०८ "उदुत्तममि"ति वरुणसूक्तं,

०४ वारुणम् ...{Loading}...

सायणोक्त-विनियोगः

17अथ ‘यो वरुणगृहीतः स्यात्स एतं वारुणं कृष्णमेकशितिपादमालभेत’ इत्यस्य पशोर्वपापुरोडाशहविषु प्रत्येकं याज्यापुरोनुवाक्ययोः प्रतीके दर्शयति - ‘उदुत्तमं वरुणपाशम्’ इति वपायाः पुरोनुवाक्या, सा च ‘वैश्वानरः’ इत्यत्र व्याख्याता ।

मूलम्

उदु॑त्त॒मव्ँव॑रु॒णास्त॑भ्ना॒द्द्याम् ।

१५ उदुत्तमं वरुण ...{Loading}...

उदु॑त्त॒मं व॑रुण॒ पाश॑म् अ॒स्मद्
अवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय
अथा॑ व॒यम् आ॑दित्य व्र॒ते तवा
+ऽना॑गसो॒ अदि॑तये स्याम ॥३॥

015 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वरुणः
  • ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

उ꣡द् उत्तमं꣡ वरुण पा꣡शम् अस्म꣡द्
अ꣡वाधमं꣡ वि꣡ मध्यमं꣡ श्रथाय
अ꣡था वय꣡म् आदितिय व्रते꣡ त꣡व
अ꣡नागसो अ꣡दितये सियाम

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

asmát ← ahám (pronoun)
{case:ABL, number:PL}

pā́śam ← pā́śa- (nominal stem)
{case:ACC, gender:M, number:SG}

út ← út (invariable)
{}

uttamám ← uttamá- (nominal stem)
{case:ACC, gender:M, number:SG}

varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}

adhamám ← adhamá- (nominal stem)
{case:ACC, gender:M, number:SG}

áva ← áva (invariable)
{}

madhyamám ← madhyamá- (nominal stem)
{case:ACC, gender:M, number:SG}

śrathāya ← √śrathⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

ví ← ví (invariable)
{}

āditya ← ādityá- (nominal stem)
{case:VOC, gender:M, number:SG}

átha ← átha (invariable)
{}

táva ← tvám (pronoun)
{case:GEN, number:SG}

vayám ← ahám (pronoun)
{case:NOM, number:PL}

vraté ← vratá- (nominal stem)
{case:LOC, gender:N, number:SG}

áditaye ← áditi- (nominal stem)
{case:DAT, gender:F, number:SG}

ánāgasaḥ ← ánāgas- (nominal stem)
{case:NOM, gender:M, number:PL}

syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

पद-पाठः

उत् । उ॒त्ऽत॒मम् । व॒रु॒ण॒ । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म॒ध्य॒मम् । श्र॒थ॒य॒ ।
अथ॑ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव॑ । अना॑गसः । अदि॑तये । स्या॒म॒ ॥

Hellwig Grammar
  • ud
  • [adverb]
  • “up.”

  • uttamaṃuttamamuttama
  • [noun], accusative, singular, masculine
  • “best; excellent; highest; better; extreme; last; first; topmost; chief(a); higher; highest; maximal; uttama [word]; prevailing; finest.”

  • varuṇa
  • [noun], vocative, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • pāśampāśa
  • [noun], accusative, singular, masculine
  • “noose; shackle; eye; pāśa [word]; fetter.”

  • asmadasmatmad
  • [noun], ablative, plural
  • “I; mine.”

  • avādhamaṃava
  • [adverb]
  • “down.”

  • avādhamaṃadhamamadhama
  • [noun], accusative, singular, masculine
  • “worst; bottom; despicable; worse; adhama [word]; last.”

  • vi
  • [adverb]
  • “apart; away; away.”

  • madhyamaṃmadhyamammadhyama
  • [noun], accusative, singular, masculine
  • “intermediate; middle; average; second; average; adult; central; moderate; mean; center(a).”

  • śrathāyaśrathāy√śrath
  • [verb], singular, Present imperative

  • athāatha
  • [adverb]
  • “now; then; furthermore; now; then.”

  • vayammad
  • [noun], nominative, plural
  • “I; mine.”

  • āditya
  • [noun], vocative, singular, masculine
  • “sun; Aditya; Surya; āditya [word].”

  • vratevrata
  • [noun], locative, singular, neuter
  • “vrata (vote); commandment; law; oath; command; rule; custom; vrata [word]; rule; behavior.”

  • tavānāgasotavatvad
  • [noun], genitive, singular
  • “you.”

  • tavānāgasoanāgasaḥanāgas
  • [noun], nominative, plural, masculine
  • “blameless; impeccant.”

  • aditayeaditi
  • [noun], dative, singular, feminine
  • “Aditi; aditi [word].”

  • syāmaas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

सायण-भाष्यम्

हे वरुण उत्तमम् उत्कृष्टं शिरसि बद्धं पाशम् अस्मत् अस्मत्तः उत् श्रथाय उत्कृष्य शिथिलं कुरु । अधमं निकृष्टं पादेऽवस्थितं पाशम् अव श्रथाय अधस्तादवकृष्य शिथिलीकुरु । मध्यमं नाभिप्रदेशगतं पाशं वि श्रथाय वियुज्य शिथिलीकुरु । अथ अनन्तरं हे आदित्य अदितेः पुत्र वरुण वयं शुनःशेपाः तव व्रते त्वदीये कर्मणि अदितये खण्डनराहित्याय अनागसः अपराधरहिताः स्याम भवेम ॥ उत्तमम् । तमपः पित्त्वादनुदात्तत्वेन आद्युदात्तत्वे प्राप्ते उत्तमशश्वत्तमौ सर्वत्र’ (पा. सू. ६. १. १६० ग. ) इति उञ्छादिषु पाठादन्तोदात्तत्वम् । अधमम् । अवद्यावमाधमार्वरेफाः कुत्सिते’ (उ. सू. ५. ७३२ ) इति अवतेः अमच्; वस्य धः। श्रथाय। श्रथ दौर्बल्ये’। संहितायां छान्दसो दीर्घः । तव । युष्मदस्मदोर्ङसि’ इत्याद्युदात्तत्वम् । अनागसः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। ‘नञ्सुभ्याम्’ इति तु व्यत्ययेन प्रवर्तते । यद्वा । आगस्शब्दात् ‘अस्मायामेधा ’ ( पा. सू. ५, २. १२१ ) इति मत्वर्थीयो विनिः । तस्य ‘विन्मतोर्लुक्’ ( पा. सू. ५. ३. ६५) इति लुक् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ १५ ॥

भट्टभास्कर-टीका

हे वरुण उत्तमं पाशमस्मत्सकाशादुच्छ्रथाय ऊर्ध्वमुच्छ्रथय । अधममवश्रथय अधस्तादवकृष्य नाशय । मध्यमं विश्रथय विष्वक्कृत्य नाशय । श्रथ दौर्बल्ये चुरादिरदन्तः, वर्णव्यत्ययेनोपान्त्यस्य दीर्घत्वम् ।

अत्र केचित् - उद्भूतादिभूत-मध्यस्थ-शक्तितया धर्मपाशानां त्रैविध्यम् आहुः । उत्तमाधम-मध्यम-देह-प्रभवतया त्वन्ये । ऊर्ध्वाधोमध्यम-गतिहेतुत्वेनापरे ।

अथानन्तरं वयमनागसः विमुक्तसर्वपापाः तव व्रते कर्मणि स्याम योग्या भवेम । अदितये अखण्डितत्वाय अदीनत्वाय वा स्यामेति । हे आदित्य अदितेः पुत्र । यद्वा - इत्थमनागसस्सन्तो वयमदितये अनभिशस्तये स्याम । किमर्थं? तव व्रते कर्मणि कर्मार्थं योग्यतार्थमिति । अनागस इति बहुव्रीहौ व्यत्ययेन ‘नञ्सुभ्याम्’ इति न प्रवर्तते, लुप्तमत्वर्थीयो वा अनागस्विन इति ॥


हे वरुण उत्तमं उत्तमफलप्राप्तिहेतुं ऊर्ध्वकर्षणं वा पाशं कर्मपाशं अस्मत्त उच्छ्रथाय ऊर्ध्वमुत्क्षिप्य उत्कृष्य नाशय । अधमं निकृष्टफलप्राप्तिहेतुं अधःपतनहेतुं वा कर्मपाशमवश्रथय अधस्तादपकृष्य नाशय । मध्यमं पाशं विश्रथय विष्वङ्नाना विकृष्य नाशय । अथैवं त्वया कृते वयमनागसः क्षालितसर्वकर्माणः तव व्रते कर्मणि उपासनात्मनि स्याम अदितये अखण्डितैश्वर्याय हे आदित्य देवानामादिभूत अदितेर्वा अपत्येति ॥

Wilson
English translation:

Varuṇa, loosen for me the upper, the middle, the lower band; so, son of Aditi, shall we, through faultlessness in the worship, become freed from siṇ”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Reference to the ligature fastening the head, the feet, and the waist; resulting in loosening from the bonds of sin: anāgasaḥ syāma, may we be sinless

Jamison Brereton

Loosen above the uppermost fetter from us, o Varuṇa, below the lowest, away the midmost.
Then under your commandment, o Āditya, we would be without
offense for Aditi [/Guiltlessness].

Griffith

Loosen the bonds, O Varuna, that hold me, loosen the bonds above, between, and under.
So in thy holy law may we made sinless belong to Aditi, O thou Aditya.

Keith

Unloose from us, O Varuna, the highest,
The lowest, the midmost knot;
Then may we, O Aditya [3], in thy rule,
Be guiltless before Aditi.

Geldner

Löse die oberste Schlinge von uns, o Varuna, löse die unterste ab, löse die mittlere auf! Dann wollen wir, Sohn der Aditi, in deinem Dienste vor Aditi sündlos sein.

Grassmann

O Varuna, lös’ ab von uns die Stricke, den untersten, den mittelsten und höchsten, Dann mögen wir in deinem Dienst, Aditja, von Schuld befreit, der Aditi gehören.

Elizarenkova

Вверх – верхнюю петлю с нас, о Варуна,
Вниз – нижнюю, посреди среднюю сними!
Тогда сможем мы, о Адитья, пребывать
В твоем завете безгрешные перед Несвязанностью!

अधिमन्त्रम् (VC)
  • वरुणः
  • शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
  • विराट्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर भी अगले मन्त्र में वरुण शब्द ही का प्रकाश किया है॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (वरुण) स्वीकार करने योग्य ईश्वर ! आप (अस्मत्) हम लोगों से (अधमम्) निकृष्ट (मध्यमम्) अर्थात् निकृष्ट से कुछ विशेष (उत्) और (उत्तमम्) अति दृढ़ अत्यन्त दुःख देनेवाले (पाशम्) बन्धन को (व्यवश्रथाय) अच्छे प्रकार नष्ट कीजिये (अथ) इसके अनन्तर हे (आदित्य) विनाशरहित जगदीश्वर ! (तव) उपदेश करनेवाले सब के गुरु आपके (व्रते) सत्याचरणरूपी व्रत को करके (अनागसः) निरपराधी होके हम लोग (अदितये) अखण्ड अर्थात् विनाशरहित सुख के लिये (स्याम) नियत होवें॥१५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जो ईश्वर की आज्ञा को यथावत् नित्य पालन करते हैं, वे ही पवित्र और सब दुःख बन्धनों से अलग होकर सुखों को निरन्तर प्राप्त होते हैं॥१५॥तेईसवें सूक्त के कहे हुए वायु आदि अर्थों के अनुकूल प्रजापति आदि अर्थों के कहने से इस चौबीसवें सूक्त की उक्त सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे वरुण ! त्वमस्मदधमं मध्यममुदुत्तमं पाशं व्यवश्रथाय दूरतो विनाशयाथेत्यनन्तरं हे आदित्य ! तव व्रत आचरिते सत्यनागसः सन्तो वयमदितये स्याम भवेम॥१५॥

दयानन्द-सरस्वती (हि) - विषयः

पुनः स एवार्थ उपदिश्यते।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (उत्) अपि (उत्तमम्) उत्कृष्टं दृढम् (वरुण) स्वीकर्त्तुमर्हेश्वर (पाशम्) बन्धनम् (अस्मत्) अस्माकं सकाशात् (अव) क्रियार्थे (अधमम्) निकृष्टम् (वि) विशेषार्थे (मध्यमम्) उत्तमाधमयोर्मध्यस्थम् (श्रथाय) शिथिलीकुरु। अत्र छन्दसि शायजपि। (अष्टा०३.१.८४) अनेन शायजादेशः। (अथ) अनन्तरार्थे। अत्र निपातस्य च इति दीर्घः। (वयम्) मनुष्यादयः प्राणिनः (आदित्य) विनाशरहित (व्रते) सत्याचरणादावाचरिते सति (तव) सत्योपदेष्टुस्सर्वगुरोः (अनागसः) अविद्यमान आगोऽपराधो येषां ते (अदितये) अखण्डितसुखाय (स्याम) भवेम॥१५॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - य ईश्वराज्ञां यथावत्पालयन्ति ते पवित्रास्सन्तः सर्वेभ्यो दुःखबन्धनेभ्यः पृथग्भूत्वा नित्यं सुखं प्राप्नुवन्ति नेतर इति॥१५॥त्रयोविंशसूक्तोक्तार्थानां वाय्वादीनामनुयोगिनां प्राजापत्यादीनामर्थानामत्र कथनादेतस्य चतुर्विंशस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति बोध्यम्॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - जे ईश्वराची आज्ञा यथायोग्य नित्य पाळतात, तेच पवित्र असतात व सर्व दुःखबंधनांतून पृथक होऊन निरंतर सुख प्राप्त करतात.

अस्तभ्नाद् द्याम् ...{Loading}...

अस्त॑भ्ना॒द् द्याम् ऋ॑ष॒भो+++(=वर्षिता)+++ अ॒न्तरि॑ख्ष॒म्
अमि॑मीत वरि॒माण॑म्+++(=उरुत्वम्)+++ पृथि॒व्याः +++(सूर्यग्रहणेन?)+++।
आसी॑द॒द् विश्वा॒ भुव॑नानि स॒म्राड्+++(=सङ्गतदीप्तिः [सोमः])+++
विश्वेत् तानि॒ वरु॑णस्य+++(=वारकस्य)+++ व्र॒तानि॑॥

अस्तभ्नाद् द्याम् ...{Loading}...
Keith

The bull hath stablished the sky, the atmosphere;
Hath meted the breadth of the earth;
Hath set him in all worlds as king.
All these are Varuna’s ordinances.

मूलम् (संयुक्तम्)

अस्त॑भ्ना॒द् द्यामृ॑ष॒भो अ॒न्तरि॑ख्ष॒ममि॑मीत वरि॒माण॑म्पृथि॒व्या आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि

मूलम्

अस्त॑भ्ना॒द्द्यामृ॑ष॒भो अ॒न्तरि॑ख्ष॒म्
अमि॑मीत वरि॒माण॑म्पृथि॒व्याः ।
आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्
विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ।

भट्टभास्कर-टीका

अमिमीतेति द्वितीयस्य पादस्यादिः, अत एव न निहन्यते । अस्तभ्नात् स्तब्धां दृढामकरोत् द्यां द्युलोकम् । ऋषभो वर्षिता अन्तरिक्षममिमीत मितवान् निर्मितवान् । वरिमाणं पृथिव्याः वरिमाणं उरुत्वम् । ‘प्रियस्थिर’ इत्यादिना वरादेशः । यद्वा - वरिमाणं वारकत्वम् । ‘अन्येभ्योपि दृश्यन्ते’ इति मनिन्, उञ्छादिर्द्रष्टव्यः । आसीदत् व्याप्तवान् वर्षेण । विश्वा विश्वानि च भुवनानि भूतजातानि आसीदत् इत्येव । यद्वा - अन्तरिक्षममिमीत वरिमाणं च पृथिव्या अमिमीतेत्येव । विश्वानि भुवनानि आसीदत् इत्यन्तर्भावितण्यर्थो वा आसादयति विश्वानि भुवनानीति । ‘शेश्छन्दसि बहुऌअम्’ इति लुक् । सम्राट् सङ्गतदीप्तिः । ‘मो राजि समः क्वौ’ इति मकारः । यान्येवंविधानि तानि विश्वान्येव वरुणस्य वारकस्य सोमस्य व्रतानि वीर्याणि कर्माणि, त्वमेवेन्द्रो भूत्वा तथा तथा कृतवानित्यर्थः । ‘वारुण्यर्चा सादयति’ इत्यादि ब्राह्मणम् ॥

सायणोक्त-विनियोगः

‘यत्किंचेदं वरुण’ इति पुरोडाशस्य पुरोनुवाक्या, ‘कितवासो यद्रिरिपुः’ इति याज्या, तदुभयं ‘त्वमग्ने बृहत्’ इत्यत्र व्याख्यातम् ।

मूलम्

यत्किञ्चे॒दङ्कि॑त॒वासः॑ ।

०५ यत्किं चेदं ...{Loading}...

यत् किं चे॒दं व॑रुण॒ दैव्ये॒+++(←देव+यञ्)+++ जने॑+++(देवेषु)+++,
ऽभिद्रो॒हं म॑नु॒ष्या॑श् चरा॑मसि।
अचि॑त्ती॒ यत् तव॒ धर्मा॑ युयोपि॒म+++(विनाशयामः)+++,
मा न॒स् तस्मा॒द् एन॑सो देव रीरिषः ॥

005 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वरुणः
  • ऋषिः - वसिष्ठः
  • छन्दः - जगती
Thomson & Solcum

य꣡त् किं꣡ चेदं꣡ वरुण दइ꣡विये ज꣡ने
अभिद्रोह꣡म् मनुषि꣡याश् च꣡रामसि
अ꣡चित्ती य꣡त् त꣡व ध꣡र्मा युयोपिम꣡
मा꣡ नस् त꣡स्माद् ए꣡नसो देव रीरिषः

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

ca ← ca (invariable)
{}

daívye ← daívya- (nominal stem)
{case:LOC, gender:M, number:SG}

idám ← ayám (pronoun)
{case:NOM, gender:N, number:SG}

jáne ← jána- (nominal stem)
{case:LOC, gender:M, number:SG}

kím ← ká- (pronoun)
{case:NOM, gender:N, number:SG}

varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

abhidrohám ← abhidrohá- (nominal stem)
{case:ACC, gender:M, number:SG}

cárāmasi ← √carⁱ- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:ACT}

manuṣyā̀ḥ ← manuṣyà- (nominal stem)
{case:NOM, gender:M, number:PL}

ácittī ← ácitti- (nominal stem)
{case:INS, gender:F, number:SG}

dhárma ← dhárman- (nominal stem)
{case:ACC, gender:N, number:PL}

táva ← tvám (pronoun)
{case:GEN, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

yuyopimá ← √yup- (root)
{number:PL, person:1, mood:IND, tense:PRF, voice:ACT}

deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

énasaḥ ← énas- (nominal stem)
{case:ABL, gender:N, number:SG}

mā́ ← mā́ (invariable)
{}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

rīriṣaḥ ← √riṣ- (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}

tásmāt ← sá- ~ tá- (pronoun)
{case:ABL, gender:M, number:SG}

पद-पाठः

यत् । किम् । च॒ । इ॒दम् । व॒रु॒ण॒ । दैव्ये॑ । जने॑ । अ॒भि॒ऽद्रो॒हम् । म॒नु॒ष्याः॑ । चरा॑मसि ।
अचि॑त्ती । यत् । तव॑ । धर्म॑ । यु॒यो॒पि॒म । मा । नः॒ । तस्मा॑त् । एन॑सः । दे॒व॒ । रि॒रि॒षः॒ ॥

Hellwig Grammar
  • yatyad
  • [noun], accusative, singular, neuter
  • “who; which; yat [pronoun].”

  • kiṃkimka
  • [noun], accusative, singular, neuter
  • “what; who; ka [pronoun].”

  • cedaṃca
  • [adverb]
  • “and; besides; then; now; even.”

  • cedaṃidam
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); here.”

  • varuṇa
  • [noun], vocative, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • daivyedaivya
  • [noun], locative, singular, masculine
  • “divine; divine; celestial.”

  • janejana
  • [noun], locative, singular, masculine
  • “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”

  • ‘bhidrohamabhidrohamabhidroha
  • [noun], accusative, singular, masculine
  • “misdemeanor.”

  • manuṣyāśmanuṣyāḥmanuṣya
  • [noun], nominative, plural, masculine
  • “man; people; man; manuṣya [word].”

  • carāmasicar
  • [verb], plural, Present indikative
  • “car; wander; perform; travel; bore; produce; make; dwell; dig; act; observe; enter (a state); observe; cause; crop; behave; practice; heed; process; administer.”

  • acittīacitti
  • [noun], instrumental, singular, feminine
  • “ignorance.”

  • yat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • tavatvad
  • [noun], genitive, singular
  • “you.”

  • dharmādharman
  • [noun], accusative, plural, neuter
  • “regulation; Dharma; law; property.”

  • yuyopimayup
  • [verb], plural, Perfect indicative

  • [adverb]
  • “not.”

  • nasnaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • tasmādtasmāttad
  • [noun], ablative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • enasoenasaḥenas
  • [noun], ablative, singular, neuter
  • “sin; calamity; blame.”

  • deva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • rīriṣaḥriṣ
  • [verb], singular, Aorist inj. (proh.)
  • “suffer; harm.”

सायण-भाष्यम्

हे वरुण दैव्ये देवसमूहरूपे जने यत् इदं किंचन अभिद्रोहम अपकारजातं मनुष्याः वयं चरामसि चरामः निर्वर्तयामः । तथा अचित्ती अचित्त्याज्ञानेन तव त्वदीयं यत् धर्म धारकं कर्म युयोपिम वयं विमोहितवन्तः । हे देव तस्मादेनसः पापात् नः अस्मान मा रीरिषः मा हिंसीः ॥ ॥ ११ ॥ ॥५॥

Wilson
English translation:

“Whatever the offence which we men commit Varuṇa against divine beings, whatever law of yours wemay through ignorance violate, do not you, divine Varuṇa, punish us on account of that iniquity.”

Jamison Brereton

Whatever this deceit that we humans practice against the divine race, o Varuṇa,
if by inattention we have erased your ordinances, do not harm us
because of that guilt, o god.

Griffith

O Varuna, whatever the offence may be which we as men commit against the heavenly host,
When through our want of thought we violate thy laws, punish us not, O God, for that iniquity.

Geldner

Was wir Menschen auch als Frevel am göttlichen Volke hier begehen, o Varuna, wenn wir unwissentlich deine Gesetze gestört haben, so sollst du um dieser Sünde willen uns nicht zu Schaden bringen, o Gott.

Grassmann

Was wir auch hier, o Varuna, nach Menschen Art für Unrecht üben am Geschlecht der Himmlischen, wenn wir verletzten dein Gesetz aus Unverstand, so strafe nicht um diese Sünde uns, o Gott.

Elizarenkova

Если против божественного рода, о Варуна, какой-нибудь
Проступок мы, люди, здесь совершаем,
Или если по неразумению нарушили твои законы,
Не карай нас, о бог, за этот грех!

अधिमन्त्रम् (VC)
  • वरुणः
  • वसिष्ठः
  • पादनिचृज्ज्गती
  • निषादः
आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (वरुण) हे परमात्मन् ! (दैव्ये, जने) मनुष्यसमुदाय में (यत्, किञ्च) जो कुछ (इदं) यह (अभिद्रोहं) द्वेष का भाव (मनुष्याः) हम मनुष्य लोग (चरामसि) करते हैं और (अचित्ती) अज्ञानी होकर (यत्) जो (तव) तुम्हारे (धर्म्मा) धर्म्मों को (युयोपिम) त्यागते हैं, (तस्मादेनसः) उन पापों से (देव) हे देव ! (नः) हमको (मा, रीरिषः) मत त्यागिये॥५॥

आर्यमुनि - भावार्थः

भावार्थभाषाः - इस मन्त्र में उन पापों से क्षमा माँगी गई है, जो अज्ञान से किये जाते हैं अथवा यों कहो कि जो प्रत्यवायरूप पाप हैं, उनके विषय में यह क्षमा की प्रार्थना है। परमात्मा ऐसे पाप को क्षमा नहीं करता, जिससे उसके न्यायरूपी नियम पर दोष आवे, किन्तु यदि कोई पुरुष परमात्मा के सम्बन्ध-विषयक अपने कर्त्तव्य को पूरा नहीं करता, उस पुरुष को अपने सम्बन्धविषयक परमात्मा क्षमा कर देता है। अन्यविषयक किये हुए पाप को क्षमा करने से परमात्मा अन्यायी ठहरता है। वैदिक धर्म्म में यह विशेषता है कि इसमें अन्य धर्म्मों के समान सब पापों की क्षमा करने से परमात्मा अन्यायकारी ठहरता है, इसी अभिप्राय से मन्त्र में ‘तव धर्म्मा’ यह कथन किया है कि परमात्मा के सम्बन्ध में सन्ध्या-वन्दनादि जो कर्म्म हैं, उनमें त्रुटि होने से भी परमात्मा क्षमा कर देता है, अन्यों से नहीं ॥ जो लोग आर्य्यधर्म्म में यह दोष लगाया करते हैं कि वैदिक धर्म्म में परमात्मा सर्वथा निर्दयी है, वह किसी विषय में भी दया नहीं करता। यह उनकी अत्यन्त भूल है और अज्ञान से किये हुए पाप में भी परमात्मा क्षमा कर देता है, इस बात को मन्त्र में स्पष्ट रीति से वर्णन किया है। कई एक टीकाकारों ने इस प्रकरण को वरुण देवता की उपासना करने में और जल में डूबते हुए पुरुष के बचाने के विषय में लगाया है और ऐसे अर्थ करने में उन्होंने अत्यन्त भूल की है। जब इस प्रकरण में ऐसी-ऐसी दर्शन की उच्च बातों का वर्णन है कि परमात्मा किन-किन पापों को क्षमा करता है और किन-किन को नहीं, तो इस में जल में डूबनेवाले पुरुष की क्या कथा ? इसलिये पूर्व मन्त्र में ‘अपां मध्ये’ के अर्थ प्राणमयकोष के हैं अथवा ‘अपां’ के अर्थ कर्मों में बद्ध जीव के हैं क्योंकि यह संगति इस ११ वें मन्त्र से है और इस वर्ग की समाप्ति तक यही प्रकरण है। जो लोग यह कहा करते हैं वि वेदों में कर्त्तव्य कर्म्मों का विधान नहीं, वेद प्राकृत बातों का वर्णन करते हैं, उनको ऐसे सूक्तों का ध्यान रखना अत्यन्त आवश्यक है ॥५॥ यह ८९वाँ सूक्त, ५वाँ अनुवाक और ११वाँ वर्ग समाप्त हुआ ॥

आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (वरुण) हे परमात्मन् ! (दैव्ये, जने) सतां समुदाये (यत्, किञ्च) यत् किञ्चिदपि (इदम्) एतत् (अभि, द्रोहम्) द्वेषभावं (मनुष्याः) वयं नरः (चरामसि) कुर्मः, तथा (अचित्ती) ज्ञानरहितः सन् (यत्) यत्किञ्चित् (तव) ते (धर्मा) धर्मं (युयोपिम) त्यजामि (तस्मात्, एनसः) ततोऽपराधात् (देव) हे दिव्यात्मन् ! (नः) अस्मान् (मा, रीरिषः) मा हिंसीः ॥५॥ एकोननवतितमं सूक्तं पञ्चमोऽनुवाक एकादशो वर्गश्च समाप्तः।

०८ कितवासो यद्रिरिपुर्न ...{Loading}...

+++(ऋत्विजः)+++ कि॒त॒वासो॒ यद् रि॑रि॒पुर्+++(=लिलिपुः)+++ न दी॒वि+++(देवकर्मणि)+++,
यद् वा॑ ऽघा स॒त्यम् उ॒त यन् न वि॒द्म ।
सर्वा॒ ता विष्य॑+++(=विनाशय)+++ शिथि॒रेव॑+++(=शिथिला +इव)+++
दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑ ॥

008 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वरुणः
  • ऋषिः - भौमोत्रिः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

कितवा꣡सो य꣡द् रिरिपु꣡र् न꣡ दीवि꣡
य꣡द् वा घा सत्य꣡म् उत꣡ य꣡न् न꣡ विद्म꣡
स꣡र्वा ता꣡ वि꣡ ष्य शिथिरे꣡व देव
अ꣡धा ते स्याम वरुण प्रिया꣡सः

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

dīví ← dī́v- (nominal stem)
{case:LOC, gender:F, number:SG}

kitavā́saḥ ← kitavá- (nominal stem)
{case:NOM, gender:M, number:PL}

ná ← ná (invariable)
{}

riripúḥ ← √rip- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

gha ← gha (invariable)
{}

ná ← ná (invariable)
{}

satyám ← satyá- (nominal stem)
{case:NOM, gender:N, number:SG}

utá ← utá (invariable)
{}

vā ← vā (invariable)
{}

vidmá ← √vid- 2 (root)
{number:PL, person:1, mood:IND, tense:PRF, voice:ACT}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}

deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}

iva ← iva (invariable)
{}

sárvā ← sárva- (nominal stem)
{case:ACC, gender:N, number:PL}

śithirā́ ← śithirá- (nominal stem)
{case:ACC, gender:N, number:PL}

sya ← √sā- ~ si- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

tā́ ← sá- ~ tá- (pronoun)
{case:ACC, gender:N, number:PL}

ví ← ví (invariable)
{}

ádha ← ádha (invariable)
{}

priyā́saḥ ← priyá- (nominal stem)
{case:NOM, gender:M, number:PL}

syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

te ← tvám (pronoun)
{case:DAT, number:SG}

varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}

पद-पाठः

कि॒त॒वासः॑ । यत् । रि॒रि॒पुः । न । दी॒वि । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म ।
सर्वा॑ । ता । वि । स्य॒ । शि॒थि॒राऽइ॑व । दे॒व॒ । अध॑ । ते॒ । स्या॒म॒ । व॒रु॒ण॒ । प्रि॒यासः॑ ॥

Hellwig Grammar
  • kitavāsokitavāsaḥkitava
  • [noun], nominative, plural, masculine
  • “gambler; deceiver; thorn apple; kitava [word].”

  • yadyat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • riripurriripuḥrip
  • [verb], plural, Perfect indicative

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • dīvidīv
  • [noun], locative, singular, feminine
  • “gambling.”

  • yadyat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • [adverb]
  • “or; optionally; either.”

  • ghāgha
  • [adverb]

  • satyamsatya
  • [noun], accusative, singular, neuter
  • “true; real; real; faithful; good.”

  • uta
  • [adverb]
  • “and; besides; uta [indecl.]; similarly; alike; even.”

  • yanyat
  • [adverb]
  • “once [when]; because; that; if; how.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • vidmavid
  • [verb], plural, Perfect indicative
  • “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”

  • sarvāsarva
  • [noun], accusative, plural, neuter
  • “all(a); whole; complete; sarva [word]; every(a); each(a); all; entire; sāṃnipātika; manifold; complete; all the(a); different; overall.”

  • tad
  • [noun], accusative, plural, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • vi
  • [adverb]
  • “apart; away; away.”

  • ṣyasya
  • [verb], singular, Present imperative
  • “tie.”

  • śithirevaśithirāśithira
  • [noun], accusative, plural, neuter
  • “flexible; flexible.”

  • śithirevaiva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • devādhādeva
  • [noun], vocative, singular, masculine
  • “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”

  • devādhāadhāadha
  • [adverb]
  • “then; and; therefore; now.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • syāmaas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • varuṇa
  • [noun], vocative, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • priyāsaḥpriya
  • [noun], nominative, plural, masculine
  • “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”

सायण-भाष्यम्

कितवासः कितवा द्यूतकृतः “किन् तवास्ति? सर्वं मया जितम्” इति वदतीति कितवः,
न दीवि न देवने द्यूते यथा
यद् रिरिपुः लेपयन्ति - पापम् आरोपयन्ति - यद् अस्मासु द्वेष्टारो मयि त्वम् एतत् पापम् अकरोर् इत्य् आक्षिपन्ति,
अत्र पुरस्ताद् उपचारो ऽपि -कार उपमार्थीयः
वा अथवा घेति पूरणः यत् पापं सत्यं आरोपम् अन्तरेण कृतवन्तः स्म
उत अपिच यत् कृतं पापं न विद्म न जानीमः
ताः तानि सर्वा सर्वाणि शिथिरेव शिथिलानीव शिथिल-बन्धनानि फलानीव विष्य मोचय (स्यतिर् उपसृष्टो विमोचने)
हे देव अथ अनन्तरं ते तव प्रियासः प्रियाः स्याम भवेम ॥ ८ ॥

Wilson
English translation:

“If, like gamesters, who cheat at plural y, (we commit offences) knowingly, or (those) of which we know not, do you divine Varuṇa, extricate us from them all, as if from loosened (bonds), so that we may be dear, Varuṇa, to you.”

Jamison Brereton

If (we have cheated) as gamblers cheat in a dice game, whether overtly or whether we are unaware,
unbind all these things (so they will be) like loose things, o god. Then would we be dear to you, Varuṇa.

Griffith

If we, as gamesters cheat at play, have cheated, done wrong unwittingly or sinned of purpose,
Cast all these sins away like loosened fetters, and, Varuna let us be thine own beloved.

Geldner

Wenn wir wie Spieler bei dem Spiele betrogen haben, ob wir es gewiß wissen, ob nicht, all das löse von uns wie lockere Bande, o Gott! So mögen wir deine Lieblinge sein, o Varuna.

Grassmann

Wenn wir getäuscht beim Spiel wie falsche Spieler, wenn wir gefehlt, unwissend oder wissend, Was uns verstrickt, das alles löse du uns, Gott Varuna, und wieder sei’n wir lieb dir.

Elizarenkova

Если мы обманули, как игроки в игре,
Будь то сознательно, или если мы не знали,
Всё это развяжи, о бог, (чтобы стало это) словно незатянутым!
Пусть станем мы милыми тебе, о Варуна!

अधिमन्त्रम् (VC)
  • वरुणः
  • अत्रिः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

कौन से मनुष्य सत्कार और कौन तिरस्कार करने योग्य हैं, इस विषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (वरुण) श्रेष्ठ (देव) विद्वन् ! (यत्) जो (कितवासः) जुआ करनेवाले (दीवि) जुआरूप कर्म्म में (न) नहीं (रिरिपुः) आरोपित करते हैं (वा) अथवा (यत्) जिस (सत्यम्) श्रेष्ठों में श्रेष्ठ को (उत) तर्क वितर्क से (न) न (विद्म) जानें और (यत्) जिसे (घा) ही नहीं जानें (ता) उन (सर्वा) सम्पूर्णों को (शिथिरेव) जैसे शिथिल वैसे आप (वि, स्य) अन्त करिये जिससे (अधा) इसके अनन्तर हम लोग (ते) आपके (प्रियासः) प्रसन्न प्यारे (स्याम) होवें ॥८॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे मनुष्यो ! जो छली मनुष्य जुआ आदि कर्म्म करें, वे ताड़ना करने योग्य और जो सत्य आचरण करें, वे सत्कार करने योग्य हैं ॥८॥ इस सूक्त में राजा, ईश्वर, मेघ और विद्वान् के गुण कर्म वर्णन करने से इस सूक्त के अर्थ की इस से पूर्व सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये ॥ यह पच्चासीवाँ सूक्त और एकतीसवाँ वर्ग समाप्त हुआ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे वरुण देव ! यद्ये कितवासो दीवि न रिरिपुर्यद्वा सत्यमुत न विद्म यद् घा न विद्म ता सर्वा शिथिरेव त्वं विष्य यतोऽधा वयं ते प्रियासः स्याम ॥८॥

दयानन्द-सरस्वती (हि) - विषयः

के मनुष्याः सत्कर्त्तव्यास्तिरस्करणीयाश्चेत्याह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (कितवासः) द्यूतकाराः (यत्) ये (रिरिपुः) आरोपयन्ति (न) निषेधे (दीवि) द्यूतकर्म्मणि (यत्) (वा) (घा) एव। अत्र ऋचि तुनुघेति दीर्घः। (सत्यम्) सत्सु साधुम् (उत) (यत्) (न) (विद्म) (सर्वा) सर्वाणि (ता) तानि (वि) (स्य) अन्तं कुरु (शिथिरेव) यथा शिथिलाः (देव) विद्वन् (अधा) अत्र निपातस्य चेति दीर्घः। (ते) तव (स्याम) (वरुण) (प्रियासः) प्रसन्नाः ॥८॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे मनुष्या ! ये छलिनो मनुष्या द्यूतादिकर्म्म कुर्य्युस्ते ताडनीया ये च सत्यमाचरणं कुर्य्युस्ते सत्कर्त्तव्या इति ॥८॥ अत्र राजेश्वरमेघविद्वद्गुणकर्मवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति पञ्चाशीतितमं सूक्तमेकत्रिंशो वर्गश्च समाप्तः ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे माणसांनो! छळ कपट करणाऱ्या माणसांनी द्युत वगैरे कर्म केल्यास ती ताडना करण्यायोग्य असतात व जी सत्याचरण करतात ती सत्कार करण्यायोग्य असतात. ॥ ८ ॥

सायणोक्त-विनियोगः

‘अव ते हेडो वरुणः’ इति हविषः पुरोनुवाक्या, सा च ‘वैश्वानरो नः’ इत्यत्र व्याख्याता ।

मूलम्

अव॑ ते॒ हेड॒स्तत्त्वा॑ यामि ।

१४ अव ते ...{Loading}...

अव॑ ते॒ हेळो॑+++(←हेड् अवज्ञायां)+++ वरुण॒ नमो॑भि॒र्
अव॑ य॒ज्ञेभि॑र् ईमहे+++(→नयामः)+++ ह॒विर्भिः॑ ।
क्षय॑न्न्+++(=निवसन्)+++ अ॒स्मभ्य॑म् असुर प्रचेता॒
राज॒न्न् एनां॑सि शिश्रथः+++(=शिथिलीकुरु)+++ कृ॒तानि॑ ॥

014 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वरुणः
  • ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

अ꣡व ते हे꣡ळो वरुण न꣡मोभिर्
अ꣡व यज्ञे꣡भिर् ईमहे हवि꣡र्भिः
क्ष꣡यन्न् अस्म꣡भ्यम् असुर प्रचेता
रा꣡जन्न् ए꣡नांसि शिश्रथः कृता꣡नि

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

áva ← áva (invariable)
{}

héḷaḥ ← héḷas- (nominal stem)
{case:ACC, gender:N, number:SG}

námobhiḥ ← námas- (nominal stem)
{case:INS, gender:N, number:PL}

te ← tvám (pronoun)
{case:DAT, number:SG}

varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}

áva ← áva (invariable)
{}

havírbhiḥ ← havís- (nominal stem)
{case:INS, gender:N, number:PL}

īmahe ← √yā- 2 (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}

yajñébhiḥ ← yajñá- (nominal stem)
{case:INS, gender:M, number:PL}

asmábhyam ← ahám (pronoun)
{case:DAT, number:PL}

asura ← ásura- (nominal stem)
{case:VOC, gender:M, number:SG}

kṣáyan ← √kṣā- 2 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}

pracetaḥ ← prácetas- (nominal stem)
{case:VOC, gender:M, number:SG}

énāṁsi ← énas- (nominal stem)
{case:NOM, gender:N, number:PL}

kr̥tā́ni ← √kr̥- (root)
{case:NOM, gender:N, number:PL, non-finite:PPP}

rā́jan ← rā́jan- (nominal stem)
{case:VOC, gender:M, number:SG}

śiśrathaḥ ← √śrathⁱ- (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}

पद-पाठः

अव॑ । ते॒ । हेळः॑ । व॒रु॒ण॒ । नमः॑ऽभिः । अव॑ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । ह॒विःऽभिः॑ ।
क्षय॑न् । अ॒स्मभ्य॑म् । अ॒सु॒र॒ । प्र॒चे॒त॒ इति॑ प्रऽचेतः । राज॑न् । एनां॑सि । शि॒श्र॒थः॒ । कृ॒तानि॑ ॥

Hellwig Grammar
  • ava
  • [adverb]
  • “down.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • heḍoheḍaḥheḍas
  • [noun], accusative, singular, neuter
  • “wrath.”

  • varuṇa
  • [noun], vocative, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • namobhirnamobhiḥnamas
  • [noun], instrumental, plural, neuter
  • “adoration; court; namas [word]; bow; salute.”

  • ava
  • [adverb]
  • “down.”

  • yajñebhiryajñebhiḥyajña
  • [noun], instrumental, plural, masculine
  • “yajña; religious ceremony; Vishnu; yajña [word]; Yajña; Shiva.”

  • īmahei
  • [verb], plural, Present indikative
  • “go; travel; enter (a state); return; walk; continue; reach; ask.”

  • havirbhiḥhavis
  • [noun], instrumental, plural, neuter
  • “Havya; offering; ghee; havis [word].”

  • kṣayannkṣayankṣi
  • [verb noun], nominative, singular
  • “govern; inhabit; dwell; stay; predominate; bide; own.”

  • asmabhyammad
  • [noun], dative, plural
  • “I; mine.”

  • asura
  • [noun], vocative, singular, masculine
  • “Asura; lord; asura [word]; sulfur.”

  • pracetāpracetāḥpracetas
  • [noun], nominative, singular, masculine
  • “intelligent; mindful; attentive; wise; apt; observant.”

  • rājannrājan
  • [noun], vocative, singular, masculine
  • “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”

  • enāṃsienas
  • [noun], accusative, plural, neuter
  • “sin; calamity; blame.”

  • śiśrathaḥśrath
  • [verb], singular, Aorist inj. (proh.)

  • kṛtānikṛ
  • [verb noun], accusative, plural
  • “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”

सायण-भाष्यम्

अवभृथे - “ऽव ते हेळ” इति द्वे ऋचौ वारुणस्य हविषो याज्यानुवाक्ये । पत्नीसंयाजैश् चरित्वेति खण्डे सूत्रितम् - अव ते हेळो वरुण नमोभिरिति द्वे (आ ६-१३) इति ॥

हे वरुण ते तव हेळः क्रोधं नमोभिर् नमस्कारैर् अवेमहे - अवनयामः ।
तथा यज्ञैः साङ्गानुष्ठानेन पूज्यैर् हविर्भिर् अवेमहे । वरुणं परितोष्य क्रोधम् अपनयामः ।

हे असुर +अनिष्व् अक्षेपणशील प्रचेतः प्रकर्षेण प्रज्ञायुक्त राजन् दीप्यमान वरुण +अस्मभ्यम् अस्मदर्थं क्षयन्न् अस्मिन् कर्मणि निवसन् कृतान्य् अस्माभिर् अनुष्ठितान्य् एनांसि पापानि शिश्रथः । श्रथितानि शिथिलानि कुरु ॥ हेळः । असुनो नित्त्वादाद्युदात्तत्वम् । यज्ञेभिः । बहुलं छन्दसीत्यैसभावः । ईमहे । ईङ् गतौ । विकरणस्य लुक् । क्षयन् । क्षिनिवासगत्योः । लटः शतृ । व्यत्ययेन शप् । आमन्त्रिताद्युदात्तत्वम् । असुर । असेरुरन् (उ १-४३) आमन्त्रितनिघातः । शिश्रथः । श्रथ दौर्बल्ये । चुरादिरदन्तः । छान्दसे लुङि णिश्रिद्रुस्रुभ्यः (पा ३-१-४८) इति च्लेश्चङ् । द्विर्भावहलादिशेषौ । अग्लोपित्त्वात् सन्वद्भावाभावेऽपि (पा ७-४-९३) बहुलं छन्दसि (पा ७-४-७८) इत्यभ्यासस्येत्वम् । पूर्ववदडभावः ॥ १४ ॥

भट्टभास्कर-टीका

हे वरुण ते तव हेडः क्रोधम् अभिशस्त्यादिहेतुं नमोभिर् नमस्कारैरवेमहे अपनयामः । ई गतौ, शपो लुक् । यज्ञैश्च पूजामन्त्रैश्च हविर्भिः पुरोडाशादिभिश्चावेमहे अपनयामः ।

ततस् त्वम् अस्मभ्यम् अस्मद्-अर्थम् एव हे क्षयन्न् इव सन् अस्मद्-उपकारायैव यतमान ।
क्षियतेर् व्यत्ययेन शप्, क्षयतिरेव वा निवासकर्मा, षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ।
अस्मदीयानि कृतान्य् एनांसि पापानि शिश्रथः श्रथय हे असुर रक्षसां निरसितः प्रचेतः प्रकृष्टमते राजन् सदा दीप्यमान ॥


हे वरुण नमोभिः नमस्कारैर् अन्नैर् वा यज्ञैश्हविर्भिश् च हविष्मद्भिर् वा यज्ञैः तव हेडः क्रोधं अवेमहे अवनयामः । हे असुर प्राणप्रद प्रकृष्टचेतस्क राजन् अस्मभ्यम् अस्मदर्थं क्षयन् निवसन् अस्माकं कृतानि पापानि शिश्रथः श्लथयेति ॥

Wilson
English translation:

Varuṇa, we deprecate your wrath with prostrations, with sacrifices, with oblations; averter of misfortune, wise and illustrious, be present amongst us, and mitigate the evils we have committed.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

asura = aniṣṭa-kṣepaṇa-śila, accusative tomed to cast off what is undesired; from seme, to throw

Jamison Brereton

We beg to appease your anger by our acts of reverence, Varuṇa, appease it by our sacrifices and offerings.
Holding sway, o attentive lord and king, you will loosen for us the guilt we have created.

Griffith

With bending down, oblations, sacrifices, O Varuna, we deprecate thine anger:
Wise Asura, thou King of wide dominion, loosen the bonds of sins by us committed.

Keith

Thine anger, O Varuna, would we avert with reverence,
With sacrifices, with oblations
Ruling, O wise Asura, O king,
Do thou unloose the sins we have committed.

Geldner

Wir bitten dir den Groll ab, Varuna, mit Verbeugungen, mit Gebeten, mit Opferspenden. Du, der die Macht hat, einsichtsvoller Asura, König, erlaß uns die getanen Sünden!

Grassmann

O Varuna, wir wenden deinen Zorn ab, durch Opfer, durch Gebet, durch Trankesspenden, Der du die Macht hast, weiser, ew’ger König, erlasse uns die Sünden, die wir thaten.

Elizarenkova

Мы смягчаем твой гнев, о Варуна,
Поклонениями, жертвами, возлияниями.
О власть имеющий Асура-провидец,
О царь, сними с нас содеянные грехи!

अधिमन्त्रम् (VC)
  • वरुणः
  • शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर वह वरुण कैसा है, इस का उपदेश अगले मन्त्र में किया है॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (राजन्) प्रकाशमान ! (प्रचेतः) अत्युत्तम विज्ञान (असुर) प्राणों में रमने (वरुण) अत्यन्त प्रशंसनीय (अस्मभ्यम्) हमको विज्ञान देनेहारे भगवन् जगदीश्वर ! जिसलिये हम लोगों के (कृतानि) किये हुए (एनांसि) पापों को (क्षयन्) विनाश करते हुए (अवशिश्रथः) विज्ञान आदि दान से उनके फलों को शिथिल अच्छे प्रकार करते हैं, इसलिये हम लोग (नमोभिः) नमस्कार वा (यज्ञेभिः) कर्म उपासना और ज्ञान और (हविर्भिः) होम करने योग्य अच्छे-अच्छे पदार्थों से (ते) आपका (हेळः) निरादर (अव) न कभी (ईमहे) करना जानते और मुख्य प्राण की भी विद्या को चाहते हैं॥१४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - जिन मनुष्यों ने परमेश्वर के रचे हुए संसार में पदार्थ करके प्रकट किये हुए बोध से किये पाप कर्मों को फलों से शिथिल कर दिया, वैसा अनुष्ठान करें। जैसे अज्ञानी पुरुष को पापफल दुःखी करते हैं, वैसे ज्ञानी पुरुष को दुःख नहीं दे सकते॥१४॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे राजन् प्रचेतोऽसुर वरुणास्मभ्यं विज्ञानप्रदातो भगवन् यतस्त्वमस्मत्कृतान्येनांसि क्षयन् सन्नवशिश्रथस्तस्माद्वयं नमोभिर्यज्ञेभिस्ते तव हेळोऽवेमहे मुख्यप्राणस्य वा॥१४॥

दयानन्द-सरस्वती (हि) - विषयः

पुनः स कीदृश इत्युपदिश्यते।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अव) क्रियार्थे (ते) तव (हेळः) हिड्यते विज्ञायते प्राप्यते यः सः (नमोभिः) नमस्कारैरन्नैर्जलैर्वा। नम इत्यन्ननामसु पठितम्। (निघं०२.७) जलनामसु वा। (निघं०१.१२) (अव) पृथगर्थे (यज्ञेभिः) कर्मोपासनाज्ञाननिष्पादकैः कर्मभिः। अत्र बहुलं छन्दसि इति भिस ऐस् न। (ईमहे) बुध्यामहे (हविर्भिः) दातुं ग्रहीतुमर्हैः। अत्र अर्चिशुचिहुसृपि० (उणा०२.१०४) अनेन हु धातोरिसिः प्रत्ययः। (क्षयन्) विनाशयन् (अस्मभ्यम्) विद्यानुष्ठातृभ्यः (असुर) असुषु रमते तत्सम्बुद्धौ स वा (प्रचेतः) प्रकृष्टं चेतो विज्ञानं यस्य तत्सम्बुद्धौ स वा (राजन्) प्रकाशमान (एनांसि) पापानि (शिश्रथः) विज्ञानदानेन शिथिलानि करोतु (कृतानि) अनुचरितानि॥१४॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - यैर्मनुष्यैर्यथा परमेश्वररचितसृष्टौ विज्ञापितेन बोधेन कृतानि पापकर्माणि फलैः शिथिलायन्ते तथानुष्ठातव्यम्। यथा ज्ञानरहितं पुरुषं कर्मफलानि पीडयन्ति तथा नैव ज्ञानसहितं पीडयितुं समर्थानि भवन्तीति वेद्यम्॥१४॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - माणसांनी परमेश्वरनिर्मित संसारात निर्माण केलेले पदार्थ पाहून पापकर्माचे फल शिथिल होईल असे अनुष्ठान करावे. जसे अज्ञानी पुरुषाला पापफळ दुःखी करतात, तसेच ज्ञानी पुरुषाला दुःख देत नाहीत. ॥ १४ ॥

११ तत्त्वा यामि ...{Loading}...

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः

011 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - वरुणः
  • ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

त꣡त् त्वा यामि ब्र꣡ह्मणा व꣡न्दमानस्
त꣡द् आ꣡ शास्ते य꣡जमानो हवि꣡र्भिः
अ꣡हेळमानो वरुणेह꣡ बोधि
उ꣡रुशंस मा꣡ न आ꣡युः प्र꣡ मोषीः

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

bráhmaṇā ← bráhman- (nominal stem)
{case:INS, gender:N, number:SG}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

tvā ← tvám (pronoun)
{case:ACC, number:SG}

vándamānaḥ ← √vandⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

yāmi ← √yā- 2 (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}

ā́ ← ā́ (invariable)
{}

havírbhiḥ ← havís- (nominal stem)
{case:INS, gender:N, number:PL}

śāste ← √śās- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

yájamānaḥ ← √yaj- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}

áheḷamānaḥ ← áheḷamāna- (nominal stem)
{case:NOM, gender:M, number:SG}

bodhi ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}

ihá ← ihá (invariable)
{}

varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}

ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}

mā́ ← mā́ (invariable)
{}

moṣīḥ ← √muṣⁱ- (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

prá ← prá (invariable)
{}

úruśaṁsa ← uruśáṁsa- (nominal stem)
{case:VOC, gender:M, number:SG}

पद-पाठः

तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः । तत् । आ । शा॒स्ते॒ । यज॑मानः । ह॒विःऽभिः॑ ।
अहे॑ळमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु॑ऽशंस । मा । नः॒ । आयुः॑ । प्र । मो॒षीः॒ ॥

Hellwig Grammar
  • tattad
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • tvātvad
  • [noun], accusative, singular
  • “you.”

  • yāmi
  • [verb], singular, Present indikative
  • “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”

  • brahmaṇābrahman
  • [noun], instrumental, singular, neuter
  • “brahman; mantra; prayer; spell; Veda; Brahmin; sacred text; final emancipation; hymn; brahman [word]; Brāhmaṇa; study.”

  • vandamānasvandamānaḥvand
  • [verb noun], nominative, singular
  • “worship; laud.”

  • tadtattad
  • [noun], accusative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • śāsteśās
  • [verb], singular, Present indikative
  • “teach; govern; command; order; control; tell; recommend; chastize; instruct.”

  • yajamānoyajamānaḥyajamāna
  • [noun], nominative, singular, masculine
  • “Yajamāna.”

  • havirbhiḥhavis
  • [noun], instrumental, plural, neuter
  • “Havya; offering; ghee; havis [word].”

  • aheḍamānoa
  • [adverb]
  • “not; akāra; a [taddhita]; a [word]; a; a.”

  • aheḍamānoheḍamānaḥhīḍ
  • [verb noun], nominative, singular
  • “anger; stew.”

  • varuṇehavaruṇa
  • [noun], vocative, singular, masculine
  • “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”

  • varuṇehaiha
  • [adverb]
  • “here; now; in this world; now; below; there; here; just.”

  • bodhybodhibhū
  • [verb], singular, Aorist imperative
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • uruśaṃsauru
  • [noun]
  • “wide; broad; great; uru [word]; much(a); excellent.”

  • uruśaṃsaśaṃsa
  • [noun], vocative, singular, masculine
  • “praise; śaṃs; recitation.”

  • [adverb]
  • “not.”

  • nanaḥmad
  • [noun], genitive, plural
  • “I; mine.”

  • āyuḥāyus
  • [noun], accusative, singular, neuter
  • “life; longevity; āyus; life; āyus [word]; Āyus.”

  • pra
  • [adverb]
  • “towards; ahead.”

  • moṣīḥmuṣ
  • [verb], singular, Aorist inj. (proh.)
  • “rob; remove; steal.”

सायण-भाष्यम्

हे वरुण मुमूर्षुरहं त्वां प्रति तत् आयुः यामि याचे । कीदृशः । ब्रह्मणा प्रौढेन स्तोत्रेण वन्दमानः स्तुवन् । सर्वत्र यजमानः अपि हविर्भिः तत् आयुः शास्ते प्रार्थयते। त्वं च इह कर्मणि अहेळमानः अनादरमकुर्वन् बोधि अस्मदपेक्षितं बुध्यस्व । हे उरुशंस बहुभिः स्तुत्य नः अस्मदीयम् आयुः मा प्र मोषीः प्रमुषितं मा कुरु । सप्तदशसंख्याकेषु याञ्चाकर्मसु ’ ईमहे यामि ’ ( नि. ३.१९. १) इति पठितम् । चाशब्दलोपश्छान्दसः ॥ अहेळमानः । ’ हेडृ अनादरे ’ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे सति धातुस्वरः शिष्यते । ततो नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बोधि । ’ बुध अवगमने ’ । लोटः सेर्हिः । ’ बहुलं छन्दसि ’ इति विकरणस्य लुक् । ’ वा छन्दसि ’ ( पा सू ३.४. ८८) इति अपित्त्वाभावेन ङित्त्वाभावात् लघू- पधगुणः । ’ हुझल्म्यो हेर्धिः ’ इति हेर्धिरादेशः । धातोरन्त्यलोपश्छान्दसः । मोषीः । ’ मुष स्तेये ’ । लोडर्थे छान्दसो लुङ् । ’ वदव्रज’ ’ ( पा. सू ७.२. ३) इति प्राप्ताया वृद्धेः ’ नेटि ’ ( पा. सू ७ २. ४) इति प्रतिषेधे सति लघूपधगुणः । ’ बहुलं छन्दस्यमाङ्योगेऽपि ’ इति अडभावः ॥

Wilson
English translation:

“Praising you with (devout) prayer, I implore you for that (life) which the instrumental tutor of the sacrifice solicits with oblations; Varuṇa, undisdainful, bestow a thought upon us; much-lauded, take not away our existence.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

The term, tadāyus is supplied in the context of māna āyuḥ pramoṣiḥ = do not take away our life

Jamison Brereton

Extolling you with my formulation, I implore this of you; with his offerings the sacrificer hopes for this:
Become no longer angry now, Varuṇa! O you of wide fame, do not steal away our lifetime!

Griffith

I ask this of thee with my prayer adoring; thy worshipper craves this with his oblation.
Varuna, stay thou here and be not angry; steal not our life from us, O thou Wide-Ruler.

Geldner

Das erbitte ich, mit beschwörendem Worte freundlich zuredend, das wünscht sich der Opfernde mit seinen Opferspenden: Sei hier ohne Groll, Varuna! Du, dessen Worte weithin gelten, raub uns nicht das Leben!

Grassmann

Dies bitt’ ich dich, verehrend mit Gebeten, und darum wirbt mit Opfertrank der Opfrer: O Varuna, sei bei uns ohne Zürnen, weitherrschender, verkürz nicht unser Leben.

Elizarenkova

Вот зачем я иду к тебе, почитая (тебя) молитвой,
Вот чего хочет для себя жертвователь с жертвенными возлияниями:
Будь здесь, Варуна, не гневающимся!
О ты с широкой славой, не отними у нас срок жизни!

अधिमन्त्रम् (VC)
  • वरुणः
  • शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर वह वरुण कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (उरुशंस) सर्वथा प्रशंसनीय (वरुण) जगदीश्वर ! जिस (त्वा) आपका आश्रय लेके (यजमानः) उक्त तीन प्रकार यज्ञ करनेवाला विद्वान् (हविर्भिः) होम आदि साधनों से (तत्) अत्यन्त सुख की (आशास्ते) आशा करता है, उन आप को (ब्रह्मणा) वेद से स्मरण और अभिवादन तथा (अहेळमानः) आपका अनादर अर्थात् अपमान नहीं करता हुआ मैं (यामि) आपको प्राप्त होता हूँ, आप कृपा करके मुझे (इह) इस संसार में (बोधि) बोधयुक्त कीजिये और (नः) हमारी (आयुः) उमर (मा) (प्रमोषीः) मत व्यर्थ खोइये अर्थात् अति शीघ्र मेरे आत्मा को प्रकाशित कीजिये॥१॥११॥(तत्) सुख की इच्छा करता हुआ (यजमानः) तीन प्रकार के यज्ञ का अनुष्ठान करनेवाला जिस (उरुशंस) अत्यन्त प्रशंसनीय (वरुण) सूर्य को (आशास्ते) चाहता है (त्वा) उस सूर्य्य को (ब्रह्मणा) वेदोक्त क्रियाकुशलता से (वन्दमानः) स्मरण करता हुआ (अहेळमानः) किन्तु उसके गुणों को न भूलता और (इह) इस संसार में (तत्) उक्त सुख की इच्छा करता हुआ मैं (यामि) प्राप्त होता हूँ कि जिससे यह (उरुशंस) अत्यन्त प्रशंसनीय सूर्य्य हमको (बोधि) विदित होकर (नः) हम लोगों की (आयुः) उमर (मा) (प्रमोषीः) न नष्ट करे अर्थात् अच्छे प्रकार बढ़ावे॥२॥११॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को वेदोक्त रीति से परमेश्वर और सूर्य को जानकर सुखों को प्राप्त होना चाहिये और किसी मनुष्य को परमेश्वर वा सूर्य विद्या का अनादर न करना चाहिये, सर्वदा ईश्वर की आज्ञा का पालन और उसके रचे हुए जो कि सूर्यादिक पदार्थ हैं, उनके गुणों को जानकर उनसे उपकार लेके अपनी उमर निरन्तर बढ़ानी चाहिये॥११॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे उरुशंस वरुण ! यं त्वामाश्रित्य यजमानो हविर्भिस्तदाशास्ते, तं त्वा ब्रह्मणा वन्दमानोऽहेळमानोऽहं यामि कृपया त्वं मह्यमिह बोधि विदितो भव, नोऽस्माकमायुर्मा प्रमोषीरित्येकः॥१॥११॥तत्सुखमिच्छन् यजमानो यमुरुशंसं वरुणमाशास्ते, यं ब्रह्मणा वन्दमानोऽहेडमान- स्तत्सुखमिच्छन्नहं यामि प्राप्नोमि, स उरुशंसो वरुणोऽस्माभिर्बोधि विदितो भवतु, यतोऽयं नोऽस्माकमायुर्मा प्रमोषीर्मा विनाशयेदिति द्वितीयः॥११॥

दयानन्द-सरस्वती (हि) - विषयः

पुनः स वरुणः कीदृश इत्युपदिश्यते॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (तत्) सुखम् (त्वा) त्वां वरुणं प्राप्तुं तं सूर्यं वा (यामि) प्राप्नोमि (ब्रह्मणा) वेदेन (वन्दमानः) स्तुवन्नभिगायन् (तत्) सुखम् (आ) अभितः (शास्ते) इच्छति (यजमानः) त्रिविधस्य यज्ञस्यानुष्ठाता (हविर्भिः) हवनादिभिः साधनैः (अहेळमानः) अनादरमकुर्वाणः (वरुण) जगदीश्वर ! वायुर्वा। (इह) अस्मिन् संसारे (बोधि) विदितो भव विदितगुणो वा भवति। अत्र लोडर्थे लडर्थे च लुङडभावश्च। (उरुशंस) बहुभिः शस्यते यस्तत्सम्बुद्धौ पक्षे सूर्यो वा (मा) निषेधार्थे (नः) अस्माकम् (आयुः) वयः (प्र) प्रकृष्टार्थे (मोषीः) नाशय विनाशयेद्वा। अत्र लोडर्थे लिङर्थे च लुङडभावोऽन्तर्गतो ण्यर्थश्च॥११॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - मनुष्यैर्वेदोक्तरीत्या परमेश्वरं सूर्यं च विज्ञाय सुखं प्राप्तव्यम्। नैव केनचित् परमेश्वरोऽनादरणीयः सूर्यविद्या च सर्वदेश्वराज्ञापालनं तत्सृष्टपदार्थानां गुणान् विदित्वोपस्कृत्य चायुषो वृद्धिर्नित्यं कर्तव्येति॥२॥११॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. माणसांनी वेदोक्त रीतीने परमेश्वर व सूर्याला जाणून सुख प्राप्त करून घ्यावे. कोणत्याही माणसाने परमेश्वर व सूर्यविद्येचा अनादर करू नये. सदैव ईश्वराच्या आज्ञेचे पालन करून त्याने निर्माण केलेल्या सूर्य इत्यादी पदार्थांना त्यांच्या गुणांसह जाणून त्यांचा उपयोग करून घ्यावा व आपले आयुष्य निरंतर वाढवावे. ॥ ११ ॥