०४ कन्यादानं

कन्यादाता, आचम्य पवित्रं धृत्वा ताम्बूलं दक्षिणां च गृहीत्वा

नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

आवयोः दशानां

அந்த ப்ராம்மணர்களும் கன்யா தாதாவின் பக்கல் சென்று கோத்ரோத்பவாய சர்மணே வராய கோத்ரோத்பவாம் நாம்நீம் பவதீயாம் இமாம் கந்யாம் தர்ம ப்ராஜார்த்தம் வ்ருணீமஹே என்று சொல்ல கன்யாதாதா தாஸ்யாமி, தாஸ்யாமி, தாஸ்யாமி என்று சொல்ல வேண்டும். இவ்விடத்தில் சிலர் இரு வர்க்கத்திற்கும் த்ரிபூருஷம் சொல்லுகின்றனர். அது தவறு அல்ல. ஆகிலும் தாத்பர்ய தர்சனத்தில் இவ்வளவே … சொல்லப்பட்டிருப்பதால் இவ்வளவே எழுதப்பட்டுள்ளது.

கன்யாதானம்

கன்யா தாதா ஆசமனம் செய்து அனுஜ்ஞை செய்து கொள்ள வேண்டும்.ஆவயோ: தசாநாம் பூர்வேஷாம், தசாநாம் பரேஷாம், ஆத்மநச்ச, ஏகவிம்சதிகுல, உத்தாரணத்வாரா பகவத் ப்ரீத்யர்த்தம் [[TODO::परिष्कार्यम्??]]

[[128]]

पूर्वेषां, दशानां परेषामात्मनश्च एकविंशति कुलोत्तारणद्वारा भगवन्मुखोल्लासार्थं कन्यादानाख्यमहादानं कर्तुं योग्यतासिद्धिमनुगृहाण । दर्भेष्वासीनः, दर्भान्धारयमाणः प्राणानायम्य-र्थम् आवयोः दशानां पूर्वेषां दशानां परेषामात्मनश्च एकविंशति कुलोत्तारणद्वारा भगवत्प्रीत्यर्थं कन्यादानाख्यमहादानं करिष्ये ॥ सात्विकत्यागः ।

धान्यराशौ जामातरं प्राङ्मुखत्वेनोपवेश्य स्वयं प्रत्यङ्मुख[[खं??]] स्थित्वा अक्षतान्गृहीत्वा महाविष्णुस्वरूपस्य वरस्य इदमासनं इत्यक्षतैः आसनं समर्प्य, इमे गन्धाः इति गन्धान्समर्प्य (स्वयमेव तस्य उरसि बाह्वोश्च धारयित्वा सकलाराधनैः शोभनम् । कुक्कुटवदुपविश्य, महाविष्णुस्वरूपवर - इदन्ते पाद्यम् - इति स्वपत्न्या स्वाञ्जलौ समर्पितेन जलेन जामातुः पादौ प्रक्षालयेत् । प्रथमतः दक्षिणं पादं क्षालयित्वाऽनन्तरं सव्यमिति विवेकः ।

तद्विष्णोः, प॒र॒मं, प॒दं, सदॉ पश्यन्ति, सूरयॅः । दि॒वीवँ, चक्षुरातँतम् । तद्विप्रॉसः, विपन्यवॅः, जागृवाँसःँ, समिँन्धते । विष्णोर्यत्, पर॒मं प॒दम् । [[TODO::परिष्कार्यम्??]]

इति वदेत् स्वस्य पादौ प्रक्षाल्य द्विराचामेत् ॥ जामाताऽपि अनन्तरं द्विराचमनं कुर्यात् ॥

धान्यराशौ कन्यादाता उपविशेत् । स्वाङ्के कन्यामुपवेशयेत् । अत्र उभयवंशस्यापि त्रिपूरुषं त्रिर्वदेत् । तत्प्रकारस्तावत् भार्गवच्यावन,

(பகவந் முகோல்லாஸார்த்தம்) கன்யாதாநாக்ய மஹாதாநம் கர்த்தும் யோக்யதாஸித்தி மநுக்ருஹாண ஸங்கல்ப்ய கன்யாதாநாக்ய மஹாதாநம் கரிஷ்யே ஸாத்விக த்யாகம் செய்ய வேண்டும்.

வரனை தான்யராசியில் கிழக்கு முகமாக உட்கார வைத்து வரனுக்கு எதிராக கன்யாதாதா மேற்கு முகமாக இருந்து கொண்டு மஹா விஷ்ணு ஸ்வரூபஸ்ய வரஸ்ய இதமாஸநம் இமே கந்தா:, ஸகலாராதனை: சோபநம் என்று ஆஸநம். சந்தனம் இவைகளை ஸமர்ப்பித்து தன் பத்னியினால் விடப்பட்ட ஜலத்தைத் [[TODO::परिष्कार्यम्??]]

[[129]]

आप्नवान, और्व, जामदग्न्य, पञ्चार्षेय, प्रवरान्वितश्रीवत्सगोत्रोद्भवाय वासुदेवशर्मणो नप्त्रे, रामशर्मणः पौत्राय, कृष्णशर्मणः पुत्राय नारायणशर्मणे वराय, आङ्गीरसबार्हस्पत्य/भारद्वाजत्र्यार्षेयप्रवरान्वितभारद्वाजगोत्रोद्भवां, रङ्गनाथशर्मणः नप्त्रीं श्रीगोपालशर्मणः पौत्रीं, पद्मनाभशर्मणः पुत्रीं चम्पकलक्ष्मीँनाम्नीँ मदीयामिमां कन्यां, पुनरपि भार्गवेत्यादि + शर्मणे वराय, शर्मणे वराय, आङ्गीरसेत्यादि + चम्पकलक्ष्मीँनाम्नीँ, मदीयाम् इमां कन्यां । पुनरपि भार्गवेत्यादि + शर्मणे वराय, आङ्गीरसेत्यादि + चम्पकलक्ष्मीँ नाम्नीँ मदीयामिमां कन्यां प्रजासहत्वकर्मभ्यः प्रतिपादयामि । अयमेवास्मदीयः पाठः केचित्पाठान्तररीत्याऽपि वदन्ति, भार्गवेत्यादि + श्रीवत्सगोत्रोद्भवस्य वासुदेवशर्मणः नप्त्रे पुनरपि भार्गवेत्यादि उक्त्वा गोत्रोद्भवस्य रामशर्मणः पौत्राय पुनरपि भार्गवेत्यादि पौत्राय पुनरपि श्रीवत्सगोत्रोद्भवस्य कृष्णशर्मणः पुत्राय भार्गवेत्यादिश्रीवत्सगोत्रोद्भवाय नारायणशर्मणे वराय एवमेव वधूविषयेऽपि उक्त्वा प्रतिपादयामि इति वदन्ति । सोऽपि पाठः साधुरेव । अत्रापि कन्यादातरि “प्रतिपादयामि" इत्युक्ते प्रतिग्रहीतारं वरं प्रतिवचनत्वेन “प्रतिपादयिष्ये’ इति प्रत्युत्तरं पाठयन्ति । तन्न साधु । प्रतिपादयामि (समर्पणं करोमि) “प्रतिपादयामि’’ इत्यनेनैव समर्पणे सिद्धे, समर्पणं कारयिष्ये वचनस्य कोऽर्थः) अतः प्रतिपादयिष्ये इति कथनं माभूत् । प्रकृतमनुसरामः ।

தன் கையில் வாங்கி மஹா விஷ்ணு ஸ்வரூப! வர! இதம் தே பாத்யம் என்று வரனின் பாதங்களில் வலது காலை முதலாகக் கொண்டு அலம்பி விட வேண்டும். “தத் விஷ்ணோ: பரமம் + விஷ்ணோர்யத் பரமம் பதம்” என்பதாகச் சொல்லி தான் பாத ப்ரக்ஷாளனம் செய்து கொண்டு இரண்டு ஆசமனங்களையும் செய்ய வேண்டும். பிறகு வரனும் இரண்டு ஆசமனங்கள் செய்ய வேண்டும். [[TODO::परिष्कार्यम्??]]

[[130]]

कन्यादाता प्राणानायम्य-र्थं, कन्यादानकाले गोदानं करिष्ये, अथवा गोप्रतिनिधियत्किञ्चिद्धिरण्यदानं करिष्ये ।

गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।
तस्मादस्याः प्रदानेनातः शान्तिं प्रयच्छ मे ॥
कन्यादानकाले गोप्रतिनिधियत्किञ्चिद्धिरण्यं वराय तुभ्यमहं सम्प्रददे । प्राणानायम्य-र्थँ कन्यादानकाले, भूदानं करिष्ये । (अथवा) भूप्रतिनिधियत्किञ्चिद्धिरण्यानं करिष्ये ।

सर्वश[[??]]स्याश्रया भूमिः, वराहेण समुद्धृता ।
अनन्तशस्य फलदा, अतः शान्तिं प्रयच्छ मे ।
कन्यादानकाले भूप्रतिनिधियत्किञ्चिद्धिरण्यं वराय तुभ्यमहं सम्प्रददे । कन्यादानकाले फलदानं करिष्ये ।
फलं मनोस्थफलं प्रददाति सदा नृणाम् । पुत्रपौत्राभिवृद्ध्यर्थम् अतः शान्तिं प्रयच्छ मे ।
इदं फलं वराय तुभ्यमहं सम्प्रददे ।

कन्यादानकाले श्रीमूर्तिदानं करिष्ये । श्रीमूर्तिप्रतिनिधियत्किञ्चिद्धिरण्यदानं करिष्ये ।

सालग्रावशिलाचक्रे भुवनानि चतुर्दश ।
तस्मादस्याः प्रदानेनातः शान्तिं प्रयच्छ मे ।

कन्यादानकाली इमां

கன்யாதாதா தான்ய ராசியில் உட்கார்ந்து தன் மடியில் வதூவை கிழக்கு முகமாக உட்கார வைத்துக் கொள்ள வேண்டும். இவர்களுக்கு எதிரில் வரன் மேற்கு முகமாக நின்று கொண்டு கன்யாதாதா சொல்வதைக் காது கொடுத்துக் கேட்க வேண்டும்.

கன்யாதாதா இப்போது அவச்யம் ப்ரவர ஸஹிதமான கோத்ரத்தை த்ரிபூருஷத்தை மூன்று தடவை சொல்ல வேண்டும். அதன் பிரகாரமாவது. வரன் ஸ்ரீவத்ஸ கோத்ரம்; வதூ கௌண்டின்ய கோத்ரம் என்பதாகக் கொண்டு மாதிரி எழுதப்படுகிறது. பார்க்கவ, ச்யாவந, ஆப்நவாந, ஒளர்வ, ஜாமதக்ந்ய, பஞ்சார்ஷேய, ப்ரவராந்வித ஸ்ரீவத்ஸ கோத்ரோத்பவாய நாராயண சர்மண: நப்த்ரே, க்ருஷ்ண சர்மண: [[TODO::परिष्कार्यम्??]]

[[131]]

श्रीमूर्तिवराय तुभ्यमहं सम्प्रददे॥

कन्याहस्ते ताम्बूलं फलं हरिद्राखण्डं दक्षिणाञ्च निक्षिप्य,

कन्यां कनकसम्पन्नां सर्वाभरणभूषिताम् ।
दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया ॥
विश्वम्भरास्सर्वभूतास्साक्षिण्यस्सर्वदेवताः ।
इमां कन्यां प्रदास्यामि पितॄणां तारणाय च ।
कन्ये ममाग्रतो भूयाः, कन्ये मे देविः पार्श्वतः ।
कन्ये मे सर्वतो भूयाः त्वद्दानान्मोक्षमाप्नुयाम् ॥

मदीयामिमां कन्यामस्मै ब्राह्मणाय यजुः शाखाध्यायिने कन्याप्रतिग्रहीत्रे वराय तुभ्यमहं सम्प्रददे ॥

इति सोदकं कन्याहस्तं दक्षिणं दक्षिणे वरहस्ते दद्यात् ।

प्राङ्मुखाः प्रयच्छन्ति प्रत्यङ्मुखाः प्रतिगृह्णते ॥
एवं गोदासीकन्यकाश्चैव तिष्ठन्नेव प्रतिग्रहे ।
वालं केशं तथा हस्तं न्यस्य हस्ते जलं क्षिपेत् ।
वरस्तां तूष्णीं प्रतिगृह्य उद्वाहमण्टपे प्राङ्मुख उपविशेत् अत्रापि कश्चिद्विचार । केचित् दे॒वस्यँत्वा “इति प्रतिग्रहमन्त्र मुच्चार्य प्रतिग्रहः कार्य इति वदन्ति | तन्न साधु। देवस्यत्वेति मन्त्रः श्रौतविषयः । श्रौतप्रयोग एव तस्य विनियोगः स्मार्तकर्मसु उपनयनकर्मविनाऽन्यत्र तूष्णीमेव प्रतिग्रह इति निर्धारितः ।

பௌத்ராய, ராமசர்மண: புத்ராய, ஸ்ரீ கோபால சர்மணே வராய, வாஸிஷ்ட, மைத்ராவருண, கௌண்டின்ய த்ர்யார்ஷேய, ப்ரவராந்வித கௌண்டின்ய கோத்ரோத்பவாம், வாஸுதேவ சர்மண: நப்த்ரீம், ராமானுஜ சர்மண: பௌத்ரீம், ரங்கநாத சர்மண: புத்ரீம் ருக்மிணீ நாம்நீம் மதீயாம், இமாம் கந்யாம் - இவ்விதமாக மேற்கொண்டும் இரண்டு தடவை சொல்லி ப்ரஜா ஸஹத்வகர்மப்ய: ப்ரதிபாதயாமி (இவ்விடத்தில் தாதா வரனை "” என்று “ப்ரதிபாதயிஷ்யே” என்று சொல்லச் சொல்லுகிறார்கள். அது அபத்தம் “ப்ரதிபாதயாமி” என்பதற்கு கொடுக்கிறேன் என்று சொன்னவுடன் [[TODO::परिष्कार्यम्??]]

[[133]]

उपनयनकर्मणिप्रतिग्रहमन्त्रस्यादरः तत्रैव स्पष्टतया निरूपितः । गृह्यरत्नेऽपि प्रतिग्रहमन्त्रः न सूचितः ।

वरः दर्भेष्वासीनः दर्भान्धारयमाणः प्राणानायम्य सङ्कल्प्य

गोत्रस्य शर्मणः मम, गोत्राया नाम्याः अस्याः कन्यायाश्च उभयो रुद्वाहकर्म करिष्ये ।

दर्भान्निरस्य अप उपस्पृश्य-सात्विकत्यागं कुर्यात् ।

यत्र क्वचाग्निमिति विधिनाऽग्निं प्रतिष्ठाप्य प्राक्तोयनिधानान्तं कुर्यात् । अत्र मधुपर्कात्पूर्वम् अग्निप्रतिष्ठानस्य प्रमाणं तु कपर्दिनोक्तं “स्थाप्यते च विवाह महीतले पावको विधिवन्मधुपर्कः विधिवन्मधुपर्कः” इति । कन्यादातृसमीपं गच्छेत् । कन्यादाताऽपि प्राणानायम्य आगताय वराय, अपचितिकर्म (मधुपर्कप्रदानं) करिष्ये । इति सङ्कल्प्य वरं धान्यराशौ उपवेशयेत् ।