द्वादशाहप्रयोगः

॥ द्वादशाहप्रयोगः ॥

माघमास्यमावास्यायां प्रातरग्निहोत्रं हुत्वा, प्राणानायम्य सङ्कल्पं करोति । द्वादशाहीनेनाहीनभूतेन साग्निचित्येन यक्ष्ये । प्रजायेय स्वर्गं लोकमवाप्नवानि । एषु लोकेषु प्रतितिष्ठति । विद्युदसि । सोमप्रवाकवरणं कृत्वा । सोमप्रवाक द्वादशाहमृत्विग्भ्यो मे प्रब्रूहि । यज्ञशर्मणः द्वादशाहो भविष्यतीत्यादि । कच्चिनाहीन इत्युक्ते अहीनभूतो द्वादशाहः । कच्चिन्नम्यस्तमार्त्विज्यमित्यादि पितरो भूरित्यन्तमेव । ब्रह्म होतॄणां वरणम् । होतुस्तु को यज्ञ इत्यिक्ते अहीनभूतो द्वादशाहः । क ऋत्विज इत्युक्ते नारायणशर्मादयः । का दक्षिणेत्युक्ते अन्वहं द्वदशशतं दक्षिणा । मन्त्रवरणादि नान्दीमुखं कृत्वा अग्निं विहृत्य । बृहस्पतिपुरोहिता इत्यादि प्रवर्ग्यसंभरणान्तं महाग्निवत्कृत्वा अथान्वाधानादि श्वो भूते सर्शेनेष्ट्वा प्रवासादि व्रतानि करोति । षष्ठ्याण् दीक्षापक्षे अमावास्यायां प्रथम सुत्या भवति । ज्योतिषोक्तप्रकारेणैव दीक्षातम्भः कर्तव्यः । अत्र वा चैत्रे मासि सप्तम्यां दीक्षा तत्पक्षे पुर्वपक्षस्य प्रथमायां प्रथमसुत्या भवति । षष्ठ्यां सप्तम्यां वा प्रातरग्निहोत्रं हुत्वा द्रव्यनिर्देशनादि नाभ्यभिमर्शनान्तं महाग्निवत् । पूषा सन्येति सनीहारान् संशान्ति । अथ समन्वारम्भहोमः । अध्वर्युं यजमानोऽन्वारभते यजमानं पत्नी समन्वारब्धेषु गार्हपत्ये जुहोति । अपैतु मृत्युरमृतं न आगन्वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्पतेरिवाभि नः शीयताꣳ् रयिस्सचतां नश्शचीपतिस्स्वाहा । इन्द्रायेदम् । पत्नीवर्जमितरयोः । परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् स्वाहा दक्षिणाग्नौ मृत्यव इदम् । इदमूनु श्रेयो वसानमागन्म यद्गोजिद्धनजिदश्वजिद्यत् । पर्णं वनस्पतेरिवाभि नः शीयताꣳ् रयिस्सचतां नः शचीपतिस्वाहा आहवनीये । मृत्यव इदम् । जागर्त्येतां रात्रिम् । द्वादशाहं दीक्षितो भवति । दीक्षादिनेषु पूर्वेद्युः दृशानादि । अपरेद्युर्दिवस्परि । एवं व्यत्यासेन करोति । द्वादश्यां प्रयाणं कृत्वा विश्वे देवा इत्यग्निवत् । त्रयोदश्यां वाग्विसर्जनं कृत्वा सोमपरिवेषणम् । दृशानादि येन देवाः । दिवस्परि । अपवृत्ते दीक्षापरिमाण इत्यादि प्रायया प्रचर्य वेदिमानम् । स्थालीनिधाने कृते तु वेदिमानम् । स्थालीनिधाने वेदिस्स्यादिति कारिकाप्रकारेण वेदिमानम् । विमिमे त्वेत्यादि तयोर्देवानामधि भागधेयमित्यन्तम् । प्रायणीयाया ध्रौवादित्येतदादि षोडशिवत् सोमक्रयणी । अꣳ्शुना ते अꣳ्शुः पृच्यतां इत्यादि कृते सोमं द्वादशधा विभज्य क्रमेणैकैकं बद्ध्वा एतेषामह्नां अहः क्रमेण चिह्नं कृत्वा निदधाति । क्षौमं वास इत्यादि पञ्चकृत्वो यजुषा मिमीते पञ्चकृत्वस्तूष्णीम् । एवं द्वादशकृत्वः । प्रजाभ्यस्त्वेत्यादि द्वादशभिः क्रयः । आतिथ्यया प्रचर्य अग्निमानादि सिकमाव्यूहतीत्यन्तं कृत्वा । व्रत्य व्रतय व्रतमुपेहीत्यादि नात्र समिद्द्वयम् । आतिथ्याया ध्रौवादित्यादि मदन्तीभिर्मार्जयत इत्यन्तम् । प्रवर्ग्येण प्रचरिष्यन्त इत्यादि पौर्वाह्णिकीभ्यां प्रचर्य सुब्रह्मण्याह्वानान्ते सम्भारयजूंषि व्याचक्षे । एवं नित्यः सर्वोपसदन्तेषु । द्वादशोपसदः । चतुरहं चतुरहं एकैकेनोपसन्मन्त्रेणोपसदं जुहोति । अनूपसदमग्निं चिनोति । द्व्यहं द्व्यहं एकैका चितिः । चतुरह मुत्तमा । चतुस्तनं त्रिस्तनं द्विस्तनमेकस्तनमिति । त्र्यहं त्र्यहं व्रतानि । चित्यग्निप्रणयनादि दिविसीदेत्यन्तमुपधाय विरामः । न वाङ्म आसन् । न पृष्टो दिवि नाश्वपरिणयनम् ।न जागरणम् । तत आपराह्णिकीभ्यामित्यादि अग्निर्यजुर्भिरित्यन्तम् । श्वो भूते पौर्वाह्णिकीभ्यां प्रचर्य प्रवर्ग्येण प्रचरिष्यन्त इत्यादि आहूतायां सुब्रह्मण्यायां अग्निर्यजुर्भिरित्यन्तं कृत्वा स्वर्जिदसि । लोकंपृणान्तम् । न जागरणम् । तितीयदिवसे विसृष्टवाचि यजमाने प्रवर्ग्येण प्रचरिष्यन्त इत्यादि अग्निर्यजुर्भिरित्यन्तं कृत्वा शुल्बोपधानम् । अश्वमालभ्य वाङ्म आसन् । ध्रुवक्षितिरित्यादि । लोकंपृणैः सह । न वाङ्म आसन् । न पृष्टो दिवि । नाश्वपरिणयनम् । आपराह्णिकीभ्यामित्यादि अग्निर्यजुर्भिरित्यन्तम् । अग्ने त्वꣳ् सुजागृहि इत्यादि । चतुर्थदिवसे विसृष्टवाचि यजमाने । प्रवर्ग्येण प्रचरिष्यन्त इत्यादि सम्भारयजुरन्तं चितिशेषं समाप्य अश्वपरिणयनान्तम् । पञ्चमे दिवसे पौर्वाह्णिकीभ्यामित्यादि सम्भारयजुरन्ते शुल्बोपधानम् । अश्वमालभ्य वाङ्म आसन् । इन्द्राग्नी अव्यथमानामित्यादि शतं लोकंपृणैः सह । न वाङ्म आसन् । न पृष्टो दिवि नाश्वपरिणयनम् । आपराह्णिकीभ्यामित्यादि अग्निर्यजुर्भिरित्यन्तम् । षष्ठे दिवसे पौर्वाह्णिकीभ्यामित्यादि चितिशेषमुपधाय यूपाहरणम् । उरु विष्णो विक्रमस्वेत्यादि अच्छिन्नो रायः सुवीर इत्यन्तम् । अग्निष्ठः प्रथमान् त्रयोदशयूपान् मन्त्रेणाच्छिनत्ति । सर्वेषां शकलाहरणाव्रश्चनहोमान्तम् । एषामग्निष्ठं द्वितीयं तृतीयमित्यादि चिह्नं कृत्वा । आपराह्णिकीभ्यामित्यादि अग्निर्यजुर्भिरित्यन्तं कृत्वा अहः शेषं समापयेत् । सप्तमे दिवसे पौर्वाह्णिकीभ्यां प्रचर्य शुल्बोपधानम् । अश्वमालभ्य वाङ्म आसन् । आशुस्त्रिवृदित्यादि शतं लोकंपृणैः सह । न वाङ्म आसन् । न पृष्टो दिवि नाश्वपरिणयनम् । आपराह्णिकीभ्यामित्यादि अग्निर्यजुर्भिरित्यन्तं कृत्वा अहः शेषं समापयेत् । अष्टमे दिवसे पौर्वाह्णिकीभ्यामित्यादि चितिशेषमुपधाय आपराह्णिकीभ्यामित्यादि । नवमे दिवसे पौर्वाह्णिकीभ्यां प्रचर्य शुल्बोपधानम् । अश्वमालभ्य वाङ्म आसन् । अग्ने जातानित्यादि अङ्काङ्कं छन्द इत्यन्तम् । आपराह्णिकीभ्यामित्यादि । दशमे दिवसे पौर्वाह्णिकीभ्यां प्रचर्य रश्मिरसीत्यादि औदुम्बरीः समिधो घृते वासयतीत्यन्तम् । आपराह्णिकीभ्यामित्यादि । एकादशदिवसे पौर्वाह्णिकीभ्यां प्रचर्य याज्ञसेनी चितिः । अग्निर्मूर्धेत्यादि सर्वतोमुखान्तम् । आपराह्णिकीभ्यामित्यादि । अग्नीषोमीयदिवसे पौर्वाह्णिकीभ्यामित्यादि सम्भारयजुरन्ते लोकंपृणादि चित्यन्तं कृत्वा । तदानीमेवापराह्णिकीभ्यां प्रचर्य अग्ने युक्ष्वहि इत्यादि संञ्चित कर्म यास्ते अग्ने सूर्ये रुच इत्यन्तम् । वेद्यास्तरणादि सौमिकं कर्म । एकविंशतिछदि सदः । उपरवम्न्त्राणामेकवचनेनोहः । सन्तृण्णे अधिषवणफलके भवतः । शकटायैते भवतः । ऋजुरुपवसथः । आविष्कृतामौपवसथ्यं खरकरणान्तं कृत्वा । इष्टकाभिर्धिष्ण्यां चिनोति । ममाग्ने वर्च इत्यादि पूर्ववदाग्न्यान्यभिमन्त्र्य । आसन्नाभिमन्त्रणान्तेऽग्रेणाहवनीयं यूपावटं अरिलिखतीत्यादि । वेदिसम्मिते वा मानं कर्तव्यम् । तन्त्रमभ्रेरादानमित्यादि । रथाक्षमात्रं एकोनसप्तत्यङ्गुलमात्राणि यूपान्तरालानि । अग्निष्ठाद्दक्षिणां परिलिख्योत्तरमग्निष्ठात् पतिलिख्येत्येवं व्यत्यासमित्यादि । उदगपवर्गान्यूपान् सम्मिनोति । उपशयः सर्वेषां दक्षिनतः सकृदेव निदधाति । सर्वाण्यौपसथ्य इति वचनात् । अग्निष्टं द्वाभ्यां रशनाभ्यां परिवीय पशुं स्नपयन्तीत्यादि । रात्रौ परिस्तरणान्तम् ।

प्रायणीया त्रिरात्रं प्रथममहः । तस्य प्रयोगः । अग्ने नयेत्यादि सर्वमतिरात्रवत् । इयान् विशेषः । त्रयोतिग्राह्याः । खरे षोडशिपात्रम् । सवनीयस्य पात्रसंसादनकाले द्वे यूपरशने शिष्टानि पूर्ववत् । पवित्रकरणादि । समानमा राज्ञ उपावहरणात् । पञ्चहोतारं हुत्वा । सोमं द्वादशधा विभज्य एकांशमन्यस्मिन्वाससि बद्ध्वा प्रत्यवरोप्य । ग्रावस्वितरं मन्त्रेणोपावहरति हृदे त्वेति । एवमहरहः । होतरेहि । अग्निं युनज्मीत्यदि तिसृभिरग्निमभिमृशति । प्रातर्यावभ्य इत्यादि यमग्ने पृत्सु मर्त्यमिति यजुर्वदनमेव । अथैनमुपरे निधायांशुभिरभि मिमीते क्रयादित्यन्तं कृत्वा । पृश्निप्राणग्रहैमग्निं । इन्द्राय त्वा वृत्रघ्ने, वायुरसि प्राणो नाम, सत्यायर्तस्य त्वा ज्योतिषे । इन्द्राय त्वा वृत्रतुरे, अयं पुरो भुवस्तस्य — प्राणं गृह्णामि प्रजाभ्यः । इन्द्राय त्वाभिमातिघ्ने वायुरसीत्यादि दश । नवांशवः पञ्चकृत्वस्तूष्णीं भूयांसम् । प्रातस्सवनायेत्यादि । अपि वा इन्द्राय त्वा वृत्रघ्ने वायुरसीत्यादि दश । अयं पुरो भुव इति दश । इन्द्राय त्वा वृत्रतुरे वायुरसीत्यादि दश । अयं पुरो भुव इति दश । इन्द्राय त्वाभिमातिघ्ने वायुरसीत्यादि दश । अयं पुरो भुव इति दश । इन्द्राय त्वादित्यवते वायुरसीत्यादि दश । अयं पुरो भुव इति दश । इन्द्राय त्वा विश्वदेव्यावते वायुरसीत्यादि दश । अयं पुरो भुव इति दश । पञ्चकृत्वस्तूष्णीं भूयांसमित्यादि । ऐन्द्रवायवाग्रः । ध्रुवं गृहीत्वा । षोडशिनो ग्रहणम् । विरमति धारेत्यादि । अग्निष्ठं द्वाभ्यां रशनाभ्यां परिव्ययति । देवस्य त्वा इति । आग्नेयः पशुः इत्युपशयनिर्देशः । होतारौ वृत्वा सौमिकानृत्विजो वृणीते । अयं सुन्वन् यजमानो मनुष्याणाम् । वपामार्जनान्ते द्वौ समुद्रावित्यादि । वीर्याय म इति षोडशिनम् । सर्वमग्निष्टोमवत् । प्रउगशस्त्रान्ते प्रतिप्रस्थाता शाखामाहरति इषे त्वा इत्यादि वसूनां पवित्रमसि इत्यन्तम् । मित्रावरुणाभ्यामित्यूहः । प्रतिहर्तृदानान्ते हिरण्यपात्रं मधोः पूर्णमित्यादि । घृतयागे ध्रौवसमाप्तिः । यज्ञायज्ञिये वसतीवरीर्गृह्णाति । एकयाप्रस्तुते नमस्ते अस्तु मा मा हिꣳ्सीः इति द्वाभ्यामग्निमभिमृशति । षोडशिचमसेषु प्रक्षालितेषु पयस्याया दोहनम् । पवित्रे स्थ इत्यादि वायवः स्थोपायवः स्थ इत्यन्तम् । या यजमानस्येत्यादि पञ्चदोहनम् । सुब्रह्मण्याह्वानान्ते पर्यायादि देहि चित्रं धेहि चित्रोम् । अभ्यासेन शस्त्रसमाप्तिः । आश्विनचमसेषु प्रक्षालितेषु अग्नीदौपयजानीत्यादि । हारियोजने तिष्ठासु कं । अयं यज्ञ इति याज्या । इह मद एव मघवन्निन्द्र ते इत्यादि । अघसुत्यां ब्रह्मन् वाचं यच्छ । आग्नीध्रः अद्य सुत्यां वा एषां ब्राह्मणानामित्यादि । द्वितीयसुत्यायामिन्द्रोपस्थानान्ते अग्निविमोकः । न सख्यविसर्जनम् । पत्नीसंयाजान्ते अग्निं नर इत्यादि । प्रशास्तः प्रसुवेत्याह । पत्नीसंयाजान्तमहः सन्तिष्ठते । संस्थितेऽहनि ब्रह्मा वाचं विसृजते । परिहरन्ति पत्नीभ्यः उदकम् । यन्ति समिद्द्वारा । एत्य आहवनीयेऽभ्यादधाति । एवमहरहः ।

तदानीमेव त्रिवृदग्निष्टोमं रथन्तरसामानमुपयन्ति । द्वितीयमहः तस्य प्रयोगः । अत्र असतीवरीः परिहृत्य । इषे त्वेत्यादि देवा देवेष्वित्यन्तं कृत्वा सवनारम्भः । अग्ने नयेत्यादि आग्नेयमतिग्राह्यमेकमेव । पूर्ववद्रशनसादनम् । पूर्ववद्राज्ञ उपावहरणम् । अग्निं युनज्मि । यमग्ने पृत्सु मर्त्य इति होमः । ऐन्द्रवायवाग्रः । सदसि बहिष्पवमानम् । अग्नीदग्नीन् इत्यादि । त्रिवृद्भ्यां परिव्ययणादि । सरस्वती मेषी अग्निष्ठस्योत्तरयूपे । पूर्ववदुपशयनिर्देशः । प्रउगे शाखाच्छेदनम् । रथशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति । शब्दो मन्त्रस्थाने भवति । घृतयागे ध्रौवसमाप्तिः । वसतीवरीर्यज्ञायज्ञिये प्रतिगृह्णाति । अग्न्यभिमर्शनं च । यज्जरित्रे यज्जरित्रों । यथा त्वꣳ् सूर्यासि इत्यादि । श्वसुत्यामिति प्रैषः । समिदाधानं च पूर्ववत् । वसतीवरीपरिहरणादि परिस्तरणान्तमग्निष्टोमवत् ।

महारात्रे बुध्वा श्वो भूते पञ्चदशमुक्थ्यम् । बृहत्सामानमुपयन्ति । तृतीयमहः । तस्य प्रयोगः । अग्ने नयेत्यादि । ऐन्द्रमतिग्राह्यमेकमेव । पूर्ववद्रशनोपावहरणाज्याभिमर्शनादि करोति । यमग्ने पृत्सु मर्त्यमिति परिधौ लेपं निमार्ष्टि । शुक्राग्रः । ऐन्द्रवायवस्य सादनमनु साद्यते । सदसि बहिश्पवमानम् । पूर्ववद्रशनादानादि । अग्निष्ठस्य दक्षिणे सौम्यं पशुमुपाकरोति । उपशयनिर्देशः । प्रउगे शाखासादनम् । दुन्दुभिशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति । तृतीयसवन आग्रयणं गृहीत्वा उक्थ्यं गृह्णाति । घृतयागे ध्रौवसमाप्तिः । वसतीवरीर्यज्ञायज्ञियं प्रतिगृह्णाति । उत्तमे उक्थ्ये उन्नेतः सर्वं राजानमित्यदि । ऐरयेथामैरयेथों इति प्रैषः । विमोकहोमः । पत्नीसंयाजान्ते समिदाधानं च । वसतीवरी परिहरणादि परिस्तरणान्तं पूर्ववत् ।

महारात्रे बुद्ध्वा श्वो भूते सप्तदशमुक्थ्यं वैरूपसामानमुपयन्ति । चतुर्थमहः । तस्य प्रयोगः । अग्ने नयेत्यादि सौर्यमतिग्राह्यमेकमेव । पूर्ववद्रशनोपावहराग्न्यभिमर्शनानि । आग्रयणाग्रः । पुर्ववदासादनम् । सदसि बहिष्पवमानम् । अग्निष्ठस्येत्तरतो द्वितीये पौष्णः श्यामः । उपशयनिर्देशः । प्रउगे शाखाच्छेदनम् । बर्हिभ्यां आधावेन च माहेन्द्रस्य स्तोत्रमुपाकरोति । उपाकृतं सामाप्रस्तुतं भवति । अथोद्गाता आधावेनाधूनुते तृतीयसवने पूर्ववदुक्थ्यग्रहणम् । घृतयागे ध्रौवसमाप्तिः । वसतीवरीर्यज्ञायज्ञियं प्रतिगृह्णाति । पूर्ववत् अग्न्यभिमर्शनाभ्यासात् प्रैषविमोकाः । पत्नीसंयाजान्ते समिदाधानं च । वसतीवरी परिहरणादि परिस्तरणान्तं पूर्ववत् ।

महारात्रे बुद्ध्वा श्वो भूते एकविंशं षोडशिनं वैराजसामानमुपयन्ति । पञ्चममहः । तस्य प्रयोगः । अग्ने नयेत्यादि । षोडशिपात्रं प्रयुनक्ति । न्यूङ्खमेतदहर्भवति । न त्वतिग्राह्याः । गौरिवीतपक्षे त्रीनतिग्राह्यान् गृह्णाति । पूर्ववद्रशनोपावहरणाग्न्यभिमर्शनानि । समूढे ऐन्द्रवायवाग्रः । व्यूढे आग्रयणाग्रः । पुर्ववदनुसादनम् । ध्रुवं गृहीत्वा षोडशिनं गृह्णाति । सदसि बहिष्पवमानम् । अग्निष्ठस्य दक्षिणतो द्वितीये शितिपृष्ठो बार्हस्पत्यः । उपश्यनिर्देशः । आज्यशस्त्रे न्यूङ्खप्रतिगरः । ओ३ओओओओओओओओओओओओओओओ-मदेथमदैवो३ओओओमोथामोद इवोम् । ओथामोद इव एवमुत्तमावर्जम् । प्रत्यर्चं प्रतिगरं भवति । प्रउगे शाखाच्छेदनम् । बर्हिभ्यां अरणीभ्यां च माहेन्द्रस्य स्तोत्रमुपाकरोति । उपाकृतं सामाप्रस्तुतं भवति । अथोद्गातुः दक्षिंनामूरुं अवकाभिः प्रच्छाद्य तस्मिन्नग्निं मन्थति । तं जातमुद्गाता अभिहिङ्कृत्य प्रस्तोत्रे प्रयच्छति । तं सोऽध्वर्यवे । तमध्वर्युरुत्तरेण धिष्णियान् पर्याहृत्य आग्नीध्रस्य चोत्तरतो नीत्वा आहवनीये प्रहृत्य । प्रेद्धो अग्ने दीदिहीति विराजाऽभिजुहोति । मरुत्वतीयनिष्केवल्ययोः न्यूङ्खप्रतिगरः । तृतीयसवन आग्रयणं गृहीत्वा उक्थ्यं गृह्णाति । घृतयागे ध्रौवसमाप्तिः । वसतीवरीर्यज्ञायज्ञियं प्रतिगृह्णाति । अग्न्यभिमर्शनं च । षोडशिचमसोन्नयनकाले उन्नेतः सर्वं राजानमिति प्रैषः । अग्नीदौपयजानित्यादि । अतिप्रैषः । विमोकहोमः । पत्नीसंयाजान्तमहः सन्तिष्ठते । समिदाधानं च । उत्तरस्मा अह्नि वसतीवरी परिहरणादिसमानम् ।

महारत्रे बुद्ध्वा श्वो भूते त्रिणवमुक्थ्यं शाक्वरसामानमुपयन्ति । षष्ठमहः । तस्य प्रयोगः । अग्ने नयेत्यादि नत्वतिग्राह्याः । पूर्ववद्रशनोपावहरणाग्न्यभिमर्शन लेपनिमर्जनानि । व्यूढे ऐन्द्रवायवाग्रः । समूढे शुक्राग्रः । सदसि बहिष्पवमानम् । अग्निष्ठस्योत्तरतस्तृतीये शिल्पो वैश्वदेवः पशुः । उपशयनिर्देशः । प्रउगे शाखाच्छेदनम् । बर्हिभ्यां अद्भिरवकावास्ताभिश्च माहेन्द्रस्य स्तोत्रमुपाकरोति । उपाकृतं सामाप्रस्तुतं भवति । अथ तिस्रः सहर्षभाग्रेण सदोपरेण अग्नीध्रमुदीचीरदक्षिणापथेनातियन्ति । अहीने ऋत्विजां दीयन्ते नत्वन्ये दक्षिणाधमाः । अथ प्रस्यावादि । तृतीयसवने पूर्ववदुक्थ्यग्रहणम् । घृतयागे ध्रौवसमाप्तिः । वसतीवरीर्यज्ञायज्ञियं प्रतिगृह्णाति । पूर्ववत् अग्न्यभिमर्शनम् । उत्तमोक्थ्ये उन्नेतः सर्वं राजानमिति प्रैषः । अग्नीदौपयजानित्यादि । अभ्यासातिप्रैषः । विमोकहोमः । पत्नीसंयाजान्ते समिदाधानं च । वसतीवरी परिहरणादि परिस्तरणान्तं पूर्ववत् ।

महारत्रे बुद्ध्वा श्वो भूते त्रयस्त्रिंशमुक्थ्यं रैवतसामानमुपयन्ति । सप्तममहः । तस्य प्रयोगः । अग्ने नयेत्यादि । न्यूङ्खमेतदहर्भवति । न त्वतिग्राह्याः । पूर्ववद्रशनोपावहरणाग्न्यभिमर्शन लेपनिमर्जनानि । व्यूढे शुक्राग्रः । समूढे आग्रयणाग्रः । सदसि बहिष्पवमानम् । अग्निष्ठस्योत्तरतस्तृतीये ऐन्द्रोरुणः पशुः । उपशयनिर्देशः । स्वयमध्वर्युः ऋतुयाजं यजति । स्वयं गृहपतिरित्यादि । सूत्रोक्तप्रकारेणाध्वर्युः गृहपतिश्च यजति । प्रउगे शाखाच्छेदनम् । तस्य प्रचरितं मरुत्वतीयैर्भवति । अगृहीतो माहेन्द्राय प्रतिप्रस्थातोत्तरेण आग्नीध्रमुदीचीं तन्तिं वितत्य तस्यां वत्सां बध्नाति । दक्षिणेन मार्जालीयं मातृ ऋण रुदन्ती बध्वा वा भवति । ततो माहेन्द्रो गृह्यते । बर्हिर्भ्यां अद्भिर्दूर्वावास्ताभिश्च माहेन्द्रस्य स्तोत्रमुपाकरोति । उपाकृतं सोमाप्रस्तुतं भवति । अथैनान् वत्सान् मातृभिः संसृज्य सान्दाशिनं कुर्वन्ति । यजमानपरिचारका घोषं कुर्वन्तीन्तीत्यर्थः । ता अग्रेण सदोऽपरेणाग्नीध्रमुदीरदक्षिणा पथेनाति विचयन्ति । ता ऋत्विग्भ्यो ददति । पुर्ववत्तृतीयसवने उक्थ्यग्रहणम् । घृतयागे ध्रौवसमाप्तिः । वसतीवरीर्यज्ञायज्ञियं प्रतिगृह्णाति । पूर्ववत् अग्न्यभिमर्शनाभ्यासात् प्रैषविमोकाः । उक्थ्योत्तमे उन्नेतः सर्वं राजानमिति प्रैषः । अग्नीदौपयजानित्यादि । अभ्यासातिप्रैषः । विमोकहोमः । पत्नीसंयाजान्ते समिदाधानं च । सन्तिष्ठते पृष्ठ्याः षडहः । वसतीवरी परिहरणादि परिस्तरणान्तं पूर्ववत् । ततः त्रीन् छन्दोमानुक्थ्यानन्वहमुपयन्ति ।

महारात्रे बुद्ध्वा छन्दोमानां प्रथमं चतुर्विंशं उक्थ्यं अष्टममहः । तस्य प्रयोगः । अग्ने नयेत्यादि । न त्वतिग्राह्याः । व्यूढे शुक्राग्रः । समूढे ऐन्द्रवायवाग्रः । सदसि बहिष्पवमानम् । अग्निष्ठस्योत्तरतः चतुर्थे मारुतः कल्माषः पशुः । उपशयनिर्देशः । प्रउगे शाखाच्छेदनम् । न पृष्ठ्यधर्माः । अहीनसन्ततयः । रात्रौ वसतीवरीपरिहरणादि परिस्तरणान्तम् ।

महारात्रे बुद्ध्वा छन्दोमानां द्वितीयं चतुश्चत्वारिंशं उक्थ्यं नवममहः । तस्य प्रयोगः । अग्ने नयेत्यादि सर्वंपूर्ववत् । व्यूढे आग्रयणाग्रः । समूढे शुक्राग्रः । सदसि बहिष्पवमानम् । अग्निष्ठस्य दक्षिणतः चतुर्थे ऐन्द्राग्नः संहितः पशुः । उपशयनिर्देशः । प्रउगे शाखाच्छेदनाद्यहीनसन्ततयः । रात्रौ वसतीवरीपरिहरणादि परिस्तरणान्तम् ।

महारात्रे बुद्ध्वा छन्दोमानां तृतीयं अष्टाचत्वारिंशं उक्थ्यं दशममहः । तस्य प्रयोगः । अग्ने नयेत्यादि सर्वंपूर्ववत् । व्यूढे ऐन्द्रवायवाग्रः । समूढे आग्रयणाग्रः । सदसि बहिष्पवमानम् । अग्निष्ठप्रभृत्युत्तरतः षष्ठे अधोरामस्सावित्रः पशुः । अपरे कृष्णः । उपशयनिर्देशः । प्रउगे शाखाच्छेदनाद्यहीनसन्ततयः । रात्रौ वसतीवरीपरिहरणादि परिस्तरणान्तम् ।

वृष्णि छन्दोमैरेतदविवाक्यं दशममहः । प्रायणीयायाप्रभृति त्वेकादशममहः । महारत्रे बुद्ध्वा श्वो भूते चतुर्विंशमग्निष्टोमं रथन्तरसामानमुपयन्ति । एतद्दशमममहः । त्रयस्त्रिंसमनिष्टोमसाम । अग्ने नयेत्यादि । त्रयोतिग्राह्याः । उपावहरणाभिमर्शनहोमांश्च करोति । सोममाने पृश्ञिप्राणग्रहैर्मानम् । ऐन्द्रवायवाग्रः । अग्निष्ठप्रभृति दक्षिनतः षष्ठेन वारुणः पेत्वः पशुः । दक्षिणतः उदञ्चं सर्वत्र । अग्नेयप्रभृति पशूनामुपाकरणं कृत्वा । उपशयनिर्देशः । वरुणाय पेत्वस्य वपाया मेदसः इति प्रैषः । प्रउगे शाखाच्छेदनम् । तृतीयसवनमारभ्य पूर्ववदहीनसन्ततयः । पत्नीसंयाजान्तं द्वयोरेतदहः । समिध आहरन्ति । नित्यां औदुम्बरीश्चाभ्यादधाति । उत्तरेणाहवनीयं औदुम्बरीरुपसादयति । अथ समन्वारब्धे गार्हपत्ये जुहोति । असूर्या (अमूर्या) उपसूर्ये याभिर्वा सूर्यः सह । तानो हिन्वन्त्वध्वरम् । इह रातिरिहरन्तिरिहरमतिरिहरमध्वमिह वो रमतिः स्वाहा । उपसृजन् धरुणं मात्रे मातरा धरुणो धयन्न् । इह पुष्टिं पुष्टिपतिर्नियच्छतु रायस्पोषमिषमूर्जमस्मासु दीधरत् इत्येताभ्याम् । अथाहवनीयं गत्वा यꣳ्सहस्रमानव इत्युपतिष्ठन्ते । ततः प्राजापत्याया मनोग्रहाय सम्प्रसर्पन्ति । सृप्तेषूपांशुपात्रेण गृह्णाति । आ न यात्वेति मन्त्रेण आकाशस्यैकदेशं गृह्णाति । मनसा स्तोत्रोपाकरणं प्रस्तावः । अविवाक्ये मनसा तिसॄणां सर्पराज्ञीनामर्धर्चशः प्रतिगृह्णाति । ओमिति दशहोतुः वाक्ये वाक्ये प्रतिगरः । अथेति चतुर्होतुः वाक्ये वाक्ये । ओमिति पञ्चहोतुर्वाक्ये वाक्ये । तथेति षड्ढोतुर्वाक्ये वाक्ये । अरात्स्म होतुरिति सप्तहोतुर्वाक्ये वाक्ये । अग्रेणाहवनीयं गत्वा प्रतिगरं प्रायश्चित्तं कृत्वा मनसा आश्रावणादि । कर्तारः उक्थशा यजाकाशानामिति प्रैषः । मनसा हुत्वा हरति भक्षम् । ते यत्समीक्षन्ते स समुपहवः । भक्षेहीत्यादि । नृचक्षसं त्वा देवाकाश सचक्षा अवख्येषं समीक्षते वोपहवः वाग्जुषाणा आकाशस्य तृप्यतु इति मनसा भक्षयति । हिन्व मे गात्रा हरिव इत्यादि । प्रजापतेरादानं प्रजापतिरपि वादान्मन्त्रानधीयते । यदरण्यानि प्रजापतेरित्यादि । भूर्भुवस्सुप्रजा इत्यादि । चतुर्होतॄन् व्याख्याय द्वारौ संवृत्य इह धृतिरिति । औदुम्बरी परिष्वज्य उदरैरुपस्पृशन्ते । वाग्यतास्तिष्ठन्ति । अधिवृक्षसूर्ये प्राञ्चस्समन्वारब्धाः सर्पन्ति । युवं त्वमिन्दापर्वतेत्येतया । उत्तरेण हविर्धानं दक्षिणैर्हस्तैः कटान्स्तेजनीर्वा सेवमानाः प्राञ्चो गत्वा पञ्च वचांसि व्याहरन्ति । वाग्वागैत्वित्यादि । भूर्भुवरह्ना रात्रिं ध्यात्वा अधिवृक्षसूर्ये सुब्रह्मण्याया वाचं विसृज्य औदुम्बरीः समिध आदहाति । सन्तिष्ठते दशममहः ।

उत्तरस्मा अह्नि वसतीवरीपरिहरणादि परिस्तरणान्तम् । महारात्रे बुद्ध्वा प्रायणीयातिरात्रवत् उदयनीयातिरात्रो द्वादशममहः । अग्ने नयेत्यादि । त्रयोतिग्राह्याः । षोडशिपात्रं च प्रतुनक्ति । सोमं सर्वमुपावहरति । अग्निं युनज्मीत्यदि तिसृभिरग्निमभिमृशति । प्रातर्यावभ्य इत्यादि यमग्ने पृत्सु मर्त्यमिति यजुर्वदनमेव । उपांश्वभिषवकाले पृश्निप्राणग्रहैर्मानम् । ऐन्द्रवायवाग्रः । ध्रुवं गृहीत्वा । षोडशिनो ग्रहणम् । आग्नेयं कृष्णग्रीवमग्निष्ठ उपाकरोति । उपशये आखुस्ते पशुरिति निर्देशः । नोत्तरस्मा अह्नि अहीनसन्ततयः । काले दक्षिणां ददाति । चात्वाले कृष्णविषाणप्रासनम् । मरुत्वतीयप्रचारादि । तृतीयसवन उक्थ्यं गृह्णाति । नात्र ध्रौवसमाप्तिः । न वसतीवरीग्रहणम् । नमस्ते अस्तु मा मा हिꣳ्सीरित्यग्निमभिमृशति । उक्थ्यप्रचारादि सर्वमतिरात्रवत् । नाभ्यासः । अग्नीदौपयजानित्यादि । अनूबन्ध्यास्थाने आमिक्षा चेत् अग्निष्ठस्य स्वरुहीमः । अत्र सख्यविसर्गः । पत्नीसंयाजादि एकादशसमिष्टयजूंषि जुहोति । शुचः स्थ इत्यादि शूलानुद्वासयति । समिदाधानान्तम् । अग्निना देवेनेत्यादि तृतीयसवनाहुत्यन्तम् । पुनरग्निना देवेनेत्यादि हरस्वी भूयासमित्यन्तम् ।

अवभृथस्य तन्त्रं प्रक्रमयति । या जाता ओषधय इत्यदि । इष्टकाभिः सहावभृथं गच्छति । ममाग्ने वर्च इति पञ्च । अव ते हेड उदुत्तमं तत्त्वायामीति तिस्रः । एवमष्टावुपधाय । तास्ववभृथं प्रचरन्ति । सूर्यो वः पुरस्तात्पात्वित्यादि । प्रायणीयवदुदयनीयेत्यादि शंयुवाकान्तं पूर्ववत् । ततोऽनूबन्ध्याः स्थाने मैत्रावरुणीमामिक्षां करोति । तामनु देविकाहवींषि निर्वपति । दक्षिणे वेद्यन्ते केशश्मश्रुवपनम् ।

अथ पात्नीवतस्य कर्म । अथ वेदिकरणम् । त्वया वेदिं, देवस्य त्वेत्यादि धा असीत्यन्तं । भूमिर्भूत्वा । न विपरीतपरिग्रहः । मनुष्वत्त्वा । द्वादशगृहीतेन सप्त ते अग्ने । अग्निर्यजुर्भिरित्यादि । बर्हिराहरणादि देवंगममसीत्यन्तम् । या जाता इत्यादि । यतृष्णो रूपं कृत्वा — ततस्त्वां द्वाविꣳ्शतिधा — त्रीन्परिधीन् द्वे समिधौ यज्ञायुरनु सञ्चरान् — सुसम्भृता । न त्वया वेदिम् । अलङ्कृत्य परिस्तरणम् । कर्मणे वाम् । स्फ्यमग्निहोत्रहवणीमपरतः । पुरतः स्रुवं जुहूं उपभृतं ध्रुवां वेदं आज्यस्थालीमुपवेषम् ।

दण्डेन सार्धं रशने प्रयोज्या दर्भौ प्रयोज्या शकलेन सार्धम् ।

यूपेन सार्धं तु यवाः प्रयोज्या ।

पवित्रे कृत्वा यजमान वाचं यच्छ । संविशन्ताम् । अग्निꣳ् होतारम् । कस्त्वा युनक्ति । पात्राणि प्रोक्ष्य ब्रह्मन् उत्तरमित्यादि ऋतश्रीरसीयन्तम् । पत्नीवर्जं सम्प्रैषः । चतुर्जुह्वां गृह्णाति । चतुरुपभृति । चतुर्ध्रुवायाम् । विष्णूनि स्थ इत्यन्तं अग्रेण शालामुखीयं पात्नीवतं मिनोति । देवस्य त्वा । परिलिखितम् । यत्ते शिक्वः । पृथिव्यै त्वेत्यादि । शुन्धतां लोकः पितृषदनः । यवोऽसि न पितृणाꣳ् सदनमसि । अनवस्तीर्णे अचलमिति वचनात् । घृतेन द्यावपृथिवी आपृणेथाꣲ् स्वाहा ।