भू-सूक्तम्

(“स्वाहा॑ ॥ भूम्या इदं न मम” इति त्यागः।)

०१ गार्हपत्यम् ...{Loading}...
भास्करोक्त-विनियोगः

1अथ पुनराधेयमन्त्राः । तत्र गार्हपत्य आधीयमाने सर्पराज्ञीस्तिस्रोनुवर्तयति - भूमिर्भूम्नेति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

भूमि॑र् भू॒म्ना+++(=बहुत्वेन)+++, द्यौर् व॑रि॒णा+++(=उरुत्वेन)+++,
ऽन्तरि॑ख्षम् महि॒त्वा +++(असि)+++।
+++(पुरा वृषभराशौ खे यथा)+++ उ॒पस्थे॑ ते देव्य् अदिते॒
+++(सूर्यः खे यथा)+++ ऽग्निम् अ॑न्ना॒दम् अ॒न्नाद्या॒या+++(=अन्नाद-हिताय)+++ ऽऽद॑धे

सर्वाष् टीकाः ...{Loading}...
Keith

(Thou art) earth in depth, sky in breadth, atmosphere in greatness;
In thy lap, O goddess Aditi, Agni
I place, food-eater for the eating of food.

मूलम्

भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णाऽन्तरि॑ख्षम्महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ऽग्निम॑न्ना॒दम॒न्नाद्या॒याऽऽद॑धे ॥

भट्टभास्कर-टीका

प्रथमोपरिष्टाद्भृहती, अन्त्यस्य पादस्य द्वादशाक्षरत्वात् । हे देवि अदिते अखाण्डिते भूमे । आहवनीयो भूमित्वेन स्तूयते । भूम्ना बहुत्वेन विपुलत्वेन त्वं भूमिरेवासि । द्यौर् असि त्वं वरिणा उरुत्वेन । ताद्धर्म्यात्ताच्छब्द्यम् । अ[म?]कारलोपश्छान्दसः । अन्तरिक्षमसि माहित्वा माहात्म्येन । व्यञ्जनविपर्ययः । सर्वत्रोदात्तनिवृत्तिस्वरेण तृतीयाया उदात्तत्वम् । महित्वशब्दात्तृतीयाया आकारो वा । अत्र तवोपस्थे उत्सङ्गे गार्हपत्यात्मनि अग्निमन्नादमन्नस्य हविषोत्तारं अन्नाद्याय अन्नादनसामर्थ्यात्मिकायै ऋद्ध्यै आदधे स्थापयामि । पचाद्यचि अन्नादः । इतरत्र छान्दसो भावे यत् । ‘लघावन्ते’ इति मध्योदात्त उपस्थशब्दः । मरुद्वृधादित्वाद्वा ॥


भास्करोक्त-विनियोगः

2द्वितीया - आयमिति गायत्री ॥

विश्वास-प्रस्तुतिः ...{Loading}...

आ ऽयं गौः+++(→गमनशीलो अग्निस् सूर्यो वा, पुरा वृषभराशिस्थः)+++ पृश्नि॑र् अक्रमी॒द्
अस॑दन् +++(→असदत् इति शाकले)+++ मा॒तरं॑ +++(भूमिं, खे रोहिणीं च)+++ पु॒रः ।
पि॒तरं॑ +++(द्यौः)+++ च, प्र॒-यन्त् सुवः॑+++(→स्वः॑ इति शाकले)+++ ॥

सर्वाष् टीकाः ...{Loading}...
Keith

The spotted bull hath come
And reached again the mother

And the father, faring to the heaven.

मूलम्

आऽयङ्गौᳶ पृश्ञि॑रक्रमी॒दस॑नन्मा॒तर॒म्पुनः॑ ।
पि॒तर॑ञ्च प्र॒यन्थ्सुवः॑ ॥

भट्टभास्कर-टीका

इदानीमादित्यात्मना स्तूयते - अयम् अग्निः गौर् आदित्यात्मा गच्छतीति गौः गमनशीलः पृश्निः शुक्लवर्णः आदित्यानामे[मै]व वा । आक्रमीत् अयमेवादित्यात्मना विश्वम् आक्रामतीति ।

प्रकर्षेणाविच्छेदेन गच्छन् सुवः शोभना रतिः । छान्दसौ लुङ्लङौ ।

आक्रम्य च मातरं भूमिम् असनत् भूमौ मातरि शान्तोभूत् । पितरं दिवं प्रयन् प्रकर्षेण गच्छन् सर्वतो ज्वलन् धूमज्वालाभ्यामभ्रं लिहन् सुवः पितृस्थानीये दिवि स्वरतिरभूत् ॥


भास्करोक्त-विनियोगः

3तृतीया - त्रिंशदिति गायत्री ॥

विश्वास-प्रस्तुतिः ...{Loading}...

+++(दिने मुहूर्ता, मासे दिनानि वा)+++
त्रि॒ꣳ॒शद् धाम॒ वि रा॑जति॒ +++(आदित्यात्मा ऽग्निः)+++,
+++(रोहिणी स्तुतिर् वा)+++ वाक् +++(सूर्य-)+++प॑त॒ङ्-गाय॑ शिश्रिये+++(→धीयते इति शाकले)+++ ।
प्रत्य्+++(कूलम्)+++ अ॑स्य वह॒ द्युभिः ॥

सर्वाष् टीकाः ...{Loading}...
Keith

Thirty places be ruleth;
Speech resorteth to the bird
Bear it with the days.

मूलम्

त्रि॒ꣳ॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये ।
प्रत्य॑स्य वह॒ द्युभिः ॥

भट्टभास्कर-टीका

त्रिंशद् धामानि स्थानानि विराजति प्रकाशवद् भवति । उभयत्रापि वचनव्यत्ययः । त्रिंशन् मुहूर्ता उच्यन्ते । [पञ्चदशाह्नः]पञ्चदश रात्रेः ।

तेषु वाक् शिश्रिये सिषेवे आश्रिता पतङ्गाय पतङ्गः आदित्यः । यथा ‘ऋग्भिः पूर्वाह्णे दिवि देव इर्यते’ इति या स्तुतिलक्षणा वाक् तेषु सर्वेष्वपि मुर्हूर्तेषु पतङ्गं श्रिता । कर्मणि चतुर्थी ।

तस्मात्तादृशः महानुभावः आदित्यात्मा त्वं प्रत्यस्य प्रति-कूलं यत्प्रकृतं तवोद्वासनं तद् अस्य विसृज बुद्धौ मा कृथाः । ‘ससाधनां क्रियामुपसर्ग आह’ इति प्रतिशब्देन प्रतिकूलमुच्यते । ततः प्रसन्नो भूत्वा वह हवींष्यस्माकं द्युभिः दिनेदिने । अधिकरणानां साधकतमत्वविवक्षया तृतीया; यथा ‘स्थाल्या पचति’ इति । ‘ऊडिदम्’ इति प्राप्तस्य विभक्त्युदात्तत्वस्य ‘दिवो झल्’ इति प्रतिषेधः । अस्मिन्व्याख्याने तिङः परत्वाद्वहेत्यस्य निघातो दुर्लभस्स्यात् । अथ ब्रूमः - एवं महातेजाः पतङ्गः अस्य प्रतिवह प्रतिरूपतया वर्तस्व द्युभिः तेजोभिः । अन्वादेशत्वादस्येति सर्वानुदात्तः ॥

०२ आहवनीयम् ...{Loading}...

भास्करोक्त-विनियोगः

4आहवनीये तिस्रोनुवर्तयति । तत्र प्रथमा - अस्येति गायत्री ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्य +++(विषूव-सूर्यात्मनो ऽग्नेः)+++ प्रा॒णाद् अ॑पान॒त्य्,
+++(वृषभराशेर्)+++ अ॑न्तश् च॑रति रोच॒ना+++(→ रोहिणी दीप्तिर् वा)+++ ।
व्य॑ख्यन्+++(=प्राकाशयन्)+++ महि॒षस् +++(वृषभराशौ सूर्यः, भुव्य् अग्निः)+++ सुवः॑ +++(→दिव॑म् इति शाकले)+++ ॥

सर्वाष् टीकाः ...{Loading}...
Keith

With her inspiration from his expiration,
She wandereth between the worlds;
The bull discerneth the heaven.

मूलम्

अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना ।
व्य॑ख्यन्महि॒षस्सुवः॑ ॥

भट्टभास्कर-टीका

अपानतीति प्रथमपादान्तः । अस्याग्नेः रोचना दीप्तिः रोचनशीला । ‘अनुदात्तेतश्च’ इति युच् । अन्तश् शरीरेषु चरति । किं कुर्वती प्राणात् प्राणनव्यापारात् अनन्तरम् अपानती अपाननव्यापारं कुर्वती । जीवानां ऊर्ध्वगमनं प्राणनं, अधोगमनम् अपाननम् । जीवश्श्वासवायुः ।

किञ्च - महिषः महति शरीरे सीदति । ‘सदिरप्रतेः’ इति षत्वम् । अन्त्यविकारश्छान्दसः ।
यद्वा - महतेष्टिषचि लिङ्गव्यत्ययः । महनीया सुवः शोभना रोचना व्यख्यत् विचष्टे प्रकाशते जीवानामन्तः । छान्दसौ लुङ् । ‘अस्यतिवक्ति’ इत्यादिनाङ् । ‘उदात्तस्वीरतयोः’ इति संहितायामडागमः स्वर्यते ।

अन्य आहुः - अस्याग्नेः सुवः आदित्यात्मिका रोचना दीप्तिः प्राणादुदयात् अपानती अस्तं गच्छन्ती अन्तः द्यावापृथिव्योर् मध्ये चरति । महत्यन्तरिक्षे सीदति । व्यख्यत् प्रकाशयति च द्यावापृथिव्यौ । एवं महानुभावं त्वामादधामीति ॥


भास्करोक्त-विनियोगः

5द्वितीया - यत्त्वेत्यनुष्टुप् ।

विश्वास-प्रस्तुतिः ...{Loading}...

यत् त्वा᳚ [10] क्रु॒द्धᳶ प॑रो॒वप॑+++(=उद्वासितवान् अस्मि)+++,
म॒न्युना॒ यद् अव॑र्त्या ।
सु॒कल्प॑म् अग्ने॒ तत् तव॒,
+++(यतः पुनराधाने)+++ पुन॒स् त्वोद्दी॑पयामसि

सर्वाष् टीकाः ...{Loading}...
Keith

If thee [1] in anger I have scattered,
In rage or through misfortune,
That of thee, O Agni, be in good order,
Again thee we relight.

मूलम्

यत्त्वा᳚ [10] क्रु॒द्धᳶ प॑रो॒वप॑ ..
म॒न्युना॒ यद् अव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ ..
पुन॒स्त्वोद्दी॑पयामसि ॥

भट्टभास्कर-टीका

तवेति तृतीयपादान्तः ॥ यत् येन कारणेन ऋद्ध्यभावेन क्रुद्धो ऽहं त्वामपि परोवप परोप्तवान् उद्वासितवानस्मि । ‘णलुत्तमो वा’ इति णित्त्वाभावः । ‘यद्वृत्तान्नित्यम्’ इति निघाताभावे ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम्, समासश्च । लिति प्रत्ययात्पूर्वस्योदात्तत्वम् ।

मन्युना शोकेन परीतो ऽहम् अवर्त्या दारिद्र्येण पाप्मना वा यत्त्वां परोवप विनाशितवान् हे अग्ने तदपि तव प्रसादात् सुकल्पं शोभनकृतिकमेव भवति । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । ‘युष्मदस्मदोर्ङसि’ इति तवशब्द आद्युदात्तः । अतस्त्वां पूर्ववदेवोद्दीपयामसि उद्वपामः । ‘इदन्तो मसि’ ॥


भास्करोक्त-विनियोगः

6अथ तृतीया - यत्त इत्यनुष्टुप् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते॑ म॒न्यु-प॑रोप्तस्य
पृथि॒वीम् अनु॑ दध्व॒से+++(←ध्वस्)+++ ।
आ॒दि॒त्या विश्वे॒ तद् दे॒वा
वस॑वश् च स॒माभ॑रन्न्

सर्वाष् टीकाः ...{Loading}...
Keith

Whatever of thee scattered in rage
Was spread over the earth,
That the Adityas, the All-gods
And the Vasus gathered together.

मूलम्

यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वीमनु॑ दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन्न् ॥

भट्टभास्कर-टीका

ते तव मन्युपरोप्तस्य मन्युना हेतुना मयोद्वासितस्य । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यत् तेजः पृथिवीम् अनुदध्वसे ध्वस्तं पृथिवीम् अनुप्रविश्य वा नष्टं बभूव तदादित्या विश्वे देवा वसवश्च समाभरन् समाभरन्तु । ‘हृग्रहोः’ इति भत्वम् ॥

[[68]]

मे॒दिनी॑ दे॒वी व॒सुन्ध॑रा स्या॒द्वसु॑दा दे॒वी वा॒सवी᳚ ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णाꣳ श्रोत्रं॒ चक्षु॒र्मनः॑ ॥

दे॒वी हिर॑ण्यगर्भिणी दे॒वी प्र॒सूव॑री (/ प्र॒सोद॑री ) ।
रस॑ने (/ सद॑ने ) स॒त्याय॑ने सीद ॥

स॒मु॒द्रव॑ती सावि॒त्री ह॒नो दे॒वी म॒ह्यङ्गी᳚ (/म॒ह्यङ्गा॑)।
म॒ही (/म॒हो) धर॑णी म॒होव्यथि॑ष्टा ( म॒होध्यति॑ष्ठा/ म॒होव्यवि॑ष्ठा )
श‍ृ॒ङ्गे-श‍ृ॑ङ्गे य॒ज्ञे-य॑ज्ञे विभी॒षणी᳚ ॥

इन्द्र॑पत्नी व्या॒पिनी॑ सु॒रस॑रिदि॒ह ([अज्ञातस्वर-पाठान्तरम्] - सरसिज इह ) ।
वा॒यु॒मती॑ जल॒शय॑नी श्रि॒यन्धा॒ ([अज्ञातस्वर-पाठान्तरम्] - स्वयंधा )
राजा॑(या॑) स॒त्यन्तो॒ (/न्धो॒[जो] ) परि॑मेदिनी ॥ श्वो॒ परि॑धत्तं गाय॒(श्वो॒परि॑धत्त॒ परि॑गाय /[अज्ञातस्वर-पाठान्तरम्] - सो परिधत्तंगाय )

वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं॒ मा॒ध॒वीं मा॑धव॒प्रियाम् ।
लक्ष्मी᳚ प्रि॒यस॑खीं दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम् ॥

ॐ ध॒नुर्ध॒रायै॑ वि॒द्महे॑
सर्वसि॒द्ध्यै च॑ धीमहि ।
तन् नो॑ धरा प्रचो॒दया᳚त् ॥
(स्वाहा॑ ॥ धुनुर्धराया इदं न मम)

13 शृण्वन्ति श्रोणाममृतस्य ...{Loading}...

शृ॒ण्वन्ति॑ श्रो॒णाम् अ॒मृत॑स्य गो॒पाम्।
पुण्या॑म् अस्या॒ उप॑शृणोमि॒ वाच॑म्।
म॒हीन् दे॒वीव्ँ विष्णु॑-पत्नीम् अजू॒र्याम्+++(=अज्वराम्)+++।
प्र॒तीची॑म् एनाꣳ ह॒विषा॑ यजामः

(स्वाहा॑ ॥ विष्णुपत्न्या इदं न मम) ॥

14 त्रेधा विष्णुरुरुगायो ...{Loading}...

त्रे॒धा विष्णु॑र् उरु-गा॒यो+++(गेयो)+++ विच॑क्रमे
म॒हीन् दिव॑म् पृथि॒वीम् अ॒न्तरि॑क्षम्।
तच् छ्रो॒णैति॒ +++(अत्र)+++ श्रव॑+++(=कीर्तिम्)+++ इ॒च्छमा॑ना
पुण्य॒ꣳ॒ श्लोक॒य्ँ यज॑मानाय कृण्व॒ती

(स्वाहा॑ ॥ विष्ण॒व इदं न मम) ॥