१२ वैसर्जनहोमः

प्रैतु ब्रह्मणस्पत्नी वेदिं वर्णेन सीदतु प्रतिप्रस्थाता पत्नीमुदानयति । अथाहमनुकामिनी स्वे लोके विशा इह पत्नी शालामुखीयमुपोपविश्य२ । सुप्रजसस्त्वा वयꣳ सुपत्नीरुप सेदिम । अग्ने सपत्नदम्भनमदब्धासो अदाभ्यम् इति जपति । एतस्मिन्काले ब्रह्मा अपरेणोत्तरवेदिं प्रत्याक्रम्य उत्तरेण हविर्धानमाग्नीध्रीयं च गत्वा पूर्वया द्वारा प्राग्वंशं प्रविश्यापरेण शालामुखीयं दक्षिणातिक्रम्योपविशति । एवावन्दस्व वरुणं बृहन्तं नमस्याधीरममृतस्य गोपाम् । स नश्शर्म त्रिवरूथं वियꣳसत्पातं मा द्यावापृथिवी उपस्थे इत्युपस्थे राजानं कुरुते । अध्वर्युः :- समपिव्रतान् ह्वयध्वम् इति संप्रेष्यति । यजमानस्य अमात्यान् संह्वयन्ति । अध्वर्युं यजमानोऽन्वारभते यजमानं पत्नी पत्नीमितरे पुत्रभ्रातरः । अहतेन वाससा अमात्यान् सम्प्रच्छाद्य । वाससोऽन्ते स्रुग्दण्डमुपनियम्य प्रचरण्या वैसर्जनानि जुहोति । त्वꣳ सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्य उरु यन्तासि वरूथꣳ स्वाहा । सोमायेदम् । जुषाणो अप्तुराज्यस्य वेतु स्वाहा । सोमायेदम् । अर्धं हुत्वाऽर्धमवशेषयति । ब्रह्मा हुते सोमं गृहीत्वा यथेतं प्रतिनिष्क्रम्य प्राग्वंशस्य द्वारि तिष्ठति । आ ग्राव्ण्ण आ वायव्यान्या द्रोणकलशं ददते यजमानस्य परिचारकाः । पत्नीमानयन्ति अजमनुनयन्ति । इध्माबर्हिराज्यानि च ।