दर्शादि-तर्पणम्

दर्शादितर्पणक्रमः

पादौ प्रक्षाल्य, आचम्य आसीनः पवित्रपाणिः त्रिः प्राणान् आयम्य,

गुरुभ्यः…. पती ।

स्वशेष … स्वयम् ।

शुक्लां … श्रये

इत्य् अनुसन्धाय, प्राचीनावीती,

हरिर् ओं तत्
श्रीगोविन्द …
(अस्यां) पुण्यतिथौ
श्रीभगवदाज्ञया … प्रीत्यर्थं
… गोत्राणां शर्मणां वसु-रुद्रादित्य-स्वरूपाणम्
अस्मत्-पितृ-पितामह-प्रपितामहानाम्,
….गोत्राणां…. शर्मणां
वसु-रुद्रादित्य-स्वरूपाणाम्
अस्मन्-मातुः पितृ-पितामह-प्रपितामहानां
वर्ग-द्वय-पितॄणां
(दर्श)-श्राद्ध-प्रतिनिधि-तिल-तर्पणं करिष्ये

इति सङ्कल्प्य,
सात्त्विकत्यागं कृत्वा,
उत्थाय,
दक्षिणाग्रान् दर्भान् द्वेधा संस्तीर्य,
पूर्व-दर्भेषु (भुग्ने),

आया॑त पितरस्सो॒म्या ग॑म्भी॒रैः प॒थिभिः॑ पू॒र्व्यैः ।
प्र॒जाम॒स्मभ्यं॑ ददतो र॒यिञ्च॑ दीर्घायु॒त्वं च॑ श॒तशा॑रदं च ॥ [[TODO:परिष्कार्यम्??]]

…. गोत्रान् …. शर्मणः
वसु-रुद्रादित्य-स्वरूपान्
अस्मत्-पितृ-पितामह-प्रपितामहान् आवाहयामि ।

इति तिलैर् आवाह्य,

स॒कृ॒दा॒च्छि॒न्नं ब॒र्हिरूर्णा॑ मृदु । स्यो॒नं पि॒तृभ्य॑स्त्वा भराम्य॒हम् ।
अ॒स्मिन्थ्सी॑दन्तु मे पि॒तर॑स्सो॒म्याः । पि॒ता॒म॒हाः प्रपि॑तामहाश्चानु॒गैस्स॒ह ॥ [[TODO:परिष्कार्यम्??]]

.. गोत्राणां …. शर्मणां …
वसुरुद्रादित्यस्वरूपाणाम् अस्मत्-पितृ-पितामह-प्रपितामहानाम्
इदम् आसनम्,

इति भुग्नेन दर्भेणाऽऽसनं दत्त्वा,

(“इदम् अर्चनम्” इति तिलैर् अर्चनम् अपि केचित्।)

[[161]]

ऊर्जं॒ वह॑न्तीर॒मृतं᳚ घृ॒तं पयः॑ की॒लालं᳚ परि॒स्रुत᳚म् ।
स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ॥ [[TODO:परिष्कार्यम्??]]

इति तिलोदकं दत्त्वा,

पश्चिम-दर्भेषु,

आया॑त पितरस्सो॒म्या ग॑म्भी॒रैः प॒थिभिः॑ पू॒र्व्यैः ।
प्र॒जाम॒स्मभ्यं॑ ददतो र॒यिञ्च॑ दीर्घायु॒त्वं च॑ श॒तशा॑रदं च ॥ [[TODO:परिष्कार्यम्??]]

… गोत्रान् … शर्मणः वसुरुद्रादित्यस्वरूपान् अस्मन्मातुः पितृपितामहप्रपितामहान् आवाहयामि ।

इति तिलैरावाह्य,

स॒कृ॒दा॒च्छि॒न्नं ब॒र्हिरूर्णा॑मृदु । स्यो॒नं पि॒तृभ्य॑स्त्वा भराम्य॒हम् ।
अ॒स्मिन्थ्सी॑दन्तु मे पि॒तर॑स्सो॒म्याः । पि॒ता॒म॒हाः प्रपि॑तामहाश्चानु॒गैस्स॒ह ॥ [[TODO:परिष्कार्यम्??]]

.. गोत्राणां …. शर्मणां … वसुरुद्रादित्यस्वरूपाणाम् अस्मन्मातुःपितृपितामप्रपितामहानाम् इदमासनम्,

इति भुग्नेन दर्भेणाऽऽसनं दत्त्वा, (इदमर्चनम् इति तिलैरर्चनम्) …

ऊर्जं॒ वह॑न्तीर॒मृतं᳚ घृ॒तं पयः॑ की॒लालं᳚ परि॒स्रुत᳚म् ।
स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ॥ [[TODO:परिष्कार्यम्??]]

इति तिलोदकं दत्त्वा,

[[162]]

सव्यं जान्व् आच्य, पूर्वदर्भेषु,

उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तर॑स्सो॒म्यासः॑ ।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्तेनो॑वन्तु पि॒तरो॒ हवे॑षु ॥ [[TODO:परिष्कार्यम्??]]

….गोत्रान् …. शर्मणः वसुरूपान् अस्मत्पितॄन् स्वधा नमस्तर्ययामि ।

इति त्रिः तिलोदकं दत्त्वा ।

अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वस्सो॒म्यासः॑ ।
तेषां᳚ व॒यँ सु॑प॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥

… गोत्रान् … शर्मणः वसुरूपान् अस्मत्पितॄन् स्वधा नमस्तर्ययामि ।

इति त्रिः तिलोदकं दत्त्वा ।

आय॑न्तु नः पि॒तर॑स्सो॒म्यासौ᳚ऽग्निष्वा॒त्ताः प॒थिर्भिर्देव॒यानैः᳚ ।
अ॒स्मिन् य॒ज्ञे स्व॒धया॑ मद॒न्त्वधि॑ ब्रुवन्तु॒ ते अव॑न्त्व॒स्मान् ॥ [[TODO:परिष्कार्यम्??]]

…. गोत्रान् …. शर्मणः वसुरूपान् अस्मत्पितॄन् स्वधा नमस्तर्ययामि ।

इति त्रिः तिलोदकं दत्त्वा ।

ऊर्जं॒ वह॑न्तीर॒मृतं᳚ घृ॒तं पयः॑ की॒लालं᳚ परि॒स्रुत᳚म् ।
स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ॥ [[TODO:परिष्कार्यम्??]]

… गोत्रान् …. शर्मणः रुद्ररूपान् अस्मत्पितामहान् स्वधा नमस्तर्ययामि ।

इति पूर्ववत् ॥

[[163]]

पि॒तृभ्य॑स्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ । पि॒ता॒म॒हेभ्य॑स्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ । प्रपि॑तामहेभ्यस्स्व॒धाविभ्य॑स्स्वधा मपः॑ । अक्ष॑न्पि॒तरः॑ ॥ [[TODO:परिष्कार्यम्??]]

… गोत्रान् …. शर्मणः रुद्ररूपान् अस्मत्पितामहान् स्वधा नमस्तर्पयामि । इति पूर्ववत् ॥

ये चे॒ह पि॒तरो॒ ये च॒ नेह॒ याँश्च॑ वि॒द्म याँ उ॑ च॒न प्र॑वि॒द्म ।
अग्ने॒ तान्वे᳚त्थ॒ यदि॒ ते जा॑तवेद॒स्तया᳚ प्र॒त्थँस्व॒धया॑ मदन्तु॒ ॥

…गोत्रान् …. शर्मणः रुद्ररूपान् अस्मत्पितामहान् स्वधा नमस्तर्ययामि ।

इति पूर्ववत् ॥

मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माद्ध्वी᳚र्नस्स॒न्त्वोष॑धीः ॥ [[TODO:परिष्कार्यम्??]]

…गोत्रान् … शर्मणः आदित्यरूपान् अस्मत्प्रपितामहान् स्वधा नमस्तर्ययामि ।

मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑वँ॒ रजः॑ । मधु॒ द्यौर॑स्तु॒ नः पि॒ता ॥

…गोत्रान् … शर्मणः आदित्यरूपान् अस्मत्प्रपितामहान् स्वधा नमस्तर्ययामि ।

मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ । माद्ध्वी॒र्गावो॑ भवन्तु नः ॥

….गोत्रान् … शर्मणः आदित्यरूपान् अस्मत्प्रपितामहान् स्वधा नमस्तर्ययामि ।

…. गोत्राः …. नाम्नीः अस्मन्मातॄः वसुपत्नीरूपिणीः स्वधा नमस्तर्पयामि (त्रिः) … गोत्राः … नाम्नीः अस्मत्पितामहीः रुद्रपत्नीरूपिणीः स्वधा नमस्तर्पयामि (त्रिः) ..गोत्राः .. नाम्नीः अस्मत्प्रपितामहीः आदित्यपत्नीरूपिणीः स्वधा नमस्तर्पयामि (त्रिः)

[[164]]

पश्चिमदर्भेषु

पश्चिमदर्भेषु

उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तर॑स्सो॒म्यासः॑ ।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्तेनो॑वन्तु पि॒तरो॒ हवे॑षु ॥ [[TODO:परिष्कार्यम्??]]

…. गोत्रान् …. शर्मणः वसुरूपान् अस्मन्मातुःपितॄन् स्वधा नमस्तर्ययामि ।

इति त्रिः तिलोदकं दत्त्वा ।

अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वस्सो॒म्यासः॑ ।
तेषां᳚ व॒यँ सु॑प॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥ [[TODO:परिष्कार्यम्??]]

…. गोत्रान् …. शर्मणः वसुरूपान् अस्मन्मातुःपितॄन् स्वधा नमस्तर्ययामि ।

इति त्रिः तिलोदकं दत्त्वा ।

आय॑न्तु नः पि॒तर॑स्सो॒म्यासौ᳚ऽग्निष्वा॒त्ताः प॒थिर्भिर्देव॒यानैः᳚ ।
अ॒स्मिन् य॒ज्ञे स्व॒धया॑ मद॒न्त्वधि॑ ब्रुवन्तु॒ ते अव॑न्त्व॒स्मान् ॥ [[TODO:परिष्कार्यम्??]]

…गोत्रान् … शर्मणः वसुरूपान् अस्मन्मातुःपितॄन् स्वधा नमस्तर्ययामि ।

इति त्रिः तिलोदकं दत्त्वा ।

ऊर्जं॒ वह॑न्तीर॒मृतं᳚ घृ॒तं पयः॑ की॒लालं᳚ परि॒स्रुत᳚म् ।
स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ॥ [[TODO:परिष्कार्यम्??]]

…गोत्रान् … शर्मणः रुद्ररूपान् अस्मन्मातुःपितामहान् स्वधा नमस्तर्ययामि ।

इति पूर्ववत् ॥

[[165]]

पि॒तृभ्य॑स्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ । पि॒ता॒म॒हेभ्य॑स्स्वधा॒विभ्य॑स्स्व॒धा नमः॑ । प्रपि॑तामहेभ्यस्स्व॒धाविभ्य॑स्स्वधा मपः॑ । अक्ष॑न्पि॒तरः॑ ॥ [[TODO:परिष्कार्यम्??]]

…गोत्रान् … शर्मणः रुद्ररूपान् अस्मन्मातुःपितामहान् स्वधा नमस्तर्ययामि ।

इति पूर्ववत् ॥

ये चे॒ह पि॒तरो॒ ये च॒ नेह॒ याँश्च॑ वि॒द्म याँ उ॑ च॒न प्र॑वि॒द्म ।
अग्ने॒ तान्वे᳚त्थ॒ यदि॒ ते जा॑तवेद॒स्तया᳚ प्र॒त्थँस्व॒धया॑ मदन्तु॒ ॥ [[TODO:परिष्कार्यम्??]]

..गोत्रान् … शर्मणः रुद्ररूपान् अस्मन्मातुःपितामहान् स्वधा नमस्तर्ययामि ।

इति पूर्ववत् ॥

मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माद्ध्वी᳚र्नस्स॒न्त्वोष॑धीः ॥ [[TODO:परिष्कार्यम्??]]

..गोत्रान् .. शर्मणः आदित्यरूपान् अस्मन्मातुःप्रपितामहान् स्वधा नमस्तर्ययामि ।

मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑वँ॒ रजः॑ । मधु॒ द्यौर॑स्तु॒ नः पि॒ता ॥ [[TODO:परिष्कार्यम्??]]

..गोत्रान् .. शर्मणः आदित्यरूपान् अस्मन्मातुःप्रपितामहान् स्वधा नमस्तर्ययामि ।

मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ । माद्ध्वी॒र्गावो॑ भवन्तु नः ॥ [[TODO:परिष्कार्यम्??]]

.. गोत्रान् .. शर्मणः आदित्यरूपान् अस्मन्मातुःप्रपितामहान् स्वधा नमस्तर्पयामि ।

..गोत्राः… नाम्नीः अस्मन्मातामहीः वसुपत्नीरूपिणीः स्वधा नमस्तर्पयामि (त्रिः) ..गोत्राः …नाम्नीः अस्मन्मातुःपितामहीः रुद्रपत्नीरूपिणीः स्वधा नमस्तर्पयामि (त्रिः)
..गोत्राः..नाम्नीः अस्मन्मातुःप्रपितामहीः आदित्यपत्नीरूपिणीः स्वधा नमस्तर्पयामि (त्रिः)

[[166]]

पितृवंश्या मातृवंश्या ये चान्ये मत्त उदकमर्हन्ति, तान् स्वधा नमस्तर्पयामि

इति उभयेषु दर्भेषु त्रिरुदकाञ्जलिं दत्त्वा

ऊर्जं॒ वह॑न्तीर॒मृतं᳚ घृ॒तं पयः॑ की॒लालं᳚ परि॒स्रुत᳚म् ।
स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् । [[TODO:परिष्कार्यम्??]]

इति उभयान् दर्भान् तिलोदकेन परिषिच्य, तृप्यत तृप्यत तृप्यत …. इति त्रिः उच्चार्य (त्रीन् उदकाञ्जलीन् दत्त्वा) उत्थाय दक्षिणाभिमुखः तिष्ठन्न् अञ्जलिं बद्ध्वा, उपवीती - (‘तृप्यध्वम्’ इति त्रिरुच्चार्य),

नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितर॒श्शुष्मा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरस्स्व॒धायै॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितरो घो॒राय॒ पित॑रो नमो॑ वो॒ य ए॒तस्मिन्ल्लो॒के स्थ यु॒ष्याँस्तेऽनु॒, ये᳚ऽस्मिन् लो॒के मां तेऽनु॒, य ए॒तस्मि॑न्ल्लो॒के स्थ यू॒यं तेषां॒ वसि॑ष्ठा भूयास्त॒ ये᳚ऽस्मिन्ल्लो॒के॑ऽहं तेषां॒ वसि॑ष्ठो भूयासम् ॥ [[TODO:परिष्कार्यम्??]]

इत्युपस्थाय, उपवीती, सम्भवे प्रदक्षिणमपि कृत्वा, प्रणम्य, अभिवाद्य, आचम्य, प्राचीनावीती - (भुग्नादिकमवमुच्य, तिलैः) ‘वर्गद्वयपितॄन् यथास्थानं प्रतिष्ठापयामि’ इति

येषां न पिता न भ्राता न बन्धुः नान्यगोत्रिणः ।
ते तृप्तिमखिलं यान्तु मया त्यक्तैः कुशैस्तिलैः ॥

इति सकुशं (सतिलं) जलं दत्त्वा आचामेत् ॥

ये के चास्मत्कुले जाता अपुत्रा गोत्रजा मृताः ।
ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥

इति वस्त्रपिष्पीडनं कृत्वा, द्विराचम्य, सात्त्विकत्यागं कुर्यात् ॥
सङ्क्रमणादिषु मेषसङ्क्रमणविषुवपुण्यकालश्राद्धप्रतिनिधितिलतर्पणमिति रीत्या सङ्कल्प्यः ॥

[[167]]