०१ धार्याग्निनाशे

दिवा रात्रौ वा भोजनात् पूर्वम् अग्निनाशे अग्निं सन्धाय एककालमुपवसेत् । भोजनात्परं चेत् द्विकालमुपवसेत् । अमेध्यादिना स्पृष्टेऽन्यैरपहते वा अग्नौ एवं स्वयमेव नष्टेऽग्नौ उपवासं वा ‘अयाश्चाग्नेऽसी’त्याहुतिं वा कुर्यात् । सर्वत्राग्निसन्धाने सायमारभ्य आहुतिचतुष्टयं तन्त्रेणैव कुर्यात् । प्रतिमासं पादकृच्छ्रं कुर्यात् । पञ्चप्रस्थतण्डुलं पादप्रस्थघृतं च श्रोत्रियेभ्यो दद्यात् । प्रस्थपरिमाणं - द्वात्रिंशत्प्रसृतिः षोडशमुष्टिर्वा प्रस्थः ।