०३ सिंहावलोकनम् - उपदशाहम्

संस्कर्तृ-क्रमः

अथ संस्कर्तृक्रमः।

पुत्रः, स-पत्नी-पुत्रः, पुत्रिका-पुत्रः, दत्तः,
पौत्रः, धनहारी, दौहित्रः, पत्नी, पतिः,
दुहिता, भ्राता, तत्-पुत्रः,
असोदर-भ्राता, तत्पुत्रः,
पिता, माता, स्नुषा,
धात्री, दौहित्री, पौत्रस्य पत्नी, तत्पुत्री,
दत्तस्य पत्नी, भगिनी, भागिनेयः,
सपिण्डः, सोदकः, मातृ-सपिण्डः, सगोत्रः, शिष्यः,
ऋत्विक्, भृत्यः, गुरुः, आचार्यः,
सहाध्यायी, जामाता, सखा, राजा
इति पूर्व-पूर्वाभावे परः परः कर्ता ।

[[2]]

क्रिया-विभागः - संस्कर्तृ-दृष्ट्या

दाहाद्य्-एकोद्दिष्टान्ताः पूर्वा क्रियाः ,
तद्-उत्तराः सापिण्ड्यान्ताः,
तद्-ऊर्ध्व उत्तराः

पुत्रादिः विविधाः क्रियाः कुर्यात्,
पित्रादिः पूर्वा मध्यमाश् च कुर्यात् नोत्तराः ।

मुख्य-कर्तुः अशक्तिश् चेत्
प्रधान(भावं)मन्त्रं स्वयं कुर्यात् ,
अन्यत्-सर्वं दर्भ-प्रदान-पूर्वकम्
अन्येन प्रत्यासन्नेन कारयेत् ।

पुत्राणां बहुत्वे शीलवृत्तादि-गुणवान् कुर्यात् ।
सर्वेषां गुणसाम्येऽपि
पितुः प्रियः कुर्यात् ।
सर्वेषां प्रियत्वे - ज्येष्ठः कुर्यात् ।
सर्वेषाम् अप्रियत्वे ऽन्यः कुर्यात् ।+++(5)+++
दत्तौरसयोः मध्ये कनिष्ठो ऽप्यौरसः कुर्यात् ।

प्रथम-वर्ष-कृत-चौलः
त्रिवर्षोऽपि अकृत-चौलो वा
पित्रोः मन्त्रवत् और्ध्वदेहिकं कुर्यात् ।
तत्पूर्वम् अन्येन कारयेत् ।

भर्तुः पत्नी सर्वं समन्त्रकं कुर्यात् ।
तयोः +++(बाल-पत्न्योः)+++ मन्त्रोच्चारणाशक्तौ
प्रधान-व्यतिरिक्तं सर्वं
दर्भं गृहीत्वा अन्यः कुर्यात् ।
प्रधानं स-मन्त्रकं ताभ्याम् एव कारयेत् ।

पत्न्यां रजस्वलायाम्
अमन्त्रकम् अन्यः संस्कुर्यात् ।

चतुर्थे पञ्चमे वा दिने
सा पुनः संस्कुर्यात् ।
यद् वा तदानीम् एव उद्धृत-तोयेन स्नात्वा
प्राजापत्य-कृच्छ्रं तीर्थ-कृच्छ्रं वारुण-कृच्छ्र-पूर्वकं
दर्भं प्रदाय अन्येन कारयेत् ।

अधर्म-विवाहोढा स्त्री
भर्तुर् अमन्त्रकं सर्वं कुर्यात् ।+++(4)+++

[[3]]

विवाहमध्ये यज्ञमध्ये च पित्रोर् मरणे


विवाहमध्ये यज्ञमध्ये च पित्रोः मरणे
संस्कारं कृत्वा
विवाह-यज्ञान्ते सञ्चयनादि सर्वं कुर्यात् ।

इति प्रयोगदर्पणे अष्टमः खण्डः

क्रिया-विभागः - संस्कार्य-दृष्ट्या


अथ अनुपनीतानाम् ऊढानां च संस्कारः ।

अल्पवयस्कानां खननम्

जन्म-मासम् आरभ्य सौरमानेन त्रयो-विंशति-मासेषु कन्या-बालयोः मरणे
प्रेतं संस्नाप्य
वस्त्रगन्धादिभिः अलङ्कृत्य
गो-घृतेन अभ्यज्य,
ग्रामाद् बहिः श्मशानाद् अन्यत्र अस्थिर-हितायां भूम्याम् अवटं खात्वा,
तत्र दक्षिणाग्रान् दर्भान् संस्तीर्य
यम-गाथां ‘योऽस्य कौष्ठ्य’ ‘यमं गाय’ इति वाक्य-चतुष्टयं यम-सूक्तं
‘परेयुवांसम्’ इत्य्-आदि-द्वा-त्रिंशद्-वाक्यं द्वा-दश-वाक्यं वा
जपद्भिः ज्ञातिभिः सह स्वयं जपन्
अवटेषु दर्भेषु
दक्षिणा शिरसं प्रणवेन शाययित्वा
मृद्भिः प्रच्छादयेत् ।

मृतजाते प्रणव-वर्जं निखनेत् ।

[[11]]

तृतीयवर्षम् आरभ्य उपनयनात् अर्वाक्

तृतीयवर्षम् आरभ्य उपनयनात् अर्वाक्
तयोः मरणे श्मशान-देश-संमार्जनं हिरण्य-शकल-निधानं च अमन्त्रकं कृत्वा
‘यमङ्गाययमसूक्तजपसहितम्’ ‘अस्मात्त्वम् अधिजातोऽसि अयं त्वत्’ इति मन्त्रेण संस्कृत्य
ग्रामाद् बहिः भूमाव् एव प्रथमदिवसे द्वादश तिलोदकाञ्जलीन् त्रीन् पिण्डान्,
द्वितीये त्रिंशत्तिलोदकाञ्जलीन् चतुरः पिण्डान्,
तृतीये त्रयस्त्रिंशत् तिलोदकाञ्जलीन् त्रीन् पिण्डांश् च दद्यात् ।

बालानां दाहाद्य्-उदक-पिण्ड-दानम् ।
… त्रयो-विंशति-मासेष्व् अपि कृत-चूडस्य दाह एव संस्कारः ।

… पञ्चम-वर्षम् आरभ्य अस्थि-सञ्चयनं कुर्यात् ।
तृतीये दिवसे क्षीरेण जलेन च अस्थिसेचनम्
अस्थीनाम् आदानं, कुम्भनिधानं च +अमन्त्रकं कृत्वा
अस्थिकुम्भं क्षीरेण पूरयित्वा,
‘इदं त एकम्’ इति मन्त्रेण निरवनेत् ।

षष्ठ-वर्ष-प्रभृति-नग्न-प्रच्छादन–एकोत्तरवृद्धि–नवश्राद्धादि, एकोद्दिष्टश्राद्धानि च अमन्त्रकं कुर्यात् ।

नवमाब्दादि पाषाण-स्थापनं षोडश-श्राद्धानि च कुर्यात् ।

त्रयोदशाब्दादि-सोद-कुम्भ-श्राद्धानि स-पिण्डी-करणं च ।

गृहस्थस्य अष्टमाब्दादि स-पिण्डी-करणं कुर्यात् ।

उपनीतस्य विधिवत्
पितृ-मेधादि-स-पिण्डी-करणान्तं मन्त्रवत् कुर्यात् ।

[[12]]

तथैव ऊढाया+++(=विवाहिता, किन्तु पतिगृहं न प्रेषिता??)+++ मरणे,
तां खनित्वा यामाद् ऊर्ध्वम् उत्थाप्य
विधिवत् पितृ-मेधादि–स-पिण्डीकरणान्तं मन्त्रवत् कुर्यात् ।

त्रिवर्षाद् ऊर्ध्वम् अनुपनीतानूढयोः मरणे
द्वादशाहे नारायण-बलिं कुर्यात् ।
तत्-पूर्वम् अपि कुर्याद् इत्य् एके ।

ब्रह्म-मेध–पितृ-मेधयोः

… देवतान्तर-भजन-रहितानां भगवत्-प्रपन्नानां ब्रह्म-विदाम् एव ब्रह्म-मेधः ।
एतेषाम् अन्येषाम् अपि पितृ-मेधः ।
आरण्यक-तृतीय-चतुर्थ-प्रश्नौ ब्रह्म-मेध–पितृ-मेधौ ।
पितृ-मेध-मन्त्रैः ब्रह्म-मेध-मन्त्रैश् च क्रियमाणो ब्रह्म-मेधः ।
पितृ-मेधमन्त्रैर् एव यः क्रियते
स पितृमेधः ।

ब्रह्म-मेधेऽपि संवेशनादिषु केषुचित् कर्मसु
न ब्रह्ममेधमन्त्राः ।
पितृ-मेध-मन्त्रैर् एव तानि कर्माणि क्रियन्ते ।

सह-मरणे

… दम्पत्योः अन्यतर-दहनात्-पूर्वं श्मशानाग्नि-नाशाद् वा? (खात्वा?) अन्यतर-मरणे, अनुगमने च
चरु-चिति-कुण्ड-सञ्चयन-प्रदक्षिण-नमस्कारोपस्थान-शान्तिहोम–मासिकाब्दिकानि सहैव ।

तिथि-भेदे मासिकाब्दिकानि पृथग् एव
हस्त-संमार्जन–हिरण्य-शकल-निधान–
नग्न-प्रच्छादन–पाषाण-वास-उदक-तिलोदक-पिण्डैकोत्तर-वृद्धि–नव-श्राद्ध–
वृषोत्सर्जन-षोडश-सोदकुम्भ-श्राद्धानि पृथक् ।
एकोद्दिष्टे सपिण्डी-करणे च प्रेत-होमार्घ्य-निमित्त-वरण-पिण्डाः पृथक्
एतयोर् मासिकादिषु च
पाक-होम–विश्वे-देव–विष्णु-वरण–पिण्ड-प्रदानादि सहैव ।

[[22]]

पितृ-मातृ-पत्नी-पुत्र-पौत्र-भ्रातृ–तत्-पुत्र–स्नुषा-स्वसृणां मध्ये
द्वयोर् बहूनां वा एकस्मिन् दिने मरणे
पित्राद्य् उक्त-क्रमेण संस्कारादि-क्रियाः कृत्वा
पितुः द्वादश-दिने,
मातुः त्रयोदश-दिने
पत्न्यादीनां त्रिपक्षेषु सपिण्डी-करणं कुर्यात् ।
एतेभ्यः अन्येषां मरणे क्रमेण ।

पित्रादीनाम् अन्येषां च एक-दिन-मरणे
पित्रादीनां पूर्वोक्त-क्रमेण सपिण्डी-करणं कृत्वा
तद्-अन्येषां वत्सरान्ते मासिकैः सह
स-पिण्डी-करणं कुर्यात् ।

पितुर् आशौच-मध्ये मातृ-मरणे

पितुः आशौच-मध्ये मातृ-मरणे
त्रिपक्षे पृथग्-दिने
पितृपूर्वं सपिण्डी-करणं कुर्यात् ।
मातुः आशौच-मध्ये
…??

अपपात्राणि


पाषण्ड्य्-अनाश्रमि-क्लीब-कुण्ड-गोलक–व्रात्य-विधर्म–गर्भ-हन्तृ–आत्म-घातिनां
चण्डालादिभिर् बुद्धि-पूर्वं हतानां च
उदक-दानम् अपि न कुर्यात् ।
एते चोदकम् अपि न दद्युः ।

परिभाषा


अथ परिभाषा

सर्वत्र प्रेतकर्मणि स्नात्वा
आर्द्रैकवस्त्रः धृतोर्ध्वपुण्ड्रः बद्धशिखः
पादौ प्रक्षाल्य, द्विः आचम्य, पवित्रपाणिः,
ब्राह्मणैः अनुज्ञातः, दर्भेषु उपविश्य,
भगवन्तं ध्यात्वा,
त्रिः प्राणान् आयम्य,
हरिर् ओम् इत्य् उपक्रम्य गोविन्देति त्रिः सङ्कीर्त्य,
दक्षिणजानु-स्थस्य उत्तानस्य सव्यस्य पाणेः तर्जन्यङ्गुष्ठयोः मध्ये
अवाचीनस्य दक्षिणस्य पाणेः अङगुष्ठरहिताः चतस्रः अङ्गुलीः न्यस्य,
दक्षिणाङ्गुष्ठेन सव्याङगुष्ठं परिवेष्ट्य,

अद्येत्यस्यां तिथौ इत्यन्ते भगवदाज्ञया भगवत्प्रीत्यर्थं भगवत्कैङ्कर्यरूपम् एतत्कर्म करिष्ये,

[[13]]

इति करिष्यमाणं कर्म सङ्कल्प्य,
स्व-शेष-भूतेनेति श्लोकम् अनुसन्धाय,
तत्-तत्-कर्म कृत्वा
अन्ते च पूर्वोक्त-श्लोकानुसन्धान-पूर्वकं तत्-तत्-कर्म समाप्य
भगवदर्पणं कुर्यात् ।

आद्यन्तयोः महदनुग्रहं कारयेत् ।

उत्क्रमणादि-श्राद्धान्तं प्राचीनावीतम्
आचमन-प्राणायाम-प्रदक्षिणानुव्रजन-नमस्कार-शान्ति-होमेभ्यः अन्यत्र,
दक्षिणाग्रैः अयुग्मैः दर्भैः दक्षिणाभि-मुखः पितृ-तीर्थेन सर्वं कुर्यात् ।
सङ्कल्पावाहनादौ तत्-तल्-लिङ्ग–तत्-तद्-विभक्तिकं गोत्रं नाम च कीर्तयेत् ।

ज्ञातीनां मध्ये सर्वं कनिष्ठपूर्वं, ततो ज्येष्ठानुक्रमम् । ज्येष्ठो वा कनिष्ठो वा कर्ता सर्वेषां पश्चात् इति सर्वत्र कनिष्ठपूर्वक्रमः ।

गोत्रनामापरिज्ञाने

गोत्रापरिज्ञाने काश्यपगोत्रं - नामापरिज्ञाने पृथिविषदन्तरिक्षसद्दिविषत् इति पितृपितामहप्रपितामहानां क्रमेण नामानि ब्रूयात् ।

[[14]]

स्वसूत्राभावविषय

पित्रादेः स्व-सूत्रेण प्रेत-क्रियाः कुर्यात् ।
मातामहादेस् तु तत्-तत्-सूत्रेण ।
तत्-तत्-सूत्राभावे तत्-तच्-छ्वशुर-सूत्रेण ।
तद्-अभावे बोधायन-सूत्रेण ।
सर्वाभावे येन केनचित् सूत्रेण कुर्यात् ।

येन सूत्रेण दाहः कृतः
तेनैव श्राद्धान्ताः क्रियाः कुर्यात् ।
स्व-सूत्र-विद्-अभावे ऽपि एवम् एव ।
सर्वेषां स्व-सूत्रेण सपिण्डी-करणं कार्यम् ।

नक्षत्रादि-वर्जनम्

… प्रतिपत्-षष्ठ्य्–एकादश्यो नन्दाः
द्वितीया-सप्तमी-द्वादश्यो भद्राः,
पञ्चमी-दशमी-पञ्चदश्यः पूर्णाः
+++(जन्मनक्षत्र, तस्माद्दशम, एकोनविंशाः जन्म अनुजन्म त्रिजन्मेत्युच्यन्ते ।)+++

… कृत्तिका-रोहिण्य्-आर्द्राऽऽश्रेषा–पूर्व-त्रयोत्तरत्रय-
ज्येष्ठा-मूल–रेवती–त्रि-पाद–नक्षत्राणि
शुभ-गृहाधिष्ठितं जन्म-त्रयं नन्दा-भद्रा–चतुर्-दशी–गुरु-शुक्र-वासरौ शुभ-योगं च
अतीत-प्रेत-कार्ये (वर्जयेत् ।)
सोम-बुध-वासरौ मध्यमौ ।
सङ्कटे भरणी ज्येष्ठा च ग्राह्या ।

भानु-भौम-गुरु-शुक्र-शनि-वासरेषु,
नन्दासु पूर्णासु,
पूर्व-त्रयोत्तर-त्रय–पुष्य-हस्त-चित्रासु, त्रिजन्मसु च सञ्चयनं वर्जयेत् ।
तत्-काले नात्यन्तं शोधयेत् ।
कालातिक्रमे सम्यक् विशोधयेत् ।

निर्दोष-दिनाभावे भद्रे भूमिं,
त्रि-पाद-नक्षत्रे हिरण्यम्,
अङ्गारके ऽनड्वाहं, गुरौ वस्त्रं,
शुक्रे रजतं च दत्वा
क(अ)ल्प-दोषे गुणाधिके दिने
ब्राह्मणान् अनुज्ञाप्य
कर्म कुर्यात् ।

… सर्वेषु कर्मसु निर्दिष्टकालासम्भवे
स्वल्प-दोषे गुणाधिके काले
ब्राह्मणान् अनुज्ञाप्य कर्म कुर्यात् ।

वपनम्

+++(आब्दिक-केशधारणनियमा अन्यत्रोच्यन्ते। )+++

गर्भदीक्षदौ पितृ-मरणे

गर्भ-दीक्षा-मध्ये माता-पित्रोः मरणे
मातृ-पितृ-दीक्षा-मध्ये पत्न्याः प्रसवे च वापयेत् ।
तच्-छेषं केशान् धारयेच् च ।
स-पिण्डी-करणात् पूर्वं न वापयेद् इत्य् एके ।

त्रि-पक्षादिषु कालेषु स-पिण्डी-करणे
गर्भ-दीक्षा-भावे तत्-पूर्वं शुभदिने वापयेत् ।

[[32]]

माता-पित्रोर् मरणाब्दे
पत्न्यां गर्भिण्यां चाहिताग्नेः न केश-धारणम् इत्य् एके ।

विवाह-दीक्षा-मध्ये माता-पित्रोर् मरणे वपनं कुर्यात्,
न तद्-अन्य-मरणे ।

ज्ञाति-मरणम्

… ज्येष्ठानां ज्ञातीनां तत्-पत्नीनां च मरणे
कनिष्ठैः वपनं कार्यम् ।
अ-सन्निधाने नेत्येके !+++(5)+++

दशाहातिक्रमे पितृ-मास-चतुष्टये न कार्यम् इत्य् अन्ये ।

ज्येष्ठानां
भ्रातृ-पितृव्य-मातुल-श्वशुराचार्य–
मातृ-ष्वसृ–पितृ-ष्वसृ–भगिनी–सपत्नी-मातॄणां
मातामहस्य च ज्येष्ठानां तत्पत्नीनां च मरणे
अन्तर्वान्+++(=गर्भिणीपतिर्)+++ न तत्-प्रतियोगी वापयेत् ।

अन्तर्वान् अपि
संस्कर्ता चेद् वापयेत् ।

पत्नी-मरणात् परं
तत्-पित्रोः मरणे न वपनम् ।

[[33]]

तस्याः पुत्रः पुत्री वा अस्ति चेद् वापयेत् ।

साधारण-नियमाः

अ-शुभ-नक्षत्रे क्षौरे कृते
पुनः शुभ-नक्षत्रे क्षौरं कारयेत् ।

शिरसि कृकलासे+++(=गोधके)+++ पतिते
दग्धेषु वा केशेषु
पञ्च-गव्येन केशान् प्रक्षाल्य वापयेत् ।

पितापुत्रौ भ्रातरौ च
एकस्मिन् दिने क्षौरं श्राद्ध-भोजनं च न कुर्याताम् ।

यस्मिन् मासे पित्रादीनाम् आब्दिकं मासिकं वा करोति,
तस्मिन् मासे पक्षे वा क्षौरं परान्नं च वर्जयेत् ।

गर्भवान्

गर्भवान् मास-त्रयाद् ऊर्ध्वं
क्षौरं शवानुगमनं शव-निर्हरणं समुद्र-स्नानं श्राद्ध-भोजनं
प्रतिग्रहं दूर-यात्रां गृहारम्भ-प्रवेशौ देवता-प्रतिष्ठां मैथुनं च वर्जयेत् ।
क्षौरे कृते ब्रह्म-हत्या-समो दोष इति विज्ञायते ।

इति प्रयोगदर्पणे सप्तमः खण्डः

ज्येष्ठ-पत्न्यां गर्भिण्यां
कनिष्ठ-पत्न्याः प्रसवे न वपनम् ।
कनिष्ठ-पत्न्यां गर्भिण्यां
ज्येष्ठ-पत्न्याः प्रसवे वपनं कार्यम् ।+++(4)+++

प्रवासात् प्रत्यागतिः

दशाह-मध्ये विदेश-स्थ-पुत्र-कृत्यम्

… विदेश-स्थः पुत्रः
पित्रोर् मरणं श्रुत्वा
दशाह-मध्ये सञ्चयनात् पूर्वम् आगतः
संस्कारादौ अन्येन कृते
अस्थि-संस्कारं, तद्-अभावे प्रतिकृति-संस्कारं वा कृत्वा,

शिरो-मात्र-वपनं कारयित्वा
+++(पुनर्?)+++नग्न-च्छादन–सञ्चयन-
+अतीत-दिन–वास-उदक–तिलोदक–पिण्डैकोत्तर-वृद्धि–नव-श्राद्धानि
तदानीम् एव कृत्वा,
तत्-तद्-दिनेषु तत्-तद्-दिन-कृत्यं कुर्यात्।

सञ्चयनात् परम् आगतश् चेत्
दाह-सञ्चयन-वर्जं पूर्वोक्तवत् सर्वं कुर्यात् ।

कनिष्ठ-पुत्रेण सपत्नी-पुत्रेण वा दाहादिके कृते
सञ्चयनात् पूर्वं परं वा आगतो ज्येष्ठ-पुत्रः
अतीत-दीन-वास-उदक-तिलोदकानि कृत्वा
तात्कालिकानि तत्-तत्-काले कुर्यात् ।

… अ-पुत्रस्य कृत-संस्कारस्य
दशाह-मध्ये सञ्चयनात् पूर्वं परं वा आगतो मुख्यकर्ता
अतीत-दिन-वास-उदक-तिलोदक-पिण्डान् दत्वा
तात्कालिकोदकादीनि तत्-तत्-काले कुर्यात् ।

दशम-दिन-रात्राद्य्-आगत-पुत्र-कृत्यम्

(तत्-पुत्र-व्यतिरिक्त-मुख्य-कर्तर्य् आगते पुनर् दाहः।)

कनिष्ठ-पुत्रेण दशाह-कृत्ये कृते
दशम-दिन-रात्रौ एकादशाहे ऽपराह्णात् पूर्वम् आगतो ज्येष्ठ-पुत्रः
सर्वाङ्ग-वपनं कृत्वा
वृषोत्सर्जनम् एकोद्दिष्टं च कृत्वा
तद्-दिन-प्रभृति-दशाहम् उदक-मात्रं दद्यात् ।

कनिष्ठेन अकृते प्रेत-कृत्ये
पूर्वोक्त-काल आगतो ज्येष्ठपुत्रः
तद्-दिनम् आरभ्य दशम-दिन-पर्यन्तं दशाह-कृत्यं कृत्वा,
एकादशाह एकोद्दिष्टं कुर्यात् ।

[[35]]

अन्येन सपिण्डादिना दशाहान्त-कृत्ये कृते
पूर्वोक्त-काल आगतः पुत्रः
पुनः दहन-वपनाद्य्-एकोद्दिष्टान्तानि
एकादशाहे कुर्यात् ।

… अन्येन दशाहकृत्ये कृते
पूर्वोक्तकाल आगतो मुख्य-कर्ता
वृषोत्सर्गम् एकोद्दिष्टं च कृत्वा
अत्याशौच-विधिना यावत् स्वाशौचम् उदकं दद्यात् ।

अकृते दशाह-कृत्ये
दाहं विना सर्वं तदैव कृत्वा
वृषोत्सर्जनम् एकोद्दिष्टं च कृत्वा
यावत् स्वाशौचम् उदकं दद्यात् ।

एकोद्दिष्टान्ते पुत्रेण अन्येन वा कृते
विदेशस्थः पुत्रः पितृमरणं श्रुत्वा
वपनं कारयित्वा
दशाहम् उदकं दद्यात् ।

सर्वत्र माता-पित्रोः भर्तुश् च मरण-श्रवणे(णं)
पुत्राणां पत्न्याश् च
सञ्चयनात् पूर्वं चेत्
मृताहादि-दशाह-शेष-होम(?)-सञ्चयनात् परं चेत्
श्रवण-दिनादि-दशाहम् आशौचम् ।

पुत्राणाम् अन्येषां च यावत् स्वाशौचम् उदक-दानम् ।+++(5)+++

आशौचे सत्य् अपि
मृताहाद्ये दशाह एव एकोद्दिष्ट-श्राद्धं,
दशाहात् परं श्रवणे +++(तु)+++
श्रवण-दिनाद्य्-एका-दशाह एव।

सापिण्ड्यन् तु सावकाशत्वात् त्रिपक्षादिषु कालेषु कार्यम् ।

दशाह-मध्ये आगतेन
मुख्य-कर्त्रा क्रियमाणेऽपि प्रेत-कृत्ये,
पूर्व-+आरब्ध-प्रेत-कृत्येन संस्कर्त्रापि
यावत् स्वाशौचम् उदक-मात्रं देयम् ।
दौहित्र-समानोदकाभ्याम् आ-दशाहं देयम् ।

आशौचान्ते शुद्ध्य्-अर्थं
ब्राह्मणानां भोजनं च कार्यम् ।+++(4)+++

[[36]]

अपुत्रस्य विषये

अपुत्रस्य सपिण्डस्य अकृत-संस्कारस्य
दशाहात् परं मरण-श्रवणे
पुनर्-दहनं कृत्वा,
यावद् आशौचम् उदकं पिण्डं च दत्वा
आशौचान्त एव एकोद्दिष्टं
परेद्युः सापिण्ड्यं च कुर्यात् ।

कृत-प्रेत-कृत्यस्य तु
उदक-मात्रं दत्वा
आशौचान्ते एकोद्दिष्टं सापिण्ड्यं च कुर्यात् ।

कृतैकोद्दिष्टस्य उदक-दानं सापिण्ड्यं च कुर्यात् ।

वत्सरात्परं चेत्
एकस्मिन् दिने पुनर्-दहनोदक-पिण्डान् समाप्य,
द्वितोयेऽहनि एकोद्दिष्टं
तृतीये सापिण्ड्यं च कुर्यात् ।

दशाहाशौचिनः दौहित्राश् च
दश-रात्रेण त्रं[[??]] क्रियाः कुर्युः ।

त्रि-रात्राशौचिनः पक्षिण्य्-आशौचिनश्च
त्रि-रात्रेण प्रेतक्रियाः कुर्युः ।

त्रि-रात्र-प्रेत-कृत्ये तु

प्रति-दिनं दश वास-उदकानि
क्रमेण द्वादश त्रिंशत् त्रयस्त्रिंशत् तिलोदकानि
त्रीन् चतुरः त्रीन् पिण्डान्
द्वे द्वे एकम् एकं च नव श्राद्धानि

द्वितीयेऽह्नि सञ्चयनं
चतुर्थेऽहनि एकोद्दिष्टं
पञ्चमेऽह्नि सापिण्ड्यं च कुर्यात् ।

दशाहान्ते त्रि-रात्रात् कर्तव्ये+++(=??)+++
अष्टमेऽह्नि चतुर्-विंशति-वास-उदकानि
द्विपञ्चाशत् तिलोदकानि
अष्टौ पिण्डान्
नवमेऽह्नि पञ्च नवश्राद्धानि
अन्यत्सर्वं यथाकालं पूर्वोक्तवत् कुर्यात् ।

अहर्-आशौचिनो बन्धुजनाश् च
द्वितीयेऽह्नि सञ्चयनोदकदानादीनि (समाप्य)
तृतीयेऽह्नि एकोद्दिष्टं
चतुर्थेऽहनि सापिण्ड्यं च कुर्युः ।

अपुत्रस्य ज्येष्ठभ्रातुः देशान्तर-मरण-श्रवणे
षण्मासात् पूर्वं दश-रात्रेण
तत्-परं चेत् त्रि-रात्रेण क्रियाः कुर्यात् ।

[[37]]

सर्वत्र कालातिक्रमे प्रति-मासं कृच्छ्रं कृत्वा
ततः क्रियाः कुर्यात् ।

माता-पितृ-मातामहादिभ्यः (हेभ्यः) अन्येषां
वत्सरात् परं
सञ्चयनं शान्तिहोमं च न कुर्यात् ।

सूतकाशौचिनां नियमः


आशौचिनो द्विवार-भोजनं,
तल्पादि-शयनं,
मैथुनं, क्षार-लवण-तैलाभ्यङ्ग-ताम्बूलानि वर्जयेरन् ।
क्रोतम् अयाचितान्नं भुञ्जीरन् ।

आशौचिनः सूतकिनश् च
दान-प्रतिग्रह–देवालय-प्रवेश–प्रमा(या?)ण–
समित्-पुष्प-दर्भ-जलाहरण–देवताराधनाध्ययनानि वर्जयेरन् ।

पुत्र-जनने नाभि-कृन्तनात् पूर्वं
तस्मिन् दिने वा,
मरण-समये च (?) दानं दद्युः ।

उपरागे च यावन्-मोचनं स्नान-दान-जप-होमादिकं कुर्युः ।

मानसिकं सन्ध्यात्रयं
वाचिकम् अर्घ्य-दानम्
अमन्त्रकं प्राणायामं
दशवारं गायत्रीजपम्
उपस्थानं
प्रेतकर्म च
स्नात्वा आर्द्रवासस एव कुर्युः ।+++(5)+++