०७ नामकरणम्

एकादशेऽहनि नामकरणं द्वादशे षोडशेऽष्टादशे विंशे त्रिंशे द्वात्रिंशे पिता माता च अमुक-गोत्रस्य अमुक-नक्षत्रजातस्य कुमारस्य नाम धास्यावह इति सङ्कल्प्य शर्मान्तं नाम ब्रूयातां, विष्णुशर्मेत्यादि, ततोऽभ्युदयं पुण्याहं च कुर्यात् । अस्मिन् पुण्याहे विशेषः अमुक-शर्मण आयुष्मते स्वस्ति भवन्तो ब्रुवन्तु, अमुक-शर्मण आयुष्मते स्वस्तीति ।