10 संस्कार-विलम्बः

[[2]]

पुंसुवन-सीमन्ताकरणे

पुंसुवन-सीमन्ताकरणे
स्त्रियां प्रसूतायां
प्राजापत्य-कृच्छ्रं
पाहित्रयोदशकहोमं कृत्वा +++(अत्रेक्षताम्)+++
तस्या अङ्के शिशुं निधाय
पुंसुवनं सीमन्तं च कुर्यात् ।

जात-कर्मादीनां स्व-स्व-कालेषु +अकरणे

जातकर्मादीनां स्व-स्व-कालेषु +अकरणे
प्राजापत्य-कृच्छ्रं कृत्वा
लौकिकाग्निं प्रतिष्ठाप्य
परिस्तीर्य
आज्यं दर्वीं च संस्कृत्य
परिषिच्य

व्यस्ताभिः, समस्ताभिर् व्याहृतिभिः

व्याहृति-होमाः ४ ...{Loading}...
विश्वास-प्रस्तुतिः

(ओं) भूस्स्वाहा᳚ ॥ (अ॒ग्नय॑ +इ॒दं न म॑म)

(ओं) भुव॒स्स्वाहा᳚ ॥ (वा॒यव॑ +इ॒दं न म॑म)

(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्या॑य +इ॒दं न म॑म)

(ओं) भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥
(प्र॒जाप॑तय +इ॒दं न म॑म)

मूलम्

(ओं) भूस्स्वाहा᳚ ॥ (अग्नय इदं न मम)

(ओं) भुव॒स्स्वाहा᳚ ॥ (वायव इदं न मम)

(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्याय इदं न मम)

(ओं) भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥
(प्रजापतय इदं न मम)

०५ पाहि नो अग्ने ...{Loading}...
विश्वास-प्रस्तुतिः (स्वाभाविक-स्वरेण)

पा॒हि नो अग्न॒ एन॑से॒ स्वाहा॑ ।
पा॒हि नो वि॒श्ववे॑दसे॒ स्वाहा॑ ।
य॒ज्ञं पा॒हि विभावसो॒ स्वाहा॑ ।
सर्वं॑ पा॒हि शतक्रतो॒ स्वाहा॑ । (15)

मूलम् (आरण्यक-स्वरेण)

पाहि नो अग्न एन॑से स्वा॒हा ।
पाहि नो विश्ववेद॑से स्वा॒हा ।
यज्ञं पाहि विभाव॑सो स्वा॒हा ।
सर्वं पाहि शतक्र॑तो स्वा॒हा । (15)

०९ पाहि नो ...{Loading}...

पा॒हि नो॑ अग्न॒ एक॑या
पा॒ह्यु१॒॑त द्वि॒तीय॑या ।
पा॒हि गी॒र्भिस् ति॒सृभि॑र् ऊर्जां-पते
पा॒हि च॑त॒सृभि॑र् वसो ॥

स्वाहा

इति पाहिपञ्चकेन,
पुनर् व्यस्ताभिः समस्ताभिः व्याहृतिभिः

व्याहृति-होमाः ४ ...{Loading}...
विश्वास-प्रस्तुतिः

(ओं) भूस्स्वाहा᳚ ॥ (अ॒ग्नय॑ +इ॒दं न म॑म)

(ओं) भुव॒स्स्वाहा᳚ ॥ (वा॒यव॑ +इ॒दं न म॑म)

(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्या॑य +इ॒दं न म॑म)

(ओं) भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥
(प्र॒जाप॑तय +इ॒दं न म॑म)

मूलम्

(ओं) भूस्स्वाहा᳚ ॥ (अग्नय इदं न मम)

(ओं) भुव॒स्स्वाहा᳚ ॥ (वायव इदं न मम)

(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्याय इदं न मम)

(ओं) भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥
(प्रजापतय इदं न मम)

इति एतैः पाहित्रयोदशकैः +++(अत्रेक्षताम्)+++

०४ त्वं नो ...{Loading}...

त्वन् नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्
दे॒वस्य॒ हेडो+++(=क्रोधो )+++ ऽव॑ यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
यजि॑ष्ठो॒ +++(हविर्)+++वह्नि॑तम॒श् शोशु॑चानो॒+++(=देदीप्यमानः)+++
विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य् अ॒स्मत् ।

०५ स त्वं ...{Loading}...

स त्वन् नो॑ अग्ने ऽव॒मो+++(=मूलभूतो)+++ भ॑व॒+ऊ॒ती+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
नेदि॑ष्ठो+++(=अन्तिकतमो)+++ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ+++(=व्युष्टायाम्)+++ ।
अव॑ यक्ष्व नो॒ वरु॑णँ॒, ररा॑णो
वी॒हि+++(=खाद)+++ मृ॑डी॒कँ+++(=सुखयितारं [हविः])+++ सु॒हवो॑ न एधि

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

68 त्वमग्ने अयासि ...{Loading}...

त्वम॑ग्ने अ॒यासि॑ ।
अ॒या सन् मन॑सा हि॒तः ।
अ॒या सन् ह॒व्यम् ऊ॑हिषे ।
अ॒या नो॑ धेहि भेष॒जम् ।

अग्नये अयसे इदन्न मम ।

१५ उदुत्तमं वरुण ...{Loading}...

उदु॑त्त॒मं व॑रुण॒ पाश॑म् अ॒स्मद्
अवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय
अथा॑ व॒यम् आ॑दित्य व्र॒ते तवा
+ऽना॑गसो॒ अदि॑तये स्याम ॥३॥

वरुणाय इदन्न मम ।

ये ते शतं वरुण ...{Loading}...
विश्वास-प्रस्तुतिः

ये ते॑ श॒तं वरुण॒ ये स॒हस्रं॑
य॒ज्ञियाः॒ पाशा॒ वित॑ताः पुरुत्र ।
तेभ्यो॑ न॒ इन्द्र॑स् सवि॒तोत विष्णु॑र्
विश्वे॑ दे॒वा मु॑ञ्चन्तु म॒रुतः॑ स्व॒स्त्या॥

मूलम्

ये ते॑ श॒तं वरुण॒ ये स॒हस्रं॑
य॒ज्ञियाः॒ पाशा॒ वित॑ताः पुरुत्र ।
तेभ्यो॑ न॒ इन्द्र॑स् सवि॒तोत विष्णु॑र्
विश्वे॑ दे॒वा मु॑ञ्चन्तु म॒रुतः॑ स्व॒स्त्या॥

(स्वाहा॑॥ वरुणेन्द्रसवितृविष्णुविश्वेदेवमरुद्भ्य इदम् ।)

इत्येतैश् च हुत्वा
सर्व-प्रायश्-चित्तम्
अनाज्ञातादिभिश् च हुत्वा
परिषिच्य अतीतं कर्म कृत्वा तात्कालिकं कर्म कुर्यात् ।

प्रायश्चित्तस्य सर्वस्य प्रतिनिमित्तम् आवृत्तिः ।