२९ वासोदक--पिण्ड-बलि--प्रदानम्

उपवीती प्राणानायम्य प्राचीनावीती - गोत्रस्य अद्य - अहनि दहन जनित + प्रेत तृप्त्यर्थं गृहद्वार कुण्डे वासोदक पिण्डबलि प्रदानं करिष्ये । पूर्ववत् वासोदक त्रयं कुर्यात्। कुण्डस्य पुरतः दक्षिणाग्रं दर्भं निधाय, “मार्जयतां मम पिता प्रेतः, " इति दर्भेतिलोदकं निनयेत् । पक्वादन्ना दश्वखुरप्रमाणं पिण्डं अङ्गुष्ठ पर्व मात्रं बलिञ्च सज्जीकृत्य गोत्रस्य + अहनि दहन + तृप्त्यर्थं गोत्राय शर्मणे पित्रे प्रेताय प्रातरेतं - पिण्डं ददामि । इति पितृतीर्थेन पिण्डं दद्यात् तस्य दक्षिणतः सायमेतं बलिं ददामि इति बलिं दद्यात् । “दधि ददामि”, “घृतं ददामि”, “गुलं ददामि’’ इति तत्तद्वस्तु पिण्डस्योपरि निदध्यात् । दाहोप शमानार्थं नालिकेरोदकं ददामि, इति नालिकेरोदकं कुण्डे दद्यात् । उत्थाय… गोत्र शर्मन् … पितः प्रेत (… गोत्रे नाम्नि मात:, प्रेते) अमूनि वासोदक पिण्ड बलि प्रदानानि उपतिष्ठ, दधिघृत गुल, प्रदानानि, उपतिष्ठ, नालिकेरोदकं, उपतिष्ठ, उपविश्य किञ्चित्किञ्चिज्जलं अत्रस्नाहि, जलं पिब, शीतो भव, तृप्तो भव (शीता भव, तृप्ता भव) इति दद्यात् । हविः पात्रे तिलोदक मादाय, “मार्जयतां मम पिता प्रेत:” (मार्जायतां मम माता प्रेता) इति तिलोदक युक्त हविः पात्रेण पिण्डं अप्रदक्षिणं परिषिच्य दक्षिणत: अघोबिलं यथाभवति तथा कुर्यात् । उपवीती हविः पात्र मुत्तानं कृत्वा प्रोक्षेत् । वासोदकार्थ वस्त्रे पिण्डं बलिञ्चादायान्यत्रस्थापयेत् । सात्विकत्यागः । " … ( ( … - …

54

दहनदिन कृत्यं