२९ संज्ञपनम्

पृथिव्यास्सम्पृचः पाहि तस्याधस्तात् बर्हिरुपास्यत्युपाकरणयोरन्यतरत् । तस्मिन्थ्संज्ञपयन्ति प्रत्यक्शिरसमुदीचीनपादम् । अमायुं कृण्वन्तं संज्ञपयत इत्युक्त्वा पराङावर्ततेऽध्वर्युः । स्वर्विदसि स्वर्वित्त्वा स्वरिहि स्वर्मह्यꣳ स्वः पशुभ्यो लोकविदसि लोकं वित्वा लोकमिहि लोकं मह्यं लोकं पशुभ्यो गातुविदसि गातुं वित्वा गातुमिहि गातुं मह्यं गातु पशुभ्यो नाथविदसि नाथं वित्वा नाथमिहि नाथं मह्यं नाथं पशुभ्यः । न वा उवेतन्म्रियसे न रिष्यसि देवाꣳ इदेषि पथिभिस्सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र त्वा देवस्सविता दधातु । आशानां त्वाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥ विश्वा आशा मधुना सꣳसृजाम्यनमीवा आप ओषधयो भवन्तु । अयं यजमानो मृधो व्यस्यतामगृभीताः पशवस्सन्तु सर्वे इत्युक्त्वा पराङावर्तते यजमानः । नाना प्राणो यजमानस्य पशुना यज्ञो देवेभिस्सह देवयानः । जीवं देवानामप्येतु पाथस्सत्यास्सन्तु यजमानस्य कामाः अध्वर्युर्जपति । यासामूधश्चतुर्बिलं मधोः पूर्णं घृतस्य च । ता नस्सन्तु पयस्वतीरस्मिन् गोष्ठे वयोवृध: । इह पशवो विश्वरूपा रमन्तामस्मिन् यज्ञे विश्वविदो घृताचीः । अग्निं कुलायमभिसंवसाना अस्माꣳ अवन्तु पयसा घृतेन पृषदाज्यमवेक्षमाणौ वाग्यतावासातेऽध्वर्युर्यजमानश्च । इन्द्रस्य भागस्सुविते दधातनेमं यज्ञं यजमानं च सूरौ । यो नो द्वेष्ट्यनु तꣳ रवस्वाऽनागसो यजमानस्य वीराः इति वाग्यत एव यजमानो वाश्यमानेऽवेक्षते ।