२८ संज्ञपनार्थं पशोः हरणम्

रेवतीर्यज्ञपतिं प्रियधा विशत वपाश्रपणीभ्यां पशुमन्वारभेतेऽध्वर्युयजमानश्च । आश्राव्य प्रत्याश्राविते संप्रेष्यति उपप्रेष्य होतर्हव्या देवेभ्यः । प्रास्मा अग्निमिति होतुरभिज्ञायाग्नीध्रः२ प्राजहितादग्निमाहृत्य दक्षिणया द्वारा निर्हृत्य दक्षिणेन मार्जालीयं धिष्णियं नीत्वा अन्तरा यूपमाहवनीयं चोत्तरतो हृत्वा पृथगाहवनीयादुल्मुकमादाय पूर्वः प्रतिपद्यते । शमिता पशुं नयति ।

प्रणीयमाने श्रपणार्थवह्निं दैक्षे पशौ प्राजहिताद्गृहीत्वा ।

द्वारैव तं दक्षिणयातिहृत्य मार्जालदेशस्य तु दक्षिणेन ।

यूपस्य पश्चात् पुरतः पशोश्च स्यादुल्मुकं चाहवनीयतः पृथक् ॥

उरो अन्तरिक्ष सजूर्देवेन वातेनास्य हविषस्त्मना यज समस्य तनुवा भव वर्षीयो वर्षीयसि यज्ञे यज्ञपतिं धाः अन्तरा चात्वालोत्करावुदञ्चं पशुं नयन्ति अध्वर्युयजमानाग्नीध्रशमितारः । प्रतिप्रस्थाता प्रमुञ्चमाना — पाथस्स्वाहा । देवेभ्य इदम् । प्रणीयमाने । नाना प्राणो यजमानस्य पशुना यज्ञो देवेभिस्सह देवयानः । जीवं देवानामप्येतु पाथस्सत्यास्सन्तु यजमानस्य कामाः अध्वर्युर्जपति । ऊवध्यगोहं पार्थिवं खनतादिति होतुरभिज्ञायोवध्यगोहं खनति । उत्तरेण पशुमुल्मुकं निदधाति । स शामित्रः । तं दक्षिणेन प्रत्यञ्चं पशुमवस्थाप्य ।