०५ शेट्टलूर्-श्रीनिवासरङ्गाचार्यः

[[xix]]

श्रीरङ्गं-श्रीमद्-आण्डवन्-आश्रम-आस्थान-विद्वान्,
सोसलै-श्री-व्यास-राय-संस्थानास्थान-विद्वान्
साहित्य-वेद-वेदान्त-विद्वान्, वेद-मार्ताण्डः, वैदिक-भूषणम्, शास्त्र-रत्नाकरः, यजुर्-वेद-रत्नः, कन्नड-पण्डितः,
शेट्टलूर्–श्री-निवास-रङ्गाचार्यः (बेङ्गलूर्)

युधिष्ठिरः स्व-पितामहं भीष्मं प्रति
“को धर्मस्सर्व धर्माणां
भवतः परमो मतः”
इति पृच्छति ।
तस्योत्तरत्वेन

“जगत्-प्रभुं देवदेवम्
अनन्तं पुरुषोत्तमम्”

इत्यारभ्य

लोकाध्यक्षं स्तुवन् नित्यं
सर्वदुःखातिगो भवेत् । ब्रह्मण्यं सर्वधर्मज्ञं
लोकानां कीर्तिवर्धनम् ॥
लोकनाथं महद्भूतं
सर्वभूतभवोद्भवम् ।
एष मे सर्व धर्माणां
धमोऽधिकतमो मतः

इति जगत्-सृष्टि-स्थिति-संहार-कारणं भगवन्तं प्रति
नमनं, स्तुति-करणं, पूजनं, सदा तस्य स्मरणम्
इत्यादिकं कर्तव्यम् ।
अयम् एव परमो धर्म
इति स प्राह ।

धर्मो विश्वस्य जगतः प्रतिष्ठा,
लोके धर्मिष्ठं प्रजा उपसर्पन्ति,
धर्मेण पापम् अपनुदति,

इत्य्-आदि-श्रुतिर् अपि,
धर्म-शब्द-निर्वचन-पूर्वकं
तस्य माहात्म्यं विवृणोति ।
सत्-सन्तान-प्रसूतस्य
गर्भाधानादि-संस्कार-संस्कृतान्तःकरणस्यैव पुरुषस्य
मनस् तादृश-धर्माचरणे प्रवर्तते ।
अन्यथा व्रात्यस् सन् अ-धर्म-कार्य एव प्रवृत्तो भवति,
तस्य मनश् च कालुष्यं भजते ।
इदानीम् अ-कर्मठ-भूयिष्ठे जगति वर्तमानानां महोपकाराय
गर्भाधानादि-संस्कार-प्रतिपादकः श्रीमद्-आपस्तम्बीयः पूर्वप्रयोगः
वडुवूर् ग्रामाभिजनैः चम्पकारण्य-वास्तव्यैः श्री-अण्णा-स्वामि-अय्यङ्गार्–वेद-पाठ-शालाऽध्यापकैः,
वीरवल्लि, घनपाठी, भाष्यमणि इति बिरुदाङ्कितैः,
श्री-निवास-देशिकाचार्यै रचितो वर्तते ।

अस्मिन्ग्रन्थे मन्त्र-भागः सस्वरः पद-विभाग-सहितो निरूपितः ।
प्रयोक्तॄणां जिज्ञासूनाञ् च उपकाराय
द्राविड्या वृत्त्या समेतश् च भवति ।
सूत्राणां निर्वचनम् अनुष्ठान-रीति–प्रतिपादनम्
अन्यादृशम् इति वक्तुम् उत्सहे ।

प्रथमतः शोभन-कर्मसु क्वचिद् आदौ क्वचिद् अन्ते च विहिते नान्दीकर्मणि
विचारः प्रस्तूयते ।
कर्मानुष्ठातुः स्व-पितॄणाम् अनुग्रह-सम्पादनाय
कर्मानुष्ठातुः एतत्-कर्म विधीयते । अत्र कोऽपि न संशयः ।

[[xx]]

वृद्धि-श्राद्धे विवाहे च
प्रपिता-मह-पूर्वकम् ।

इति वचन-रीत्या
प्रपितामह-पितामह-पितॄणां वरणं कर्तव्यम्
इति ग्रन्थ-काराणाम् आशयः ।
अवरोहण-क्रमो ऽयं न साधु
इति वयं न व्याचक्ष्महे ।
श्री–वीर-राघव-सूरि-विरचितायां प्रयोग-चन्द्रिकायां तु
नान्दी-मुख–मातृ-पितामही-प्रपितामही-रूपी
नान्दी-मुख–पितृ-पितामह-प्रपितामह-रूपी,
इत्य् आरोहण-क्रम एवादृतः ।
पूर्व-प्रयोगानुक्रमणिकायाञ् च तथैव वर्तते ।
अस्मिन् विषये सम्प्रदाय-शरणा वयम् इति ब्रूमः ।

चौल-प्रकरणे सूत्रं,

वपन्तम् उत्तरयाऽनुमन्त्रयते
दक्षिणतो माता ब्रह्मचारी वा
आनुडुहे शकृत्पिण्डे यवान् निधाय
तस्मिन् केशान् उपयम्योत्तरयोदुम्बरमूले दर्भस्तम्बे वा निदधाति ।

सर्वत्र स्त्रियाः वेद-मन्त्राणाम् उच्चारणे ऽनधिकारत्वम् ।
तथाऽपि अत्र दक्षिणतो माता ब्रह्मचारी वा
इति प्रथमतः मातृ-ग्रहणं,
अनन्तरमेव विकल्पत्वेन ब्रह्मचारि-ग्रहणम्
इति सूत्र-शैलिर् वर्तते ।
तद्-अनुसारेण इष्ट्य्-आदौ
यथा यजमानस्य पत्न्या योक्त्र-सन्नहने
आशासानेति मन्त्रोच्चारणे ऽधिकारस् सिद्ध्यति
तथाऽत्रापि विशेष-विधिना
मातुः यत्-क्षुरेणेति मन्त्रोच्चारणे ऽधिकारस् सिद्धयति
इति निर्वचनम् अतिसमीचीनम् ।

वैवाहिके लाज-होमे,
अञ्जलि-सादनस्य पात्र-सादन-काले
सादयितुम् अशक्यत्वात्
अञ्जलि-संस्कारः कर्तव्य एवेति
आस्माकीनः पन्थाः ।

यथा वा जात-कर्मणि फलीकरण-होमे,

चौल-जातक–गो-दान–
स्रानोपनयनं व्रतम् ।
लाज-होम–समित्-कार्यं
लौकिकाग्नौ विधीयते ॥

इति विधि-प्राप्ते
श्रोत्रियागाराद् आहृते ऽग्नौ
परिस्तीर्य दर्वीवद् अञ्जलिं संस्कृत्य
परिषिच्य फली-करण-मिश्रान् गौर-सर्षपान्,
“अयं कलिम्” इत्य्-आदिभिः मन्त्रैर् जुहुयाद्
इति, पूर्व-प्रयोगानुक्रमणिकायाम् उक्तम् ।
तथाऽत्रापि, अभिन्न-वध्व्-अञ्जलितादुहोमः+++(??)+++

यथा जुहूवन्न+++(=??)+++ मुखेन होमः । सम्मार्जन-प्रोक्षण-सादनानि
यथा जुहूवन्न च लेपकार्यम् ॥

यदि दर्वी-संस्कारकाले वध्व्-अञ्जलि-संस्कारः न कृतस्
तदाऽत्र वा कार्यः,
अ-संस्कृतस्य होमानर्हत्वात्
अञ्जलिसंस्कारः अवश्यं कार्य
एवेति प्रतीमः ।

लाज-होमे,
आपस्तम्बीय-व्यतिरिक्तानां विषये
वधूः तिष्ठन्ती जुहुयात्,
आपस्तम्बीयानां तु आसीनैव जुहुयाद्
इति विवेकः
इति निरूपणन्तु अतीव हृद्यम् । यथा वा

प्रवासाद् एत्य
पुत्रस्योत्तराभ्याम् अभिमन्त्रणं
मूर्धन्य् अवघ्राणं
दक्षिणे कर्णे उत्तरान् मन्त्राञ् जपेत्

इति सूत्रानुसारेण
उपनिष्क्रामण-कर्म पार्थक्येन निरूपितं
तथैव गोदानम् अपि निरूपितं भवेत्
तर्हि जिज्ञासूनाम् अतीवोपकृतिर् भवेत्
इति सूचयामः ।

एभिः पितृ-मेध-सार-प्रश्न–नामक-ग्रन्थः
पूर्वम् एव ग्रथितो वर्तते ।
इदानीं पूर्व-प्रयोगः।
क्षिप्रम् एव तद्-अन्यम् अपि प्रतीक्षामहे ।

युव-मीन-कृष्ण-सप्तमी
१०.०४.१९९६

शेट्टलूर् श्रीनिवासरङ्गाचार्यः

[[7]]