०६ ऋत्विग्वरणम्

यजमानः अस्मिन् ज्योतिष्टोमेऽग्निष्टोमे सोमे अध्वर्युं त्वां वृणीमहे । वृतोऽस्मि करिष्यामीत्यध्वर्युः । एवं ब्रह्माणं होतारं उद्गातारं च वृणीते । तान् वृणिते चतुरस्सर्वान् वा । यजमानः :- अग्निर्मे होता [उपांशु] अमुकशर्मा मानुषः [उच्चैः] इति होतारम् । आदित्यो मेऽध्वर्युः [उपांशु] अमुकशर्मा मानुषः [उच्चैः] इत्यध्वर्युम् । चन्द्रमा मे ब्रह्मा [उपांशु] अमुकशर्मा मानुषः [उच्चैः] ब्रह्माणम् । पर्जन्यो म उद्गाता [उपांशु] अमुकशर्मा मानुषः [उच्चैः] इत्युद्गातारम् । चतुर्णां वरणपक्षे मन्त्रवरणेन अवृता एवेतरे स्वस्वकर्मभ्यः पुरस्तादमुकं त्वामहं वृणे अमुकं त्वामहं वृणे इति वृताः कर्म कुर्वन्ति

सर्ववरणपक्षे

आकाशो मे सदस्यः [उपांशु] अमुकशर्मा मानुषः [उच्चैः] इति सदस्यपक्षे । आपो मे होत्राशंसिनः [उपांशु] अमुकशर्माणो मानुषाः [उच्चैः] इति सप्तहोत्रकान् युगपद्वृणीते । रश्मयो मे चमसाध्वर्यवः [उपांशु] अमुकशर्माणो मानुषाः [उच्चैः] इति दश चमसाध्वर्यून् युगपद्वृणीते । ततः प्रतिप्रस्थातृप्रस्तोतृप्रतिहर्तृग्रावस्तोत्रुन्नेतृसुब्रह्मण्यान् वृणीते । ततो मन्त्रवरणक्रमेण तेभ्यो मधुपर्कं ददाति । स्वस्वगृह्योक्तेन विधिना । प्रथमं होत्रे होतृवदुद्गातुश्च । सर्वेभ्यो मधुपर्कं दत्वा १।