृणोति सू॒नरी᳚ ।
उदु॒स्रिया᳚स्सचते॒ सूर्यः॑ ।
सचा॑ उ॒द्यन्नख्ष॑त्रमर्चि॒मत् ।
तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च ।
06 तमो ज्योतिष्कृणोति ...{Loading}...
मूलम्
तमो॒ ज्योति॑ष्कृणोति सू॒नरी᳚ ।
उदु॒स्रिया᳚स्सचते॒ सूर्यः॑ ।
सचा॑ उ॒द्यन्नख्ष॑त्रमर्चि॒मत् ।
तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च ।
भट्टभास्कर-टीका
6तम इति जगती ॥ तमोभूतमिदं जगत् ज्योतिष्कृणोति प्रकाशवत्करोति उषा सूनरी सुष्ठु नेत्री प्रजानां शोभननरा वा, सर्वे हि तत्र प्रबुध्यन्ते । किञ्च - तस्मिन् काले सूर्यः उस्रियाः रश्मीन् उत्सचते उच्छ्रितं भजते । किञ्च - हे उषः । तवेत् तवैव व्युषि व्युष्टौ । उञ्छतेः क्विपि अन्त्यविकारः छान्दसः वसेर्वा संप्रसारणे ‘शासिवसि’ इत्यादिना षत्वम् । तव सूर्यस्य च व्युष्टौ उदये सत्येव युवाभ्यां सचा सह उद्यन्नक्षत्रं दिवसस्य संज्ञाकारि अर्चिमत् दीप्तिमत् भवति पूजितं भवति, अस्माकं कर्मयोग्यं जायते ॥
नक्षत्रम्
07 सम्भक्तेन गमेमहि ...{Loading}...
सम्भ॒क्तेन॑ गमेमहि ।
तन्नो॒ नख्ष॑त्रमर्चि॒मत् ।
भा॒नु॒मत्तेज॑ उ॒च्चर॑त् ।
उप॑य॒ज्ञमि॒हाग॑मत् ॥25॥
07 सम्भक्तेन गमेमहि ...{Loading}...
मूलम्
सम्भ॒क्तेन॑ गमेमहि ।
तन्नो॒ नख्ष॑त्रमर्चि॒मत् ।
भा॒नु॒मत्तेज॑ उ॒च्चर॑त् ।
उप॑य॒ज्ञमि॒हाग॑मत् ॥25॥
भट्टभास्कर-टीका
7नक्षत्राणां - संभक्तेन इत्यनुष्टुभौ ॥ भक्तेन अन्नेन हविषा सङ्गमेमहि कर्मवन्तो भूयास्म । ‘लिङ्याशिष्यङ्’ ‘समोगमृच्छि’ इत्यात्मनेपदम् । हेतुमाह - तत् नक्षत्रं यत्र कर्म क्रियते तदिदानमिर्चिमत् पूजितं भानुमत् दीप्तिमत् तेजः तेजस्वि पुण्यत्वादीदृशं सत् उच्चरत् उद्गच्छत् अस्माकं यज्ञं उपागमत् उपागच्छति उपागच्छतु वा इह अस्मिन्नहनि ततस्सं भक्तेन गमेमहीति ॥
08 प्र नख्षत्राय ...{Loading}...
प्र नख्ष॑त्राय दे॒वाय॑ ।
इन्द्रा॒येन्दुꣳ॑ हवामहे ।
सन॑स्सवि॒ता सु॑वथ्स॒निम् ।
पु॒ष्टि॒दाव्ँ वी॒रव॑त्तमम् ।
08 प्र नख्षत्राय ...{Loading}...
मूलम्
प्र नख्ष॑त्राय दे॒वाय॑ ।
इन्द्रा॒येन्दुꣳ॑ हवामहे ।
सन॑स्सवि॒ता सु॑वथ्स॒निम् ।
पु॒ष्टि॒दाव्ँ वी॒रव॑त्तमम् ।
भट्टभास्कर-टीका
8प्रनक्षत्रायेति ॥ देवाय देवनशीलाय इन्द्राय ईश्वराय स्वकार्यकरणकुशलाय नक्षत्राय नक्षत्रात्मने नक्षत्राभिमानिने इन्दुं अमृतकल्पं हविः प्रहवामहे प्रकर्षेण आह्वयामः आनयामः जुहुमो वा । स च सविता कर्मणामनुज्ञाता नक्षत्राख्यो देवः अस्मभ्यं सनिं धनं सुवत् अनुजानातु ददातु पुष्टिदां पुष्टेर्दातारं पर्याप्तं वीरवत्तमं अतिशयेन पुत्रादियुक्तम् ॥
०१ उदु त्यं ...{Loading}...
उदु॒ त्यं जा॒तवे॑दसं
दे॒वं व॑हन्ति के॒तवः॑+++(→रश्मयः)+++ ।
दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥
001 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सूर्यः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
उ꣡द् उ त्यं꣡ जात꣡वेदसं
देवं꣡ वहन्ति केत꣡वः
दृशे꣡ वि꣡श्वाय सू꣡रियम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
Morph
jātávedasam ← jātávedas- (nominal stem)
{case:ACC, gender:M, number:SG}
tyám ← syá- ~ tyá- (pronoun)
{case:ACC, gender:M, number:SG}
u ← u (invariable)
{}
út ← út (invariable)
{}
devám ← devá- (nominal stem)
{case:ACC, gender:M, number:SG}
ketávaḥ ← ketú- (nominal stem)
{case:NOM, gender:M, number:PL}
vahanti ← √vah- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
dr̥śé ← √dr̥ś- (root)
{case:DAT, number:SG}
sū́ryam ← sū́rya- (nominal stem)
{case:ACC, gender:M, number:SG}
víśvāya ← víśva- (nominal stem)
{case:DAT, gender:M, number:SG}
पद-पाठः
उत् । ऊं॒ इति॑ । त्यम् । जा॒तऽवे॑दसम् । दे॒वम् । व॒ह॒न्ति॒ । के॒तवः॑ ।
दृ॒शे । विश्वा॑य । सूर्य॑म् ॥
Hellwig Grammar
- ud
- [adverb]
- “up.”
- u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- tyaṃ ← tyam ← tya
- [noun], accusative, singular, masculine
- “that.”
- jātavedasaṃ ← jātavedasam ← jātavedas
- [noun], accusative, singular, masculine
- “Agni; fire.”
- devaṃ ← devam ← deva
- [noun], accusative, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- vahanti ← vah
- [verb], plural, Present indikative
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- ketavaḥ ← ketu
- [noun], nominative, plural, masculine
- “banner; ketu; sunbeam; enemy; sign; Premna spinosa Roxb.; comet; signal; signal; luminosity.”
- dṛśe ← dṛś
- [verb noun]
- “see; observe; view; visit; look; learn; meet; read; teach; examine; watch; see; notice; perceive; diagnose; travel to; show; detect; know; know; understand; understand; follow.”
- viśvāya ← viśva
- [noun], dative, singular, neuter
- “ginger; myrrh; universe.”
- sūryam ← sūrya
- [noun], accusative, singular, masculine
- “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”
सायण-भाष्यम्
केतवः प्रज्ञापकाः सूर्याश्वाः यद्वा सूर्यरश्मयः सूर्यं सर्वस्य प्रेरकमादित्यम् उदु वहन्ति ऊर्ध्वं वहन्ति । उ इति पादपूरणः । उक्तं च - ‘ मिताक्षरेष्वनर्थकाः कमीमिद्विति’ (निरु. १. ९)। किमर्थम् । विश्वाय विश्वस्मै भुवनाय दृशे द्रष्टुम् । यथा सर्वे जनाः सूर्यं पश्यन्ति तथोर्ध्वं वहन्तीत्यर्थः । कीदृशं सूर्यम् । त्यं प्रसिद्धं जातवेदसं जातानां प्राणिनां वेदितारं जातप्रज्ञं जातधनं वा देवं द्योतमानम् । अत्र निरुक्तम् - उद्वहन्ति तं जातवेदसं देवमश्वाः केतवो रश्मयो वा सर्वेषां भूतानां संदर्शनाय सूर्यम् ’ ( निरु. १२. १५) इति ॥ जातवेदसम् । जातानि वेत्तीति जातवेदाः । ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च ’ इति असुन् पूर्वपदप्रकृतिस्वरत्वं च । दृशे । ‘दृशे विख्ये च (पा. सू. ३. ४. ११ ) इति तुमर्थे निपातितः । सूर्यम् । ‘ राजसूयसूर्यं ’ इत्यादिना ‘षू प्रेरणे इत्यस्मात् क्यपि रुडागमसहितो निपातितः । अतः प्रत्ययस्य पित्त्वानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् ॥
भट्टभास्कर-टीका
त्यं तं जातवेदसं जातानां वेदितारम् । ‘गतिकारकयोरपि’ इत्यसुन्प्रत्ययः । जातप्रज्ञानं वा सूर्यं देवं देवनादिगुणयुक्तं उद्वहन्ति ऊर्ध्वं वहन्ति केतवो रश्मयः दृशे द्रष्टुम् । ‘दृशे विख्ये च’ इति निपात्यते । विश्वाय विश्वार्थं विश्वं लोको यथा एनं पश्येत् तदनुरूपमुद्वहन्ति । स्मैभावाभावश्छान्दंसः ।
त्यं तं इमं देवं जातवेदसं जातप्रज्ञं जातानां वेदितारं केतवो रश्मय उद्वहन्ति ऊर्ध्वं वहन्ति दृशे द्रष्टुं विश्वाय विश्वार्थं, विश्वो लोको यथैनं पश्येदिति ।
देवं सूर्यं जातवेदसं जातानां वेदितारं देवं केतवो रश्मयः उद्वहन्ति विस्वस्य लोकस्य दृशे दर्शनार्थमिति ॥
Wilson
English translation:
“His coursers bear on high the divine all-knowing Sun, that he may be seen by all (the worlds).”
Jamison Brereton
Up do the beacons convey this god Jātavedas,
the Sun, for all to see.
Griffith
HIS bright rays bear him up aloft, the God who knoweth all that lives,
Surya, that all may look on him.
Macdonell
Aloft his beams now bring the god Who knows all creatures that are born, That all may look upon the Sun.
Keith
Thee, all-knowing god, Thy rays bear upwards, The sun for all to see.
His rays bear up the god
Who knoweth all,
The sun for all to see.
Geldner
Dort fahren den Gott Jatavedas seine Strahlen herauf, auf daß die ganze Welt den Sonnengott schaue.
Grassmann
Den Wesenkenner führen schon empor die Strahlen, ihn, den Gott, Dass jedermann die Sonne schau.
Elizarenkova
Вот лучи везут вверх
Того бога, Джатаведаса,
Чтобы все (существа) увидели солнце.
अधिमन्त्रम् (VC)
- सूर्यः
- प्रस्कण्वः काण्वः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब पचासवें सूक्त का आरम्भ है। उसके पहिले मंत्र में कैसे लक्षण वाला सूर्य है,इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जैसे (केतवः) किरणें (विश्वाय) सबके (दृशे) दीखने (उ) और दिखलाने के योग्य व्यवहार के लिये (त्यम्) उस (जातवेदसम्) उत्पन्न किये हुए पदार्थों को प्राप्त करनेवाले (देवम्) प्रकाशमान (सूर्य्यम्) रविमंडल को (उद्वहन्ति) ऊपर वहती हैं वैसे ही गृहाश्रम का सुख देने के लिये सुशोभित स्त्रियों को विवाह विधि से प्राप्त होओ ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - धार्मिक माता पिता आदि विद्वान् लोग जैसे घोड़े रथ को और किरणें सूर्य्य को प्राप्त करती हैं ऐसे ही विद्या और धर्म के प्रकाशयुक्त अपने तुल्य स्त्रियों से सब पुरुषों का विवाह करावें ॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: तत्रादिमे मंत्रे कीदृग्लक्षणः सूर्योऽस्तीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(उत्) ऊर्ध्वार्थे (उ) वितर्के (त्यम्) अमुम् (जातवेदसम्) यो जातान् पदार्थान् विंदति तम् (देवम्) देदीप्यमानम् (वहन्ति) प्राप्नुवन्ति (केतवः) किरणाः (दृशे) द्रष्टुं दर्शयितुं वा। इदं #केन्प्रत्ययान्तं निपातनम् (विश्वाय) सर्वेषां दशनव्यवहाराय (सूर्य्यम्) सवितृलोकम्। यास्कमुनिरिमं मंत्रमेवं व्याख्यातवान्। उद्वहन्ति तं जातवेदसं देवमश्वाः केतवो रश्मयो वा सर्वेषां भूतानां संदर्शनाय सूर्य्यम्। निरु० १२।१५। ॥१॥ #[‘दृशे विख्येच’ अ० ३।४।११। इत्यनने सूत्रेण। सं०।]
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! यूयं यथा केतवो रश्मयो विश्वाय दृश उदुत्यं जातवेदसं देवं सूर्य्यमुद्वहन्ति तथा गृहाश्रमसुखदर्शनाय सुशोभनाः स्त्रिय उद्वहत ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - धार्मिका जना यथाश्वा रथं किरणाश्च सूर्यं वहंत्येवं विद्याधर्मप्रकाशयुक्ताः स्वसदृशाः स्त्रियः सर्वान्पुरुषानुद्वाहयेयुः ॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात परमेश्वर व अग्नीच्या कार्यकारण दृष्टान्ताद्वारे राजाचे गुणवर्णन केल्याने या सूक्तार्थाची पूर्वसूक्तार्थाबरोबर संगती जाणली पाहिजे.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - धार्मिक माता पिता इत्यादी विद्वान लोकांनी जसे घोडे रथाला व किरणे सूर्याला वहन करतात तसेच विद्या व धर्माने प्रकाशित असलेल्या त्यांच्या सारख्याच स्त्रियांशी पुरुषांचा विवाह करवावा. ॥ १ ॥
मूलम्
उदु॒ त्यञ्
सूर्यः
भट्टभास्कर-टीका
9-10सूर्यस्य - उदुत्यं, चित्रमिति ॥ व्याख्याते ग्रहपक्षे ॥
०१ चित्रं देवानामुदगादनीकं ...{Loading}...
चि॒त्रं दे॒वाना॒म् उद॑गा॒द् अनी॑कं॒
चक्षु॑र् मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आ-प्रा॒+++(←पूरणे)+++ द्यावा॑-पृथि॒वी अ॒न्तरि॑क्षं॒
सूर्य॑ आ॒त्मा जग॑तस् त॒स्थुष॑श् च ॥
001 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सूर्यः
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
चित्रं꣡ देवा꣡नाम् उ꣡द् अगाद् अ꣡नीकं
च꣡क्षुर् मित्र꣡स्य व꣡रुणस्य अग्नेः꣡
आ꣡प्रा द्या꣡वापृथिवी꣡ अन्त꣡रिक्षं
सू꣡र्य आत्मा꣡ ज꣡गतस् तस्थु꣡षश् च
Vedaweb annotation
Strata
Cretic
Pāda-label
genre D
genre D
genre D
genre D
Morph
agāt ← √gā- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}
ánīkam ← ánīka- (nominal stem)
{case:NOM, gender:N, number:SG}
citrám ← citrá- (nominal stem)
{case:NOM, gender:N, number:SG}
devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}
út ← út (invariable)
{}
agnéḥ ← agní- (nominal stem)
{case:GEN, gender:M, number:SG}
cákṣuḥ ← cákṣus- (nominal stem)
{case:NOM, gender:N, number:SG}
mitrásya ← mitrá- (nominal stem)
{case:GEN, gender:M, number:SG}
váruṇasya ← váruṇa- (nominal stem)
{case:GEN, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
antárikṣam ← antárikṣa- (nominal stem)
{case:NOM, gender:N, number:SG}
aprāḥ ← √prā- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}
dyā́vāpr̥thivī́ ← dyā́vāpr̥thivī́- (nominal stem)
{case:NOM, gender:F, number:DU}
ātmā́ ← ātmán- (nominal stem)
{case:NOM, gender:M, number:SG}
ca ← ca (invariable)
{}
jágataḥ ← jágat- (nominal stem)
{case:GEN, gender:N, number:SG}
sū́ryaḥ ← sū́rya- (nominal stem)
{case:NOM, gender:M, number:SG}
tasthúṣaḥ ← √sthā- (root)
{case:GEN, gender:M, number:SG, tense:PRF, voice:ACT}
पद-पाठः
चि॒त्रम् । दे॒वाना॑म् । उत् । अ॒गा॒त् । अनी॑कम् । चक्षुः॑ । मि॒त्रस्य॑ । वरु॑णस्य । अ॒ग्नेः ।
आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । सूर्यः॑ । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ॥
Hellwig Grammar
- citraṃ ← citram ← citra
- [noun], nominative, singular, neuter
- “manifold; extraordinary; beautiful; divers(a); varicolored; bright; bright; bright; outstanding; agitated; aglitter(p); brilliant; painted; obvious; patched; bizarre.”
- devānām ← deva
- [noun], genitive, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- ud
- [adverb]
- “up.”
- agād ← agāt ← gā
- [verb], singular, Root aorist (Ind.)
- “go; enter (a state); arrive.”
- anīkaṃ ← anīkam ← anīka
- [noun], nominative, singular, neuter
- “army; face; battalion; battlefront; point; appearance.”
- cakṣur ← cakṣuḥ ← cakṣus
- [noun], nominative, singular, neuter
- “eye; look; visual perception; cakṣus [word]; sight.”
- mitrasya ← mitra
- [noun], genitive, singular, masculine
- “friend; Mitra; mitra [word]; sun; ally.”
- varuṇasyāgneḥ ← varuṇasya ← varuṇa
- [noun], genitive, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- varuṇasyāgneḥ ← agneḥ ← agni
- [noun], genitive, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- āprā ← āprāḥ ← āprā ← √prā
- [verb], singular, Root aorist (Ind.)
- dyāvāpṛthivī
- [noun], accusative, dual, feminine
- “heaven and earth; dyāvāpṛthivī [word].”
- antarikṣaṃ ← antarikṣam ← antarikṣa
- [noun], accusative, singular, neuter
- “sky; atmosphere; air; abhra.”
- sūrya ← sūryaḥ ← sūrya
- [noun], nominative, singular, masculine
- “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”
- ātmā ← ātman
- [noun], nominative, singular, masculine
- “self; nature; Ātman; mind; soul; self; body; character; ātman [word]; person; life; peculiarity.”
- jagatas ← jagataḥ ← jagat
- [noun], genitive, singular, neuter
- “movable; Jagatī; moving.”
- tasthuṣaś ← tasthuṣaḥ ← sthā
- [verb noun], genitive, singular
- “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”
- ca
- [adverb]
- “and; besides; then; now; even.”
सायण-भाष्यम्
देवानाम् । दीव्यन्तीति देवा रश्मयः तेषाम् । देवजनानामेव वा । अनीकं समूह रूपं चित्रम् आश्चर्यकरं सूर्यस्य मण्डलम् उदगात् उदयाचलं प्राप्तमासीत्। कीदृशम् । मित्रस्य वरुणस्य अग्नेः च । उपलक्षणमेतत् । तदुपलक्षितानां जगतां चक्षुः प्रकाशकं चक्षुरिन्द्रियस्थानीयं वा । उदयं प्राप्य च द्यावापृथिवी दिवं पृथिवीमन्तरिक्षं च अप्राः । स्वकीयेन तेजसा आ समन्तात् अपूरयत् । ईदृग्भूतमण्डलान्तर्वर्ती सूर्यः अन्तर्यामितया सर्वस्य प्रेरकः परमात्मा जगतः जङ्गमस्य तस्थुषः स्थावरस्य च आत्मा स्वरूपभूतः । स हि सर्वस्य स्थावरजङ्गमात्मकस्य कार्यवर्गस्य कारणम् । कारणाच्च कार्यं नातिरिच्यते । तथा च पारमर्षं सूत्र - ‘ तदनन्यत्वमारम्भणशब्दादिभ्यः ( ब्र. सू. २. १. १४) इति । यद्वा । स्थावरजङ्गमात्मकस्य सर्वस्य प्राणिजातस्य जीवात्मा । उदिते हि सूर्ये मृतप्रायं सर्वं जगत् पुनश्चेतनयुक्तं सदुपलभ्यते । तथा च श्रूयते - योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति ’ ( तै. आ. १. १४. १ ) इति ॥ आप्राः । ‘ प्रा पूरणे’। लडिः पुरुषव्यत्ययः । अदादित्वात् शपो लुक् । जगतः । ‘ गमेर्द्वे च ’ ( पा. सू. ३. २. १७८.३) इति क्विप् द्विर्वचनम् । गमः क्वौ ’ इति अनुनासिकलोपः । तस्थुषः । तिष्ठतेर्लिटः क्वसुः । द्विर्वचने० ‘ शर्पूर्वाः खयः । षष्ठ्येकवचने ‘ वसोः संप्रसारणम्’ इति संप्रसारणम् । अतो लोप इटि च । इति आकारलोपः । ‘ शासिवसि° ’ इति षत्वम् ॥
भट्टभास्कर-टीका
चित्रं चायनीयं देवानामनीकं सङ्घातरूपम्मण्डलम् । यद्वा - देवानां रश्मीनां अनीकं मुखं समुदायस्थानं वा । मित्रादीनां देवानामपि चक्षुस्स्थानं , तेपि हि तेन प्रकाशितं पश्यन्ति । यद्वा - मित्रत्वादिपदप्राप्तिहेतुत्वाच्चक्षुरित्युपचर्यते । उपलक्षणं चैतत्, सर्वदेवतापदलाभहेतुत्वात्; भवति मण्डलोपासनमिति । इर्दृशमण्डलमुदगात् उदेति । छान्दसो लुङ्, ‘गातिस्था’ इति सिचो लुक् । यदा ईदृशम्मण्डलमुदेति तदा तन्मण्डलान्तर्गतो भगवान् सूर्यः जगतो जङ्गमस्य तस्थुषः स्थावरस्य च विश्वस्यात्मा द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च रश्मिभिराप्राः आपूरयति । प्रा पूरणे पुरुषव्यत्ययः, अदादित्वाच्छपो लुक् । द्यौश्च पृथिवी च द्यावापृथिव्यौ । ‘दिवो द्यावा’ इति द्यावादेशः, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घः’, ‘देवताद्वन्द्वे च’ इति पूर्वोत्तरयोर्युगपत्प्रकृतिस्वरत्वम्, पृथिवीशब्दो ङीषन्तोन्तोदात्तः ।
चित्रं चायनीयं सर्वलोकपूजितं देवानां रश्मीनामिन्द्रादीनां वा ऋत्विजां अनीकं मुखस्थानीयं समूहस्थानीयं वा उदगादुद्गच्छति सर्वात्मकसमष्टिरूपत्वात् । किं च – चक्षुस्थानीयं ख्यातिकरं वा मित्रादीनां । अयं देवो द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च आप्राः आ (प्रागाः) पूरयति तेजसा । प्रा पूरणे, पूरुषव्यत्ययः । जगतः जङ्गमस्य सर्वस्य तस्थुषः स्थावरस्य सर्वस्यात्मा सूर्यः एकः प्रेरको वा सर्वस्य तस्मादात्मा ; सर्वोपकारकत्वात् । यद्वा - ‘स यश्चायं पूरुषे । यश्चासावादित्ये । स एकः’ इति दर्शनात् आत्मा सर्वस्य । अत्राचार्येण ‘समानी याज्यानुवाक्ये भवतः’ इत्येतदनुसारेण ‘उदग्ने शुचयस्तव’ ‘विज्योतिषा’ ‘उदु त्यं जातवेदसम्’ ‘चित्रं देवानाम्’ इति हविषां याज्यानुवाक्याः ‘उदुत्यं जातवेदसम्’ ‘सप्त त्वा हरितो रथे’ ‘चित्रं देवानाम्’ इति पिण्डान् प्रयच्छति इति ॥
Wilson
English translation:
“Thewonderful hostof rays has risen; th eye of Mitra, Varuṇa and Agni; the sun, the soul of all that moves or is immoveable, has filled (with his glory) the heaven, the earth, and the firmament.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Agni: cākṣus = the enlightener. Mitra, Varuṇa and Agni are typical of the world, or of the seasons, perhaps, over which they preside. ātmā jagataḥ = the soul of the world, from his pervading and animating all things; jagataḥ, of what is moveable; tathuṣaḥ, of that which is fixed. The sun is the cause of all effects, whether moveableor immoveable: sa hi sarvasya sthāvarajaṅgamātmakasya kāryavargasya kāraṇam
Jamison Brereton
The brilliant face of the gods has arisen, the eye of Mitra, Varuṇa, and Agni;
he has filled heaven, earth, and the space between: the Sun is the
life-breath of both the moving and the still.
Griffith
THE brilliant presence of the Gods hath risen, the eye of Mitra, Varuna and Agni.
The soul of all that moveth not or moveth, the Sun hath filled the air and earth and heaven.
Macdonell
The gods’ refulgent countenance has risen, The eye of Mitra, Varuṇa and Agni. He has pervaded air, and earth, and heaven: The soul of all that moves and stands is Sūrya.
Keith
The radiant countenance of the gods hath risen,
The eye of Mitra, Varuna, Agni;
He hath filled the sky and earth and atmosphere;
The sun is the self of all that moveth and standeth.
Geldner
Prangend ist das Antlitz der Götter aufgegangen, das Auge von Mitra, Varuna, Agni. Er hat Himmel und Erde und die Luft erfüllt; Surya ist die Seele von allem was geht und steht.
Grassmann
Es stieg empor der Götter lichtes Antlitz, das Auge Mitra’s, Varuna’s und Agni’s; Es füllte Himmel, Erde, Luft die Sonne, der Lebenshauch des stehenden und gehnden.
Elizarenkova
Взошел яркий лик богов,
Глаз Митры, Варуны, Агни.
Он заполнил собой небо и землю, воздушное пространство.
Сурья – дыхание жизни движущегося и неподвижного (мира).
अधिमन्त्रम् (VC)
- सूर्यः
- कुत्स आङ्गिरसः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब ६ छः ऋचावाले एकसौ पन्द्रहवें सूक्त का आरम्भ है। उसके प्रथम मन्त्र में ईश्वर के गुणों का उपदेश किया है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (अनीकम्) नेत्र से नहीं देखने में आता तथा (देवानाम्) विद्वान् और अच्छे-अच्छे पदार्थों वा (मित्रस्य) मित्र के समान वर्त्तमान सूर्य वा (वरुणस्य) आनन्द देनेवाले जल, चन्द्रलोक और अपनी व्याप्ति आदि पदार्थों वा (अग्नेः) बिजुली आदि अग्नि वा और सब पदार्थों का (चित्रम्) अद्भुत (चक्षुः) दिखानेवाला है, वह ब्रह्म (उदगात्) उत्कर्षता से प्राप्त है। जो जगदीश्वर (सूर्य्यः) सूर्य्य के समान ज्ञान का प्रकाश करनेवाला विज्ञान से परिपूर्ण (जगतः) जङ्गम (च) और (तस्थुषः) स्थावर अर्थात् चराचर जगत् का (आत्मा) अन्तर्यामी अर्थात् जिसने (अन्तरिक्षम्) आकाश (द्यावापृथिवी) प्रकाश और भूमिलोक को (आ, अप्राः) अच्छे प्रकार परिपूर्ण किया अर्थात् उनमें आप भर रहा है, उसी परमात्मा की तुम लोग उपासना करो ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो देखने योग्य परिमाणवाला पदार्थ है वह परमात्मा होने को योग्य नहीं। न कोई भी उस अव्यक्त सर्वशक्तिमान् जगदीश्वर के विना समस्त जगत् को उत्पन्न कर सकता है और न कोई सर्वव्यापक, सच्चिदानन्दस्वरूप, अनन्त, अन्तर्यामी, चराचर जगत् के आत्मा परमेश्वर के विना संसार के धारण करने, जीवों को पाप और पुण्यों को साक्षीपन और उनके अनुसार जीवों को सुख-दुःख रूप फल देने को योग्य है। न इस परमेश्वर की उपासना के विना धर्म, अर्थ, काम और मोक्ष के पाने को कोई जीव समर्थ होता है, इससे यही परमेश्वर उपासना करने योग्य इष्टदेव सबको मानना चाहिये ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या यदनीकं देवानां मित्रस्य वरुणस्याग्नेश्चित्रं चक्षुरुदगाद्यो जगदीश्वरः सूर्य इव विज्ञानमयो जगतस्तस्थुषश्चात्मा योऽन्तरिक्षं द्यावापृथिवी चाप्राः परिपूरितवानस्ति तमेव यूयमुपाध्वम् ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
तत्रादावीश्वरगुणा उपदिश्यन्ते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (चित्रम्) अद्भुतम् (देवानाम्) विदुषां दिव्यानां पदार्थानां वा (उत्) उत्कृष्टतया (अगात्) प्राप्तमस्ति (अनीकम्) चक्षुरादीन्द्रियैरप्राप्तम् (चक्षुः) दर्शकं ब्रह्म (मित्रस्य) सुहृद इव वर्त्तमानस्य सूर्यस्य (वरुणस्य) आह्लादकस्य जलचन्द्रादेः (अग्नेः) विद्युदादेः (आ) समन्तात् (अप्राः) पूरितवान् (द्यावापृथिवी) प्रकाशभूमी (अन्तरिक्षम्) आकाशम् (सूर्यः) सवितेव ज्ञानप्रकाशः (आत्मा) अतति सर्वत्र व्याप्नोति सर्वान्तर्यामी (जगतः) जङ्गमस्य (तस्थुषः) स्थावरस्य (च) सकलजीवसमुच्चये ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - न खलु दृश्यं परिच्छिन्नं वस्तु परमात्मा भवितुमर्हति, नो कश्चिदप्यव्यक्तेन सर्वशक्तिमता जगदीश्वरेण विना सर्वस्य जगत उत्पादनं कर्त्तुं शक्नोति, नैव कश्चित् सर्वव्यापकसच्चिदानन्दस्वरूपमनन्तमन्तर्यामिणं सर्वात्मानं परमेश्वरमन्तरा जगद्धर्त्तुं जीवानां पापपुण्यानां साक्षित्वं फलदानं च कर्त्तमर्हति, नह्येतस्योपासनया विना धर्मार्थकाममोक्षान् लब्धुं कोऽपि जीवः शक्नोति, तस्मादयमेवोपास्य इष्टदेवः सर्वैर्मन्तव्यः ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात सूर्य शब्दाने ईश्वर व सूर्यलोकाच्या अर्थाचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती आहे, हे जाणले पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जो दृश्यमान परिमाणयुक्त पदार्थ असतो तो परमात्मा नसतो. कोणीही त्या अव्यक्त सर्वशक्तिमान जगदीश्वराखेरीज संपूर्ण जगाला उत्पन्न करू शकत नाही. सर्वव्यापक, सच्चिदानंदस्वरूप अनंत, अंतर्यामी, चराचर जगाचा आत्मा अशा परमेश्वराखेरीज संसार धारण करणे, जीवांच्या पापपुण्याच्या साक्षी असणे, त्यानुसार जीवांना सुख दुःखरूपी फळ देणे, हे कोणी करू शकत नाही. परमेश्वराच्या उपासनेशिवाय धर्म, अर्थ, काम, मोक्ष प्राप्त करण्यास जीव समर्थ बनू शकत नाही. त्यासाठी सर्वांनी परमेश्वरच उपासना करण्यायोग्य इष्टदेव आहे, हे मानले पाहिजे. ॥ १ ॥
अदितिः
भास्करोक्त-विनियोगः
11-12अदितेः - अदितिर्नः, महीमूष्विति ॥ व्याख्याते ‘वैश्वानरो नः’ इत्यत्र ॥
11 अदितिर्न उरुष्यतु ...{Loading}...
अदि॑तिर् न उरुष्य॒त्व्
अदि॑ति॒श् शर्म॑ यच्छतु ।
अदि॑तिᳶ पा॒त्व् अꣳह॑सः ॥
11 अदितिर्न उरुष्यतु ...{Loading}...
Keith
Let Aditi save us,
Let Aditi give us protection,
Let Aditi guard us from tribulation.
मूलम्
अदि॑तिर्न उरुष्य॒त्वदि॑ति॒श्शर्म॑ यच्छतु ।
अदि॑तिᳶ पा॒त्वꣳह॑सः ॥
भट्टभास्कर-टीका
अदितिरस्मानुरुष्यतु शर्म सुखं चादितिर्नो यच्छतु ददातु । अंहसः बुद्ध्यबुद्धिकृतात्पापाच्चास्मानदितिः पातु निवारयतु ॥
महीम् ऊ षु ...{Loading}...
म॒हीम् ऊ॒ षु मा॒तरꣳ॑ सुव्र॒ताना॑म्
ऋ॒तस्य॒ पत्नी॒म् अव॑से हुवेम ।
तु॒वि॒+++(=प्रवृद्ध)+++-क्ष॒त्त्राम् अ॒जर॑न्तीम् उरू॒चीꣳ+++(=उरुगमनां)+++
सु॒शर्मा॑ण॒म् अदि॑तिꣳ+++(=अखण्डनीयां)+++ सु॒प्रणी॑तिम् ॥
महीम् ऊ षु ...{Loading}...
Keith
The mighty mother of the righteous,
The spouse of holy order, let us invoke to aid us,
The powerful, the unageing, the wide
Aditi, who giveth good protection and good guidance.
भट्टभास्कर-टीका
महीं महतीं महनीयां वा मातरं मातृस्थानीयां वा सुव्रतानां शोभनकर्मणां पुरुषाणाम् । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । ऋतस्य सत्यस्य यज्ञस्य वा पत्नीं पालयित्रीं तुविक्षत्रां बहुलां बहुधनां वा । त्रिचक्रादित्वाद् उत्तरपदान्तोदात्तत्वम् ।
अजरन्तीम् अविनाशां उरूचीम् उरु महतोञ्चतीं बहुप्रकारगातिं वा । ‘चौ’ इति पूर्वपदस्य दीर्घत्वं उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् ।
सुशर्माणं सुसुखाम् । ‘सोर्मनसी’ इत्युत्तरपदाद्युदात्तत्वम् ।
अदितिम् अखण्डनीयां सुप्रणीतिं सुखेन शर्मणां प्रणेत्रीम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । तत्र च ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ।
ईदृशीं महीं देवीम् अवसे रक्षणाय तस्यास्तर्पणाय वा हुवेम सुष्ठु आह्वयामः । व्यत्ययेन शः । पूर्ववत्सम्प्रसारणम्, ‘सुञः’ इति सोस्संहितायां षत्वम् । उ इति पादपूरणे । ‘अन्येषामपि दृश्यते’ इति तस्य संहितायां दीर्घत्वम् ॥
मूलम्
म॒हीमू॒ षु मा॒तरꣳ॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम ।
तु॒वि॒ख्ष॒त्त्राम॒जर॑न्तीमुरू॒चीꣳ सु॒शर्मा॑ण॒मदि॑तिꣳ सु॒प्रणी॑तिम् ॥
विष्णुः
मूलम्
इ॒दव्ँ विष्णु॒ᳶ
प्रतद्विष्णुः॑ ।
भट्टभास्कर-टीका
13-14विष्णोः - हदं विष्णुः, प्रतद्विष्णुस्तव त हति ॥ प्रथमा ‘युञ्जते मनः’ इत्यत्र व्याख्याता ।
१७ इदं विष्णुर्वि ...{Loading}...
इ॒दव्ँ विष्णु॒र् +++(अग्नि-विद्युत्-सूर्यात्मना)+++ वि च॑क्रमे
+++(पृथिव्याम् अन्तरिक्षे दिवि च)+++ त्रे॒धा नि द॑धे प॒दम् ।
+++(तैर् आधारैर् जगत्)+++ सम् ऊ॑ढम् अस्य पाꣳसु॒रे +++(ले इति साम्नि, पांसुमति [पादे])+++ ॥
017 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विष्णुः
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
इदं꣡ वि꣡ष्णुर् वि꣡ चक्रमे
त्रे᳐धा꣡ नि꣡ दधे पद꣡म्
स꣡मूळ्हम् अस्य पांसुरे꣡
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
cakrame ← √kramⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}
idám ← ayám (pronoun)
{case:NOM, gender:N, number:SG}
ví ← ví (invariable)
{}
víṣṇuḥ ← víṣṇu- (nominal stem)
{case:NOM, gender:M, number:SG}
dadhe ← √dhā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}
ní ← ní (invariable)
{}
padám ← padá- (nominal stem)
{case:NOM, gender:N, number:SG}
tredhā́ ← tredhā́ (invariable)
{}
asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
pāṁsuré ← pāṁsurá- (nominal stem)
{case:LOC, gender:M, number:SG}
sámūḷham ← √vah- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
पद-पाठः
इ॒दम् । विष्णुः॑ । वि । च॒क्र॒मे॒ । त्रे॒धा । नि । द॒धे॒ । प॒दम् ।
सम्ऽऊ॑ळ्हम् । अ॒स्य॒ । पां॒सु॒रे ॥
Hellwig Grammar
- idaṃ ← idam
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); here.”
- viṣṇur ← viṣṇuḥ ← viṣṇu
- [noun], nominative, singular, masculine
- “Vishnu; Krishna; Viṣṇu; Om; Shiva.”
- vi
- [adverb]
- “apart; away; away.”
- cakrame ← kram
- [verb], singular, Perfect indicative
- “kram; step; go; continue; proceed; traverse; heat.”
- tredhā
- [adverb]
- “threefold.”
- ni
- [adverb]
- “back; down.”
- dadhe ← dhā
- [verb], singular, Perfect indicative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- padam ← pada
- [noun], accusative, singular, neuter
- “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”
- samūḍham ← saṃvah ← √vah
- [verb noun], nominative, singular
- “massage.”
- asya ← idam
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- pāṃsure ← pāṃsura
- [noun], locative, singular, neuter
सायण-भाष्यम्
विष्णुः त्रिविक्रमावतारधारी इदं प्रतीयमानं सर्वं जगदुद्दिश्य वि चक्रमे विशेषेण क्रमणं कृतवान् । तदा त्रेधा त्रिभिः प्रकारैः पदं नि दधे स्वकीयं पादं प्रक्षिप्तवान् । अस्य विष्णोः पांसुरे धूलियुक्ते पादस्थाने समूळ्हम् इदं सर्वं जगत् सम्यगन्तर्भूतम्। सेयमृक् यास्केनैवं व्याख्याता - ’विष्णुर्विशतेर्वा व्यश्नोतेर्वा यदिदं किंच तद्विक्रमते विष्णुस्त्रिधा निधत्ते पदं त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः समूळ्हमस्य पांसुरे प्यायनेऽन्तरिक्षे पदं न दृश्यतेऽपि वोपमार्थे स्यात् पांसुर इव पदं न दृश्यत इति पांसवः पादैः सूयन्त इति वा पन्नाः शेरत इति वा पंसनीया भवन्तीति वा’ (निरु. १२. १८-१९) इति ॥ त्रेधा। ‘एधाच्च’ (पा. सू. ५. ३. ४६ ) इति एधाच्प्रत्ययः । चितोऽन्तोदात्तः । समूळ्हम् । ‘वह प्रापणे ‘। निष्ठा ’ इति क्तः। ‘वचिस्वपि ’ ( पा. सू. ६. १. १५ ) इत्यादिना संप्रसारणम् । ढत्वधत्वष्टुत्वढलोपदीर्घत्वानि । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । अस्य । इदमोऽन्वादेशे ’ इति अश् अनुदात्तः, प्रत्ययश्च सुप्स्वरेण । पांसुरे । ‘नगपांसुपाण्डुभ्यश्चेति वक्तव्यम् ’ ( का. ५. २. १०७. २ ) इति मत्वर्थीयो रः । प्रत्ययस्वरः ।
भट्टभास्कर-टीका
इदं विश्वं विष्णुः व्यापी भगवान् विचक्रमे विभज्य क्रमतेस्म । ‘वृत्तिसर्गतायनेषु क्रमः’ इति वृत्तावात्मनेपदम् । ‘वेः पादविहरणे’ इति वा ।
कतिधा विचक्रम इत्यत आह - त्रेधा त्रिधा पदं पादं निदधे स्थापयामास पृथिव्यामन्तरिक्षे दिवि चेत्याधारभेदेन पदस्य त्रैविध्यम् । त्रीणि पदानीति यावत्, यथा ‘त्रीणि पदा वि चक्रमे’ इति । ‘एधाच्च’ इत्येधाप्रत्ययः । यस्मादेवं तस्मादस्य विष्णोः पांसुरे पांसुमति पादे । रः मत्वर्थीयः ।
यद् वा - सिध्मादिलक्षणो लः, रलयोरेकत्वं स्मर्यते । पांसवो रजांसि लोका उच्यन्ते । तैः रजःकरण[कण ]कल्पैः तद्वति विष्णोः पद-कमले समूढं सम्यगूढं तेनैव समवस्थापितम् । किमिदं विश्वां यद् विचक्रमे । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । अस्येति ‘इदमोन्वादेशेऽशनुदात्तः’ इत्यशादेशोनुदात्तः । य इममर्थमकरोत्स विष्णुर् अनेन होमेनेमं यज्ञं समापयत्विति भावः ।
अपरा योजना - इदं विष्णुर् एव स्वयं विचक्रमे विक्रमते यद्धविर्धानं विक्रमते गच्छति । ‘छन्दसि लुङ्लङ्लिटः’ इति लिट् ।
विष्णोरेवेदं क्रमणं यद्+धविर्-धानस्येति यावत् विष्णुर् विशेष्यते -
त्रेधा निदधे पदं तस्मादस्य हविर्धानस्य
पांसुरे पांसुमति च मार्गे समूढं सम्यगूढं प्रापितम् इदम् आज्यम् अस्त्व् इति ।
अन्ये पुनराहुः - इदं विश्वं विष्णुर् व्यापी आदित्यात्मा विचक्रमे विक्रमते विभज्य प्राप्नोति त्रेधा पृथिव्याम् अन्तरिक्षे दिवि च पदं निदधाति अग्नि-विद्युत्-सूर्यात्मना त्रिषु स्थानेषु पादन्यासं करोति । अस्य विष्णोः पांसुरे त्वन्तरिक्षे स[य]त्पदं विद्युद्रूपं तदेव समूढं सम्मूढं कारणानित्यत्वात् सर्वदा न दृश्यते । (मनो) यथेतरे ज्योतिषी सम्यग् गृह्येते दृष्ट्या सोऽयम् आदित्य इदं यज्ञम् अनेन होमेन समापयत्व् इति ॥
Wilson
English translation:
“Viṣṇu traversed this (world); three times he plural nted his foot and the whole (world) was collected in the dust of his (footstep).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Tredhā nidhadhe padam: the three paces of Viṣṇu imply the presence of Viṣṇu in the three regions of earth, air and heaven, in the forms of Agni, Vāyu and Sūrya, fire, wind and the sun. According to Śākapūṇi, the step was on earth, in the firmament, in heaven; according to Aurṇavābha on Samārohaṇa or the eastern mountain, on Viṣṇupada the meridian sky and Gayaśiras the western mountain, thus identifiying Viṣṇu with the Sun, and his three paces with the rise, culmination, and setting of that luminary
Jamison Brereton
Viṣṇu strode out this (world); three times he laid down a step:
(this world) is concentrated in his dusty (step).
Griffith
Through all this world strode Visnu; thrice his foot he planted, and the whole
Was gathered in his footstep’s dust.
Keith
Over this Visnu strode;
Thrice did he set down his foot;
(All) is gathered [1] in its dust.
Geldner
Vishnu hat dieses All ausgeschritten, dreimal hat er seine Spur hinterlassen. In seiner staubigen Fußspur ist es zusammengehäuft.
Grassmann
Vischnu durchschritt die ganze Welt, trat dreimal nieder mit dem Fuss, An seinem Fussstaub ballt sie sich.
Elizarenkova
Через это шагнул Вишну.
Трижды запечатлел он (свой) след.
В его пыльном (следе все) сосредоточено.
अधिमन्त्रम् (VC)
- विष्णुः
- मेधातिथिः काण्वः
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर ने इस संसार को कितने प्रकार का रचा है, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मनुष्य लोग जो (विष्णुः) व्यापक ईश्वर (त्रेधा) तीन प्रकार का (इदम्) यह प्रत्यक्ष वा अप्रत्यक्ष (पदम्) प्राप्त होनेवाला जगत् है, उसको (विचक्रमे) यथायोग्य प्रकृति और परमाणु आदि के पद वा अंशों को ग्रहण कर सावयव अर्थात् शरीरवाला करता और जिसने (अस्य) इस तीन प्रकार के जगत् का (समूढम्) अच्छी प्रकार तर्क से जानने योग्य और आकाश के बीच में रहनेवाला परमाणुमय जगत् है, उसको (पांसुरे) जिसमें उत्तम-उत्तम मिट्टी आदि पदार्थों के अति सूक्ष्म कण रहते हैं, उनको आकाश में (विदधे) धारण किया है। जो प्रजा का शिर अर्थात् उत्तम भाग कारणरूप और जो विद्या आदि धनों का शिर अर्थात् उत्तम फल आनन्दरूप तथा जो प्राणों का शिर अर्थात् प्रीति उत्पादन करनेवाला सुख है, ये सब विष्णुपद कहाते हैं, यह और्णवाभ आचार्य्य का मत है। पादैः सूयन्त इति वा इसके कहने से कारणों से कार्य्य की उत्पत्ति की है, ऐसा जानना चाहिये। पदं न दृश्यते जो इन्द्रियों से ग्रहण नहीं होते, वे परमाणु आदि पदार्थ अन्तरिक्ष में रहते भी हैं, परन्तु आँखों से नहीं दीखते। इदं त्रेधाभावाय इस तीन प्रकार के जगत् को जानना चाहिये अर्थात् एक प्रकाशरहित पृथिवीरूप, दूसरा कारणरूप जो कि देखने में नहीं आता, और तीसरा प्रकाशमय सूर्य्य आदि लोक हैं। इस मन्त्र में विष्णु शब्द से व्यापक ईश्वर का ग्रहण है॥१७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वर ने इस संसार में तीन प्रकार का जगत् रचा है अर्थात् एक पृथिवीरूप, दूसरा अन्तरिक्ष आकाश में रहनेवाला प्रकृति परमाणुरूप और तीसरा प्रकाशमय सूर्य्य आदि लोक तीन आधाररूप हैं, इनमें से आकाश में वायु के आधार से रहनेवाला जो कारणरूप है, वही पृथिवी और सूर्य्य आदि लोकों का बढ़ानेवाला है और इस जगत् को ईश्वर के विना कोई बनाने को समर्थ नहीं हो सकता, क्योंकि किसी का ऐसा सामर्थ्य ही नहीं॥१७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: मनुष्यैर्यो विष्णुस्त्रेधेदं पदं विचक्रमेऽस्य त्रिविधस्य जगतः समूढं मध्यस्थं जगत्पांसुरेऽन्तरिक्षे विदधे विहितवानस्ति स एवोपास्यो वर्त्तते इति बोध्यम्॥१७॥
दयानन्द-सरस्वती (हि) - विषयः
ईश्वरेणैतज्जगत् कियत्प्रकारकं रचितमित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इदम्) प्रत्यक्षाप्रत्यक्षं जगत् (विष्णुः) व्यापकेश्वरः (वि) विविधार्थे (चक्रमे) यथायोग्यं प्रकृतिपरमाण्वादिपादानंशान् विक्षिप्य सावयवं कृतवान् (त्रेधा) त्रिःप्रकारकम् (नि) नितराम् (दधे) धृतवान् (पदम्) यत्पद्यते प्राप्यते तत् (समूढम्) यत्सम्यक् तर्क्यते तर्केण यद्विज्ञायते तत् (अस्य) जगतः (पांसुरे) प्रशस्ताः पांसवो रेणवो विद्यन्ते यस्मिन्नन्तरिक्षे तस्मिन्। नगपांसुपाण्डुभ्यश्चेति वक्तव्यम्। (अष्टा०५.२.१०७) अनेन प्रशंसार्थे रः प्रत्ययः॥यास्कमुनिरिमं मन्त्रमेवं व्याचष्टे-विष्णुर्विशतेव्यश्नोतेर्वा यदिदं किं च तद्विक्रमते विष्णुस्त्रिधा निधत्ते पदं त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः। समारोहणं विष्णुपदे गयशिरसीत्यौर्णवाभः। समूढमस्य पांसुरेऽप्यायनेऽन्तरिक्षे पदं न दृश्यतेऽपि वोपमार्थे समूढमस्य पांसुर इव पदं न दृश्यत इति पांसवः पादैः सूयन्त इति वा पन्नाः शेरत इति वा पंसनीया भन्तीति वा। (निरु०१२.१९) गयशिरसीत्यत्र गय इत्यपत्यनामसु पठितम्। (निघं०२.२) गय इति धननामसु च। (निघं०२.१०) प्राणा वै गयाः। (श०ब्रा०१४.७.१.७) प्रजायाः शिर उत्तमभागो यत्कारणं तद्विष्णुपदं गयानां विद्यादिधनानां यच्छिरः फलमानन्दः सोऽपि विष्णुपदाख्यः। गयानां प्राणानां शिरः प्रीतिजनकं सुखं तदपि विष्णुपदमित्यौर्णवाभाचार्य्यस्य मतम्। पादैः सूयन्ते वाऽनेन कारणांशैः कार्य्यमुत्पद्यत इति बोध्यम्। पदं न दृश्यतेऽनेनातीन्द्रियाः परमाण्वादयोऽन्तरिक्षे विद्यमाना अपि चक्षुषा न दृश्यन्त इति वेदितव्यम्। इदं त्रेधाभावायेति। एकं प्रत्यक्षं प्रकाशरहितं पृथिवीमयं द्वितीयं कारणाख्यमदृश्यं तृतीयं प्रकाशमयं सूर्य्यादिकं च जगदस्तीति बोध्यम्। विष्णुशब्देनात्र व्यापकेश्वरो ग्राह्य इति॥१७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वरेणास्मिन् संसारे त्रिविधं जगद्रचितमेकं पृथिवीमयं द्वितीयमन्तरिक्षस्थं त्रसरेण्वादिमयं तृतीयं प्रकाशमयं च। एतेषां त्रयाणामेतानि त्रीण्येवाधारभूतानि यच्चान्तरिक्षस्थं तदेव पृथिव्याः सूर्य्यादेश्च वर्धकं नैवैतदीश्वरेण विना कश्चिज्जीवो विधातुं शक्नोति। सामर्थ्याभावात्। सायणाचार्य्यादिभिर्विलसनाख्येन चास्य मन्त्रस्यार्थस्य वामनाभिप्रायेण वर्णितत्वात्स पूर्वपश्चिमपर्वतस्थो विष्णुरस्तीति मिथ्यार्थोऽस्तीति वेद्यम्॥१७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - परमेश्वराने या जगात तीन प्रकारची निर्मिती केलेली आहे. अर्थात एक पृथ्वीरूपी, दुसरी अंतरिक्ष, आकाशात राहणारे प्रकृती परमाणूरूपी व तिसरी प्रकाशमय सूर्य इत्यादी लोक. हे तीन आधाररूप आहेत.
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: यापैकी आकाशात राहणारे वायूच्या आधारे कारणरूप आहेत. तेच पृथ्वी व सूर्य इत्यादींना वाढविणारे आहे. ईश्वराखेरीज कोणीही हे जग उत्पन्न करण्यास समथ नाही, कारण असे कुणाचेच सामर्थ्य नाही. ॥ १७ ॥
०२ प्र तद्विष्णुः ...{Loading}...
प्र तद् विष्णुः॑ स्तवते+++(=स्तूयते)+++ वी॒र्ये॑ण
मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्व्
अधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥
002 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विष्णुः
- ऋषिः - दीर्घतमा औचथ्यः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
प्र꣡ त꣡द् वि꣡ष्णु स्तवते वीरि꣡येण
मृगो꣡ न꣡ भीमः꣡ कुचरो꣡ गिरिष्ठाः꣡
य꣡स्योरु꣡षु त्रिषु꣡ विक्र꣡मणेषु
अधिक्षिय꣡न्ति भु꣡वनानि वि꣡श्वा
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
prá ← prá (invariable)
{}
stavate ← √stu- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
vīryèṇa ← vīryà- (nominal stem)
{case:INS, gender:N, number:SG}
víṣṇuḥ ← víṣṇu- (nominal stem)
{case:NOM, gender:M, number:SG}
bhīmáḥ ← bhīmá- (nominal stem)
{case:NOM, gender:M, number:SG}
giriṣṭhā́ḥ ← giriṣṭhā́- (nominal stem)
{case:NOM, gender:M, number:SG}
kucaráḥ ← kucará- (nominal stem)
{case:NOM, gender:M, number:SG}
mr̥gáḥ ← mr̥gá- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
{}
triṣú ← trí- (nominal stem)
{case:LOC, gender:N, number:PL}
urúṣu ← urú- (nominal stem)
{case:LOC, gender:N, number:PL}
vikrámaṇeṣu ← vikrámaṇa- (nominal stem)
{case:LOC, gender:N, number:PL}
yásya ← yá- (pronoun)
{case:GEN, gender:M, number:SG}
adhikṣiyánti ← √kṣi- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
bhúvanāni ← bhúvana- (nominal stem)
{case:NOM, gender:N, number:PL}
víśvā ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}
पद-पाठः
प्र । तत् । विष्णुः॑ । स्त॒व॒ते॒ । वी॒र्ये॑ण । मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ऽस्थाः ।
यस्य॑ । उ॒रुषु॑ । त्रि॒षु । वि॒ऽक्रम॑णेषु । अ॒धि॒ऽक्षि॒यन्ति॑ । भुव॑नानि । विश्वा॑ ॥
Hellwig Grammar
- pra
- [adverb]
- “towards; ahead.”
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- viṣṇu ← viṣṇuḥ ← viṣṇu
- [noun], nominative, singular, masculine
- “Vishnu; Krishna; Viṣṇu; Om; Shiva.”
- stavate ← stu
- [verb], singular, Present indikative
- “laud; praise; declare; stu.”
- vīryeṇa ← vīrya
- [noun], instrumental, singular, neuter
- “potency; vīrya; heroism; potency; strength; semen; power; deed; active agent; efficacy; vīryapāramitā; gold; vigor; vīrya [word]; virility; manfulness; jewel; force.”
- mṛgo ← mṛgaḥ ← mṛga
- [noun], nominative, singular, masculine
- “game; deer; animal; antelope; mṛga [word]; Mṛgaśiras.”
- na
- [adverb]
- “not; like; no; na [word].”
- bhīmaḥ ← bhīma
- [noun], nominative, singular, masculine
- “awful; amazing; terrific; enormous; bhīma [word]; fearful.”
- kucaro ← kucaraḥ ← kucara
- [noun], nominative, singular, masculine
- giriṣṭhāḥ ← giriṣṭhā
- [noun], nominative, singular, masculine
- yasyoruṣu ← yasya ← yad
- [noun], genitive, singular, neuter
- “who; which; yat [pronoun].”
- yasyoruṣu ← uruṣu ← uru
- [noun], locative, plural, neuter
- “wide; broad; great; uru [word]; much(a); excellent.”
- triṣu ← tri
- [noun], locative, plural, neuter
- “three; tri/tisṛ [word].”
- vikramaṇeṣv ← vikramaṇeṣu ← vikramaṇa
- [noun], locative, plural, neuter
- adhikṣiyanti ← adhikṣi ← √kṣi
- [verb], plural, Present indikative
- bhuvanāni ← bhuvana
- [noun], nominative, plural, neuter
- “Earth; being; world; bhuvana [word].”
- viśvā ← viśva
- [noun], nominative, plural, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
सायण-भाष्यम्
यस्येति वक्ष्यमाणत्वात् स इति अवगम्यते । स महानुभावः वीर्येण स्वकीयेन वीरकर्मणा पूर्वोक्तरूपेण स्तवते स्तूयते सर्वैः ॥ कर्मणि व्यत्ययेन शप् । वीर्येण स्तूयमानत्वे दृष्टान्तः । मृगो न सिंहादिरिव । यथा स्वविरोधिनो मृगयिता सिंहः भीमः भीतिजनकः कुचरः कुत्सितहिंसादिकर्ता दुर्गमप्रदेशगन्ता वा गिरिष्ठाः पर्वताद्युन्नतप्रदेशस्थायी सर्वैः स्तूयते । अस्मिन्नर्थे निरुक्तं - मृगो न भीमः कुचरो गिरिष्ठाः । मृग इव भीमः कुचरो गिरिष्ठा मृगो मार्ष्टेर्गतिकर्मणो भीमो बिभ्यत्यस्माद्भीष्मोऽप्येतस्मादेव । कुचर इति चरतिकर्म कुत्सितमथ चेद्देवताभिधानं क्वायं न चरतीति वा । गिरिष्ठा गिरिस्थायी गिरिः पर्वतः समुद्गीर्णो भवति पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वा’ (निरु. १, २० ) इति । तद्वदयमपि मृगोऽन्वेष्टा शत्रूणां भीमो भयानकः सर्वेषां भीत्यपादानभूतः । परमेश्वराद्भीतिः ‘भीषास्माद्वातः पवते ’ ( तै. आ. ८.८. १) इत्यादिश्रुतिषु प्रसिद्धा । किंच कुचरः शत्रुवधादिकुत्सितकर्मकर्ता कुषु सर्वासु भूमिषु लोकत्रये संचारी वा तथा गिरिष्ठाः गिरिवत् उच्छ्रितलोकस्थायी । यद्वा । गिरि मन्त्रादिरूपायां वाचि सर्वदा वर्तमानः । ईडशोऽयं स्वमहिम्ना स्तूयते । किंच यस्य विष्णोः उरुषु विस्तीर्णेषु त्रिसंख्याकेषु विक्रमणेषु पादप्रक्षेपेषु विश्वा सर्वाणि भुवनानि भूतजातानि अधिक्षियन्ति आश्रित्य निवसन्ति स विष्णुः स्तूयते ॥
10अथ दशमीमाह - तत्तस्मिन्कर्मणि यजमानानां वीर्यार्थं विष्णुः प्रस्तवते प्रकर्षेण स्तूयते । कुचरो भूमौ वर्तमानो भीमो भयंकरो मृगो न सिंहो यथोर्ध्वमुत्प्लुत्य गिरिष्ठाः पर्वतस्थो भवति, तथा यस्य विष्णोः पूर्वं वामनस्य पश्चात्त्रिविक्रमत्वं गच्छत उरुषु विस्तीर्णेषु त्रिषु विक्रमणेषु विश्वा भुवनानि सर्वे लोका अधिक्षियन्ति आधिक्येन निवसन्ति । स विष्णुः स्तूयत हति पूर्वत्रान्वयः ॥
Wilson
English translation:
“Viṣṇu is therefore glorified, that by his prowess he is like a fearful, ravenous, and mountain-haunting wild beast, and because of that in his three paces all worlds abide.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Mountain-haunting wild beast: mṛga or siṃha, a lion, as applicable to Viṣṇu: one who seeks for his enemies to inflict punishment on them, and is therefore, fearful and fierce;
Giriṣṭhāḥ = he who dwells on high, or who abides in prayer and the like: mantrādirūpāyām vāci artamānaḥ
Jamison Brereton
In this way Viṣṇu will be praised for his heroic deed—(he who is) like a fearsome wild beast, living in the mountains and roaming wherever it wants,
in whose three wide strides dwell all living beings.
Jamison Brereton Notes
The covert identification with Indra continues in pāda b, which is identical to X.180.2a, where Indra is the referent.
Griffith
For this his mighty deed is Visnu lauded, like some wild beast, dread, prowling, mountain-roaming;
He within whose three wide-extended paces all living creatures have their habitation.
Macdonell
Because of this his mighty deed is Viṣṇu Lauded, like some fierce beast that is much dreaded, That wanders as it lists, that haunts the mountains: He in whose three wide strides abide all creatures.
Geldner
Also wird Vishnu ob seiner Heldentat gepriesen, der umherschweifend im Gebirge haust wie das furchtbare wilde Tier, in dessen drei weiten Schritten alle Geschöpfe Wohnung finden.
Grassmann
Gerühmt wird Vischnu wegen dieser Grossthat, gleich wildem Löwen, der durch Berge schweifet, Er, unter dessen drei gewalt’gen Schritten die Wesen alle sichre Wohnung haben.
Elizarenkova
Вот прославляется Вишну за героическую силу,
Страшный, как зверь, бродящий (неизвестно) где, живущий в горах,
В трех широких шагах которого
Обитают все существа.
अधिमन्त्रम् (VC)
- विष्णुः
- दीर्घतमा औचथ्यः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (यस्य) जिस जगदीश्वर के निर्माण किये हुए (उरुषु) विस्तीर्ण (त्रिषु) जन्म, नाम और स्थान इन तीन (विक्रमणेषु) विविध प्रकार के सृष्टि-क्रमों में (विश्वा) समस्त (भुवनानि) लोक-लोकान्तर (अधिक्षियन्ति) आधाररूप से निवास करते हैं (तत्) वह (विष्णुः) सर्वव्यापी परमात्मा अपने (वीर्येण) पराक्रम से (कुचरः) कुटिलगामी अर्थात् ऊँचे-नीचे नाना प्रकार विषम स्थलों में चलने और (गिरिष्ठाः) पर्वत कन्दराओ में स्थिर होनेवाले (मृगः) हरिण के (न) समान (भीमः) भयङ्कर है और समस्त लोक-लोकान्तरों को (प्रस्तवते) प्रशंसित करता है ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी पदार्थ ईश्वर और सृष्टि के नियम को उल्लङ्घ नहीं सकता है, जो धार्मिक जनों को मित्र के समान आनन्द देने, दुष्टों को सिंह के समान भय देने और न्यायादि गुणों का धारण करनेवाला परमात्मा है, वही सबका अधिष्ठाता और न्यायाधीश है, यह जानना चाहिये ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या यस्य निर्मितेषूरुषु त्रिषु विक्रमणेषु विश्वा भुवनान्यधिक्षियन्ति तत् स विष्णुः स्ववीर्येण कुचरो गिरिष्ठा मृगो भीमो नेव विश्वाँल्लोकान् प्रस्तवते ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (प्र) (तत्) सः (विष्णुः) सर्वव्यापीश्वरः (स्तवते) स्तौति (वीर्येण) स्वपराक्रमेण (मृगः) (न) इव (भीमः) भयङ्करः (कुचरः) यः कुत्सितं चरति सः (गिरिष्ठाः) यो गिरौ तिष्ठति (यस्य) (उरुषु) विस्तीर्णेषु (त्रिषु) नामस्थानजन्मसु (विक्रमणेषु) विविधेषु सृष्टिक्रमेषु (अधिक्षियन्ति) आधाररूपेण निवसन्ति (भुवनानि) भवन्ति भूतानि येषु तानि लोकजातानि (विश्वा) सर्वाणि ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। नहि कश्चिदपि पदार्थ ईश्वरसृष्टिनियमक्रममुल्लङ्घितुं शक्नोति यो धार्मिकाणां मित्रइवाह्लादप्रदो दुष्टानां सिंह इव भयप्रदो न्यायादिगुणधर्त्ता परमात्माऽस्ति स एव सर्वोषामधिष्ठाता न्यायाधीशोऽस्तीति वेदितव्यम् ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - कोणताही पदार्थ ईश्वर व सृष्टीच्या नियमाचे उल्लंघन करू शकत नाही, जो धार्मिक लोकांना मित्राप्रमाणे आनंद देणारा, दुष्टांना सिंहाप्रमाणे भयभीत करविणारा न्याय इत्यादी गुणांना धारण करणारा परमेश्वर आहे, तोच सर्वांचा अधिष्ठाता, न्यायाधीश आहे हे जाणले पाहिजे. ॥ २ ॥
अग्निः
भास्करोक्त-विनियोगः
15-16अग्नेः - अग्निर्मूर्धा, भुव इति ॥ अग्निकाण्डे व्याख्याते ॥
१६ अग्निर्मूर्धा दिवः ...{Loading}...
अ॒ग्निर् मू॒र्धा दि॒वः क॒कुत्
पतिः॑ पृथि॒व्या अ॒यम् ।
अ॒पां रेतां॑सि जिन्वति+++(=प्रीणयति)+++ ॥
016 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - विरूप आङ्गिरसः
- छन्दः - गायत्री
Thomson & Solcum
अग्नि꣡र् मूर्धा꣡ दिवः꣡ ककु꣡त्
प꣡तिः पृथिविया꣡ अय꣡म्
अपां꣡ रे꣡तांसि जिन्वति
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}
diváḥ ← dyú- ~ div- (nominal stem)
{case:ABL, gender:M, number:SG}
kakút ← kakúd- (nominal stem)
{case:NOM, gender:F, number:SG}
mūrdhā́ ← mūrdhán- (nominal stem)
{case:NOM, gender:M, number:SG}
ayám ← ayám (pronoun)
{case:NOM, gender:M, number:SG}
pátiḥ ← páti- (nominal stem)
{case:NOM, gender:M, number:SG}
pr̥thivyā́ḥ ← pr̥thivī́- (nominal stem)
{case:GEN, gender:F, number:SG}
apā́m ← áp- (nominal stem)
{case:GEN, gender:F, number:PL}
jinvati ← √ji- 2 ~ jinv- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
rétāṁsi ← rétas- (nominal stem)
{case:NOM, gender:N, number:PL}
पद-पाठः
अ॒ग्निः । मू॒र्धा । दि॒वः । क॒कुत् । पतिः॑ । पृ॒थि॒व्याः । अ॒यम् ।
अ॒पाम् । रेतां॑सि । जि॒न्व॒ति॒ ॥
Hellwig Grammar
- agnir ← agniḥ ← agni
- [noun], nominative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- mūrdhā ← mūrdhan
- [noun], nominative, singular, masculine
- “head; battlefront; peak; top; mūrdhan [word]; leader; top.”
- divaḥ ← div
- [noun], genitive, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- kakut ← kakud
- [noun], nominative, singular, feminine
- patiḥ ← pati
- [noun], nominative, singular, masculine
- “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”
- pṛthivyā ← pṛthivyāḥ ← pṛthivī
- [noun], genitive, singular, feminine
- “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”
- ayam ← idam
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- apāṃ ← apām ← ap
- [noun], genitive, plural, feminine
- “water; body of water; water; ap [word]; juice; jala.”
- retāṃsi ← retas
- [noun], accusative, plural, neuter
- “semen; sperm.”
- jinvati ← jinv
- [verb], singular, Present indikative
- “enliven; animate.”
सायण-भाष्यम्
मूर्धा देवानां श्रेष्ठः दिवः द्युलोकस्य ककुत् उच्छ्रितः पृथिव्याः च पतिः अयम् अग्निः अपां रेतांसि स्थावरजङ्गमात्मकानि भूतानि जिन्वति प्रीणयति ॥
अयमग्निरादित्यरूपेण दिवो द्युलोकस्य ककुदुच्छ्रितो मूधां शिरःस्थानीयः, पृथिव्याः पतिर्दाहपकादिकारित्वेन पालकोऽप्ययम्। किंच, अप रेतांस्युदककायांणिस्थात्वरजङ्गमशरीराणि जाठराग्निरूपेण जिन्वति प्रीणयति।
भट्टभास्कर-टीका
अयम् अग्निर् मूर्धा प्रधानभूतः दिवः द्युलोकस्य ककुत् उच्छ्रितः आत्मेत्यर्थः अर्यमात्मना दिवो मूर्धत्वेन वतत इति । अयमेव पृथिव्याः पतिः पाता; अग्निर् हि पृथिव्यात्मना वर्तते । सो ऽयम् अपां रेतांसि कार्यभूतानि स्थावरजङ्गमाख्यानि माध्यमिकाग्निरूपेण जिन्वति वृष्ट्या तर्पयति । ‘ऊडिदम्’ इति षष्ठ्या उदात्तत्वम् । ‘उदात्तयणः’ इति पृथिव्याः ॥
अयमग्निर्देवो दिवो मूर्धा प्रधानभूतः, पृथिव्याश्च ककुत् प्रधानः पतिः, अपां रेतांसि कार्यभूतानि भुवनानि जिन्वति प्रीणयतीति प्रथमा ॥
Wilson
English translation:
“Agni, the head (of the gods), the summit of heaven– he the lord of the earth– gladdens the seed of thewaters.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Seed: retāṃsi, the moveable andimmovable productions of the creative waters
Jamison Brereton
Agni is the head, the peak of heaven; this (Agni) here is lord of the earth. He quickens the spawn of the waters.
Griffith
Agni is head and height of heaven, the Master of the earth is he:
He quickeneth the watere seed.
मानसतरङ्गिणीकृत्
agni is the head and the axis of heaven, the lord of this earth. He makes the seed of water successful.
Keith
Agni is the head of the sky, the height,
Lord of the earth here,
He quickeneth the seed of the waters.
Geldner
Agni ist das Haupt, die Spitze des Himmels, er der Herr der Erde; er kräftigt den Samen der Gewässer.
Grassmann
Agni, des Himmels Haupt und Höh’, und er, der Erde Oberherr, Erregt der Wasser Samenguss.
Elizarenkova
Агни – глава неба, вершина;
Он хозяин земли,
Он оживляет семена вод.
अधिमन्त्रम् (VC)
- अग्निः
- विरूप आङ्गिरसः
- निचृद्गायत्री
- षड्जः
शिव शंकर शर्मा - पदार्थः
पदार्थान्वयभाषाः - (अस्मिन्) इस (स्वध्वरे) हिंसारहित अथवा अहिंस्य (यज्ञे) ध्यानयज्ञ में (अग्निम्) सर्वाधार महेश की (आहुवे) स्तुति करता हूँ जो देव (ऊर्जः+नपातम्) बल और शक्ति का वर्धक है और (पावकशोचिषम्) पवित्र तेजोयुक्त है ॥१३॥
शिव शंकर शर्मा - भावार्थः
भावार्थभाषाः - अध्वर और यज्ञ दोनों शब्द एकार्थक हैं, तथापि यहाँ विशेषणवत् अध्वर शब्द प्रयुक्त हुआ है। भाव इसका यह है कि ईश्वर बलदाता है, उसकी उपासना से महान् बल प्राप्त होता है ॥१३॥
शिव शंकर शर्मा - पदार्थः
पदार्थान्वयभाषाः - स्वध्वरे=अन्यैरत्यन्तमहिंस्ये हिंसारहिते वा। अस्मिन् यज्ञे=ध्यानयज्ञे। अग्निं=सर्वाधारमीशमाहुवे=आह्वयामि स्तौमि। कीदृशम्। ऊर्जः=बलस्य। नपातं न पातयतीति नपातः। किन्तु बलस्य वर्धकमेव। पुनः। पावकशोचिषम्=पवित्रतेजस्कम् ॥१३॥
मूलम्
अ॒ग्निर्मू॒र्धा ।
भुवो यज्ञस्य ...{Loading}...
भुवो॑ य॒ज्ञस्य॒, +++(विद्युद्-रूपेण)+++ रज॑सश्+++(→अन्तरिक्षस्य)+++ च ने॒ता
यत्रा॑ नि॒युद्भि॒स्+++(=मरुद्-अश्वैस्)+++ सच॑से+++(संयासि)+++ शि॒वाभिः॑ ।
+++(सूर्यरूपेण)+++ दि॒वि मू॒र्धान॑न् दधिषे सुव॒र्षाञ्
जि॒ह्वाम् अ॑ग्ने चकृषे हव्य॒वाह᳚म् ॥
भुवो यज्ञस्य ...{Loading}...
मूलम्
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒स्सच॑से शि॒वाभिः॑ ।
दि॒वि मू॒र्धान॑न्दधिषे सुव॒र्षाञ्जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह᳚म् ॥
सायणटीका
अयम् अग्निर् भूलोकस्य तत्रानुष्ठेयस्य यज्ञस्य तस्मिन्यज्ञे प्रमर्तकस्य रजसो गुणस्य च नेता निर्वाहकः।
तादृश हे ऽग्ने यत्र यस्यां दिवि सूर्यरूपो भूत्वा
नियुद्भि रथे नितरां योज्यमानाभिः शिवाभिर् उत्तमाभिर् अश्वजातीभिः सचसे समवैषि तस्यां दिवि मूर्धानं शिरोवद् उन्नत-स्थितिं दधिषे धारयसि। कीदृशं मूर्धानं, सुवर्षं सुवः सर्वर्गे स्यति सर्वदा तिष्ठतीति सुवर्षास् तम्। सोम-प-शब्दवत् पुंलिङ्गोऽयम्। हेऽग्ने त्वम् अस्मिन्यज्ञे हव्यवाह हविष्-प्रापिकां जिह्वां ज्वालां चकृषे करोषि।
भट्टभास्कर-टीका
14 भुवो यज्ञस्य रजस उदकस्य च नेता प्रापयिता भवसि तदानीम् । कदा? यत्र शिवाभिः नियुद्भिर् अश्वैस् सचसे सम्बध्यसे । मरुताम् अश्वा नियुतस् तद्वन्तो वायव इह गृह्यन्ते । तदानीं यज्ञं च प्रवर्तयसि उदकं चावपातयसि । दिवि च मूर्धानं प्रधानभूतं यज्ञं च दधिषे स्थापयसि सुवर्षां स्वर्गीणां सम्भक्तारम् । स त्वं हे अग्ने तव जिह्वां हविषो वोध्रीं चकृषे कुरुष्वेति द्वितीया ॥
अनुमतिः
भास्करोक्त-विनियोगः
17-18अनुमतेः - अनुनोऽद्य, अन्विदनुमत इति ॥
‘इदं वामास्ये’ इत्यत्र व्याख्याते । अग्न्यनुमती सप्तस्वेवेति केचित् । सर्वत्र कृत्तिकादिष्वित्यपरे ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अनु॑ नो॒ऽद्यानु॑मतिर् +++(=ऊनचन्द्रा पौर्णमासी)+++
य॒ज्ञन् दे॒वेषु॑ मन्यताम् ।
अ॒ग्निश् च॑ हव्य॒वाह॑नो॒,
भव॑तान् दा॒शुषे॒ मयः॑ ।
सर्वाष्टीकाः ...{Loading}...
Keith
For us to-day may Anumati
Among the gods favour our sacrifice,
And be she and Agni, bearer of the oblation,
A joy to the giver.
मूलम्
अनु॑ नो॒ऽद्यानु॑मतिर्य॒ज्ञन्दे॒वेषु॑ मन्यताम् ।
अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तान्दा॒शुषे॒ मयः॑ ।
भट्टभास्कर-टीका
नोस्माकम् इमं यज्ञं
अनुमतिर् देवी अद्येदानीं देवेषु अनुमन्यतां
देवान् प्रापयतु देव-निमित्तं वा अनुजानातु ।
ऊनचन्द्रा पौर्णमासी अनुमतिः ।
अग्निश्च हव्यवाहनः हविषां वोढा देवेष्व् अनुमन्यताम् इत्येव । ‘हव्येनन्तः पादम्’ इति ञ्युट्, किंच -
तौ अनुमति-हव्यवाहनौ दाशुषे हविर्-दत्तवते अस्मै यजमानाय मयः सुखहेतुः भवताम् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
अन्व् इद् अ॑नुमते॒ त्वम् [34]
मन्या॑सै॒ शञ्च॑ नᳵ कृधि ।
क्रत्वे॒ दख्षा॑य नो हिनु॒+++(=प्रेरय)+++
प्र ण॒ आयूꣳ॑षि तारिषः ।
सर्वाष्टीकाः ...{Loading}...
Keith
Accord thy favour, O Anumati [3],
And grant us wealth;
For inspiration, for insight impel us,
Lengthen our days for us.
मूलम्
अन्विद॑नुमते॒ त्वम् [34] मन्या॑सै॒ शञ्च॑ नᳵ कृधि ।
क्रत्वे॒ दख्षा॑य नो हिनु॒ प्र ण॒ आयूꣳ॑षि तारिषः ।
भट्टभास्कर-टीका
अनुमते त्वं मन्यासै अनुमन्यस्व लोटि ‘वैतोन्यत्र’ इत्यैकारः । किंच - नोस्माकं शं सुखं च कृधि कुरु । करोतेर्लोटि शपो लुक्, ‘श्रुशृणुकृवृभ्यः’ इति धिभावः । किं पुनरनुमन्तव्यमित्याह - क्रत्वे क्रतवे यागाय प्रत्ययाय वा दक्षाय समर्थाय शीघ्रकरणाय क्रत्वर्थं वा यद्दक्षमन्नं तदर्थं नः अस्मान् हिनु प्रेरय । ‘जसादिषु वा वचनम् प्राङ्णौ चङ्युपधायाः’ इति दीर्घं ङितीति गुणो न प्रवर्तते । तदर्थं चास्माकं आयूंषि प्रतारिषः प्रवर्तय । तरतेर्ण्यान्ताल्लेटि ‘सिब्बहुलं लेटि’ इति सिप् ‘लेटोडाटौ’ इत्यडागमः, ‘उपसर्गाद्बहुलम्’ इति नसो णत्वम् ॥
संयाज्ये
भास्करोक्त-विनियोगः
19-20अथ संयाज्ये - हव्यवाहं, स्विष्टमिति ॥ व्याख्याते ‘जुष्टः’ इत्यत्र ॥
विश्वास-प्रस्तुतिः ...{Loading}...
ह॒व्य॒वाह॑मभिमाति॒षाह᳚म् ।
र॒ख्षो॒हण॒म्पृत॑नासु जि॒ष्णुम् ।
ज्योति॑ष्मन्त॒न्दीद्य॑त॒म्पुर॑न्धिम् ।
अ॒ग्निꣵ स्वि॑ष्ट॒कृत॒मा हु॑वेम ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
ह॒व्य॒वाह॑मभिमाति॒षाह᳚म् ।
र॒ख्षो॒हण॒म्पृत॑नासु जि॒ष्णुम् ।
ज्योति॑ष्मन्त॒न्दीद्य॑त॒म्पुर॑न्धिम् ।
अ॒ग्निꣵ स्वि॑ष्ट॒कृत॒मा हु॑वेम ।
सायण-टीका
हव्यवाहं हविषां वोढारं अभिमातिषाहं पाप्मनामभिभवितारं रक्षोहणं रक्षसां हन्तारं पृतनासु संग्रामेषु जिष्णुं जयशीलं ज्योतिष्मन्तं दीप्तिमन्तं दीद्यतं निर्मलदीप्तिं पुरंधिं पुरुषु शरीरेषु धीयमानं उपास्यमानम्, पुरुप्रज्ञानं वा । पृषोदरादिः । ईदृशं स्विष्टकृतं अग्निं आहुवेम आह्वयाम । लिङ्याशिष्यङ् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
स्वि॑ष्टमग्ने अ॒भि तत्पृ॑णाहि ।
विश्वा॑ देव॒ पृत॑ना अ॒भिष्य ।
उ॒रुन्न॒ᳶ पन्था᳚म्प्रदि॒शन्विभा॑हि ।
ज्योति॑ष्मद्धेह्य॒जर॑न्न॒ आयुः॑ ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
स्वि॑ष्टमग्ने अ॒भि तत्पृ॑णाहि ।
विश्वा॑ देव॒ पृत॑ना अ॒भिष्य ।
उ॒रुन्न॒ᳶ पन्था᳚म्प्रदि॒शन्विभा॑हि ।
ज्योति॑ष्मद्धेह्य॒जर॑न्न॒ आयुः॑ ।
सायण-टीका
10स्विष्टमग्न इति ॥ हे! आग्ने! स्विष्टं सम्यगिष्टं तत् अभिपृणाहि आभिमुख्येन पूरय पालय वा । ‘सेर्ह्यपिच्च’ इत्यस्य ‘वा छन्दसि’ इति बाधितत्वात् ङित्त्वाभावः । हे! देव! विश्वाः पृतनाः संग्रामान् अभिष्य आभिमुख्येनान्तं गमय । स्यतेः लोटि हिलोपे ‘विभाषा’ इति निघाताभावः । अस्मभ्यं च उरुं विशिष्टं प्रसिद्धं पन्थां पन्थानं मार्गं प्रदिशन् ददत् विभाहि विशेषेण संदीप्यस्व । किं च ज्योतिष्मत् उज्ज्वलं लोकपूजितं अजरं अजय्यं आयुः अस्मज्जीवितं वा अस्मभ्यं धेहि देहि ॥