०६ एकधनघटेषु अप्ग्रहणम्

अध्वर्युः - यत्राभिजानात्यभूदुषा रुशत्पशुरिति तत्प्रचरण्या जुहोति शृणोत्वग्निस्समिधा हवं मे शृण्वन्त्वापो धिषणाश्च देवीः । शृणोत ग्रावाणो विदुषो नु यज्ञꣳ शृणोतु देवस्सविता हवं मे स्वाहा । अग्न्यप्ग्रावसवितृभ्य इदम् । अपरं चतुर्गृहीतं गृहीत्वा संप्रेष्यति । अप इष्य होतर्मैत्रावरुणस्य चमसाध्वर्यवाद्रवैकधनिन आद्रवत नेष्टः पत्नीमुदानयोन्नेतर्होतृचमसेन वसतीवरीभिश्चात्वालं प्रत्यास्व