कारिकान्तरम्

॥ अथ तृतीय चितिः॥

मण्डलाध्याबृहत्यन्ताः पश्चिमस्यादिसमेस्तरे । अष्टत्रिंशच्छतं लोकं पृणा अपिच निक्षिपेत् ॥

षष्ठाहवनीयः प्रस्तरे द्वितीये पक्षिपेत्क्रमात् । संस्पृष्टाः पृष्ट्यास्थाप्याः वालखिल्याद्विसत्पगाः ॥

भूताख्या उत्तरे पार्श्वे आत्मामध्यात्परर्षभः । पृणास्त्रिसत्पतिशतं जगत्याग्न्यभिमर्शनम् ॥

॥ अथ चतुर्थि चितिः ॥

श्वोभूते सत्पमेह्नि स्यात्प्रस्तरः प्रथमोत्रतु । आशुरग्रेरिति द्वाम्यामष्टा विशतिरिष्टकाः ॥

द्विसत्पतिश्शतं लोकं पृणाश्चाथाष्टमऽहनि । द्वितीय एव प्रस्तरे सय्याꣳ्न्यावप्यृतव्यके ॥

चतस्र आत्ममध्ये स्युः सृष्टीर्दक्षिण पार्श्वगाः । व्यष्टीरुत्तर पार्श्वे तु वृषस्तत्रैव पश्चिमः ॥

पृणाद्विषष्टि च शतमग्रिमृष्टिरनुष्टुभा ॥

॥ अथ पञ्चमी चितिः ॥

श्वोभूते नवमेह्निस्यात् प्रस्तरे प्रथमेमतः । इष्ठका असपत्नाद्या विराडाद्याश्च पूर्ववत् ।

द्वादश्यां शेषितास्तोमाः विराजः पक्षयोः पुरः । आद्यायामुत्तरास्सत्पा नवम्यां मध्यतस्त्रिकम् ॥

षीडश्यांमध्यमापादा पक्षयोश्च विराट्पुरः । मध्यमे आदि सत्पम्योः न पि तृण्णा विकर्णिके ॥

नाꣳ्नाकसदः अपि चोडाः अपि तृण्णाः स्यमातृण्णाः विकर्णीच नभवतः इत्यर्थः ।

सत्पम्यां मण्डलातुर्या रेतस्सिग्दक्षिणाततः । तत्रैव नवमि ज्योतिरथर्तव्ये च योनिके ॥

एकादश्यां दशम्यां च द्वितीये तु चतुर्थके । दशमेहनि तत्रैव प्रस्तरे शेषमारभेत् ॥

गायत्रशिशरसस्थाप्याः विराजस्त्रिषुभपुरः ।जगत्याख्या द्वितीयस्यां विराजोऽनुष्टुभः पुरः ॥

त्रिरश्च्यत्मक षोडश्यः सन्ध्योर्ध्वे द्वेऽथ मध्यमे । विषुरूपाण्यतिच्छन्दा अष्टम्यां मध्यतस्थिताः ॥

चतुर्थ्यां द्विपदाः प्रो_ाः पृष्ठयोः स्थान मुच्यते । पक्षसन्धौ च पूर्वान्ते द्वेद्वेतद्दक्षिणोत्तरे ॥

एतत्तु पृष्ठयोस्थानमिदानीन्नोपधीयते । दक्षपक्षोत्तरे भागे पक्ष्या अष्टादशेष्टकाः ॥

तत्रैव पक्ष मध्ये द्वे सयुग्जीमूत कृत्तिकाः । उपान्त्ये चतुर्त्थ्याञ्च पञ्चमीरितिरेव च ॥

आद्यायां पञ्चमी वृष्टिरष्टम्यामप्युपादिमा । षष्ठ्या मन्त्याच सत्पम्यामाद्ये पञ्च यथा क्रमम् ॥

सत्पम्यामेव विशिष्टास्युः पञ्चभूयस्कृदिष्टकाः । उदक्पक्षाग्र्ययाप्याचा ग्र्याचैव तदुत्तरे ॥

पक्षेषिष्टावा सव्यपक्षेत्रयोविंशतिरिष्ठकाः ॥

अग्निरूपाद्यृतव्यान्ता उपधेया यथाक्रमम् । एकादश्याआन्तु हृदयं मध्ये मन्त्र कर्मणे च ॥

उपान्त्ये च त्रयोदश्यां चतुर्दश्यामथान्तिमा । तिस्रः पक्षेष्टकादक्ष पक्षेस्युरवशेषिताः ॥

विषयातत्र पाश्चात्य तृतीयाद्या च पुच्छतः । पुच्छद्यायां तथा षष्ठी अष्टम्याञ्च चतुर्थिका ॥

विषयासव्यपक्षान्त्या पृणा एकादशेष्टकाः । षडिष्टका नो पहिताः सन्ध्यीस्तिष्ठन्ति पृष्टतः ॥

इन्द्रतन्वन्तमेतासां दक्ष पक्षाग्रियादिमा । तरैव पक्षे पूर्वत्र शेषयोद्राष्ट्रभृद्गणम् ॥

षष्तरीत्यन्तिमां शिष्ट्वा तद्वत्सव्यच्छते पुनः । यज्ञतन्वस्त्रयस्त्रिंशत् द्वादश ज्योतिषोऽपि च ॥

आद्यारितौ सादिमास्यात् शष्टी रीतिरणादिमा । एतासामुभषाञ्च उदगेवापवर्गकाः ॥

एतदन्तं विरम्य श्वः प्रभाते शेषमाभरेत् । अथात्मनि द्वितीयस्यां उपान्त्या पौर्णमासिका ॥

तत्पश्चात्कृत्तिकाद्याश्च दश पुच्छे ततः पराः । चयस्रस्तु पतीच्यस्तु विषाखान्तश्च तारकाः ॥

पुच्छाद्यायान्तथा षष्टी यत्तेदेवा इति क्षिपेत् । ततः पुरस्तात्तिस्तिस्रस्युः पुच्छ एव ततः पराः ॥

पञ्चम्यान्दश मैत्राद्याः भरण्यान्तास्त्रयोदशा । तत्रोपान्त्या पुनच्छाऽपि पूर्णापश्चादिति क्षिपेत् ॥

असंस्पृष्टत्वमत्रासां ब्राह्मणो_ं असंभवेत् । तथाप्यत्र तथा कुर्यात् लिलार्धार्धान्तरं यथा ।

असंस्पृष्टत्वमत्रैके इष्टका व्यवधानतः । अपरामपरांपूर्वां इत्येवच विधेन च ॥

सरितोष्टौ पूर्वरीतिः साग्र्याऽनाद्योत्तरच्छदे । निधाय विश्वकर्मादि तथास्युस्वर्ण शर्कराः ॥

पञ्चन्हां रूपसंज्ञास्युः षष्ठ्यामाद्याः प्रकीर्तिताः । व्रत काले समिन्मन्त्रौ देवस्यत्वेति मन्त्रतः ॥

सायं प्रातर्निर्यामितौ ताभ्याआं द्वे इष्टके क्रमाआत् । अथ व्रतमुपदधात्यत्र कैश्चित्प्रयुज्यते ॥

अत्रैवेष्टं मम मते यदिस्यातां व्रतेष्टके । आत्मेष्टका चतुर्थ्यान्त्या पक्षयो रप्युपादिमा ॥

पुच्छाद्यायां चतुर्थीच त्रतीयाग्र्योत्तरच्छदे । चतुर्थ्यांच चतुर्थीचात्मेष्टकाः पञ्च निक्षिपेत् ॥

पञ्चादितस्त्रीयस्यां वैश्वदेव्यः प्रकीर्तिताः । अथादुयायां वामदेव्यः तिस्रः पूर्वाः प्रकीर्तिताः ॥

द्वितीयान्त्या तृतीयस्यां षष्ठीचैव ततः परं । परस्त्रीनीच तत्पूर्वाः चतुर्थीचैव षष्टिकाः ॥

तत्पुरस्त्रीणि पञ्चम्यां त्वथर्व शिरसो दश । पक्षसन्धोश्च पूर्वान्त्ये द्वेतु दक्षिणतोत्तरे ॥

षदिष्टका उपधाय चान्तन्येव यथायथम् । उपधायोत्तरेस्तारे चित्यास्तत्रोपरिक्षिपेत् ॥

ण्पक्षसन्धोश्च पूर्वस्मिन् तिस्रस्तिस्रस्तथेष्टकाः । पूर्वास्मिन्ꣳ्प्रस्तारे इत्यर्थः ॥

रथन्तरं ब्रृहच्चापि ह्युपधाय यथा क्रमम् । प्रस्तारेह्युत्तरे तत्र यज्ञायज्ञियमिष्यतेज्ञ ॥

यज्ञायज्ञाव इत्याद्यैः यज्ञियन्तूपधीयते । पुच्छे पश्चिमयोरित्योः पञ्चम्यावुपधायच ॥

तत्पूर्वां विशायां प्राचीमुत्तरां षोडशीं क्षिपेत् । दक्षा चतुर्थ्या पाद्यातु प्राजापत्या तदुत्तरा ॥

ण्आत्माद्य रीत्यां तुर्यातु वृषभः परिकीर्तितः । प्राजापत्याच तत्रैव पूर्वाहि परिकीर्तिता ॥ज्ञ ॥

शीष्णिर्युदक्स्था षोडशीच द्वितीयाग्रेच पक्षयोः । पुच्छाद्यायां द्वितीयाच चतुर्थ्यामपि पञ्चमी ॥

एताः पञ्चैवचाज्यान्यः ह्यश्मनोथ दिशः प्रति । पुच्छस्य दक्षिणश्रोण्यां तिस्रो लोकेष्टकामता ॥

पावमान्यश्चोत्तरस्यां श्रोण्यां तद्वच निक्षिपेत् । आद्यायामन्तः पञ्च पक्षे द्वे सत्प छन्दसः ॥

दक्षपक्षोत्तरे भागे पुरस्ताद्राष्ट्रभृद्गणः । अग्निर्भुवो जनस्यात्वं अग्नेतमिति सर्वतः ॥

उत्तरेम्से विकीर्णीस्यात् आतृण्णां मध्यतःब् क्षिपेत् । चतस्रो दक्षपक्षेतु शिष्टाः पुच्छे चतुर्थिका ॥

ꣳꣳ्ꣳ

चतुर्थ्यान्या तथा षष्ट्या उपान्त्ये द्वे उदक्छदे । अविशिष्टाः पञ्चलोकं पृणा अत्र त्रयो दश ॥

एकाडश पृणा अत्र यदिस्यातां वृतेष्टके । चितौ हिरण्यमित्यादि पन्त्याऽग्रिमभिमृश्यतु ॥

॥ द्विषाहस्रस्य श्येनस्य प्रयोगः परिकल्पितः । उपधान विधिस्सम्यक् पीयतां पुरुषोत्तमः ॥

॥ इति द्विषहस्र कारिका ॥

॥ अथ खिलानि ॥

द्विपदाःप्राणभृन्मन्त्राः अन्त्यःपञ्चपदो मतः । त्रिपदाः प्रथमीमन्त्रैः नवमश्च गणेगणे ॥

अपाना द्विपदामन्त्राः षष्ठस्त्रिपद इष्यते । दशकान्तेषु पितरः इत्यादिरणुषज्यते ॥

द्विपदाः प्राणभृन्मत्राः दशके दशके पुनः । त्रिपदो नवमश्चाद्यौ तथा पञ्चपदोन्तिमः ॥

अपानभृत्सु षष्ठश्च तृतीयश्च तृतीयके । त्रिपदो द्विपदश्चान्त्ये पितराज्यनुषज्यते ॥

कौकिली वाथ चरक सौत्रामन्यपिवामता । रामक्रमोढ शूद्रास्यात् तां न सङ्गच्छते क्वचित् ॥

इत्याग्निकारिस्सर्वाः वासुदेवेन कीर्थिताः अत्र लोपादिकं यत्तत् मङ्गळं कुरु शङ्करा ॥

॥ अथ पत्नीवत कारिका ॥

अनूबन्ध्या वपा होमे कृते वपन मज्जने । पात्नीवतस्य यागास्तु पुराणहवनीयके ॥

शाखाद्वयस्य हरणं वेदं कृत्वाथ दार्शिकी । प्रागुत्तर परिग्राहात् न व्यत्यास परिग्रहः ॥

देवस्यासवितु रन्तेतु मनुष्यत्वानिधीमहि । पूर्णाहुत्यतिमिक्तादि पशुवाच्च भवेतिह ॥

अनूयाज समिन्नस्यात् त्तो लोकंपृणादिकं । परिस्तीर्य प्रजाहितं कर्मणेवां न विद्यते ॥

कुम्भी शूलोपवेषच्च वपाश्रपणीका तथा । शाखापवित्र स्वाधिति वर्ज्यान्यानि सादयेत् ।

आज्येन संस्था पक्षेतु पृषदाज्यस्य भाजनं । तत्स्थानिकामिडाश्चैव सादनन्तु भवेदिति ॥

पावित्र करणादीनि संप्रैषः दर्शवद्भवेत् । आज्याभिमन्त्रणान्तेतु यूपाऽभ्रयादानमेनच ॥

पितृणां सदनं नस्यात् अनवस्तीर्ण चोदनात् । अचषाल विधानेन नचैन्द्रमसि विद्यते ॥

यूपस्यैवाञ्जनङ्कृत्वा रशनाभ्याञ्च वेष्टयेत् । पशूपाकरणं कृत्वा दक्षिणेतु नियोजयेत् ॥

अवृतौ होतृशास्तारौ स्वरुणैवाञ्जनं पशोः । एकादश प्रयाजार्थमाआज्यं नात्राव शेषयेत् ॥

अपाव्य होम काले तु घ्रौवं परिसमाप्यते । पर्यतग्निकरणान्तेतु त्वाष्ट्रमुद्दिश्य चोत्सृजेत् ॥

अर्धोत्सर्गस्य धात्राध्यारम्भणं भवेत् । आज्येन सम्स्था पक्षेतु प्रयाजे शेषयेद्धृमं ॥

वपायाश्च पुरोडाशे हविषो ध्रौवमेवहि । वशनादीनि संज्ञप्त होमो नैव भविष्यति ॥

एवं समाप्य विधिवत् धात्रादीन्यथ चाऽऽचरेत् । पात्नीवत प्रकारोयं वासुरेवाआध्वरीरितः ॥

॥ अथ त्रिषाहस्र कारिकाः ॥

त्रिषाहस्र प्रयोगेतु प्रयोगक्रम उचुयते । द्वादशोपसदस्तत्र पञ्चैव चितयः क्रमात् ॥

प्रस्तरास्युः पञ्चदश व्यत्यासं चिनुयाच्चतान् । एकैकस्यांचितौत्रींस्त्रीन् व्यत्यासं चिनुयाच्चतान् ॥

प्रस्तारद्वय माद्येह्नि द्वितीयेह्नयेक एवतु । एवञ्च तिस्रश्चितयः कार्या एवाष्टभिर्दिनैः ॥

पञ्चमीस्याच्चतुरहं अथमन्त्रोमधिक्रमः । त्रिषाहस्रे विभज्यैव त्रेधामन्त्रान्यजुष्मतिः ॥

विभागस्य क्रह्मःपूर्वं द्विषाहस्रे प्रकीर्तितः । विस्पष्टार्थं पुनरपि विभाग क्रम उच्यते ॥

एकचित्यर्थ मन्त्रास्तु ये ये तांस्तान् विभज्यच । प्रति प्रस्तार मेवैनान् आदावादौ प्रयोजयेत् ॥

शिष्टा लोकं पृणाभिस्युः उपधेया यथा क्रमम् ।यजुष्मीभिः प्रस्तारः केवलाभिर्नचीयते ॥

तथालोकंपृणा भिर्ण केवलाभिरितिस्थितिः । यःकञ्चनापि प्रस्तारः उभयीभिर्नचीयते ॥

अतःकाञ्चिद्यजुष्मत्यः काञ्चिल्लोकंपृणा ध्रुवं । मõन्त्रे विभज्यमनेम्शे न्यूनोवा यदिवाधिकः ॥

नैतावतात्र दोषस्यात् गणभेद भयादिह । एवं विचार्योपदध्यात् प्रस्तारस्तु यथा क्रमम् ॥

अथास्या आदिमचितेः विभाग क्रम उच्यते । आक्रमण्य्द्यपस्यान्तमाद्येस्तारे निधायच ॥

एकान्नत्रिंशदधिकं शतं लोकंपृणाः क्षिपेत् । तूष्णीं पुरीषमध्यूह्य तूष्णीमेवावरुह्यच ॥

तूष्णीं पुरीषमध्यूह्य दृढार्थन्नावलभ्यते । तदानीमेवदस्यान्तु चितौस्तारेद्वितीयके ॥

ऋषीष्टकाश्शतंलोकंपृणा अत्रापिताश्शतं । तूष्णीं पुरीषमध्यूह्य तूष्णीमेवावरुह्यच ॥

श्वोभूते द्वितीयेह्नि प्रस्तारे प्रथमे ततः । तस्यामेव चितौ प्राण भृताद्या ऋषभान्ततः ॥

षट्सप्ततिस्तथालोकंपृणाश्चिति समापनम् । गायत्त्र्याऽभिमृशेदग्निं नित्योश्वः प्ररिणीयते ॥

त्रितीयेह्नि द्वितीयस्यां चितौस्तार तृतीयके । ध्रुवक्षितिस्सजूःप्राणं क्षिपेत्पञ्चदशेष्टकाः ॥

पञ्चाशीति श्शतंंलोकंपृणास्तत्र क्रमात्क्षिपेत् । तदानीमेवतस्यान्तु चितौ प्रस्तार आदिमे ॥

अपस्याद्या ऋतव्यान्ता उपदध्यान्नवेष्टकाः । शत द्वयं नवोनन्तु क्षिपेल्लोकंपृणेष्टकाः ॥

तूष्णीं पुरीषमध्यूह्य तूष्णीमेवावरुह्यच । श्वोभूतेतु चतुर्थेह्नि चितौस्थाआरेद्वितीयके ॥

तस्यांञ्चितौ त्र्यवीराद्या ऋषभाआन्ताश्च विंशतिः । अशीति शतमत्रैव क्षिपेल्लोकंपृणेष्टकाः ॥

चितौ हिरण्य मित्यादि त्रुष्टुभामृश्यतेऽनया । पञ्चमेह्नि तृतीयस्यं चितौप्रस्तार अदिमे ॥

षटिवंशतिर्मण्डलद्याआः आयमन्त्राः पृणा अथ । श्तं चतुस्सत्पतिश्च तदानीमेव तत्रतु ॥

प्रस्तारेतु द्वितीयेच षत्रिंशद्वहतीःक्षिपेत् । चतुश्ष्टि शतञ्चापि क्षिपेल्लोकंपृणेष्टकाः ॥

तूष्णी पुरीषमद्यूह्य तूष्णीमेवावरुह्यच । तस्यां चितौच पष्टेह्नि प्रस्तारे प्रथमे पुनः ॥

वालखिल्या वृषान्ताश्च त्रिसप्ताति शतं पृणाः । चितौ हिरण्य मित्यादि जगत्या अभिमर्शणं ॥

सत्पमेन्हि चतुर्थ्यान्तु चुतौस्तारेद्वितीयके । आशुरग्नेरिति द्वाभ्याष्टाविंशति रिष्टकाः ॥

द्विसप्ततिश्शतं लोकंपृणा अत्रोपधायच । तदानीमेव तस्यान्तु चितौप्रस्तार आदिमे ॥

सय्यꣳ्न्यावप्यतव्येच चतस्र उपधायच । शतं षण्णावतिं लोकंपृनास्तत्रोपधायच ॥

तूष्णीं पुरीषमध्यूह्य तूष्णीमेवावरुह्यच । अथाष्टमेह्नि तस्यान्तु चितौस्तारेद्वितीयके ॥

सृष्टीव्युष्ठीच तेक्षिप्ता शतं षट्षष्टिकाः पृणाः । चितौ हिरण्यमित्यादि अग्निमृष्टिरनुष्टभा ॥

प्रस्तारा द्वादशगताः चतस्रश्चितयस्तथा । उत्तमा तु चितिः कार्या चतुर्भिर्दिवसैरिह ॥

पञ्चम्यां तु चितौ स्तारः प्रथमो नवमेहनि । असपत्नादि संयान्यौ इत्यन्ताशीतिरष्ट च ॥

उपधाय द्वादशकं शतं लोकं पृणेष्टकाः । तूष्णीं पुरीषन्ध्यूह्य तूष्णिमेवावरुह्य च ॥

दशमेहनि तस्यां तु चितौ स्तारे द्वितीयके । याज्ञसेन्यादृतव्यान्ताः नवतिः पञ्च चेष्टकाः ॥

पञ्चोत्तर शतं लोकंपृणा अत्रस्तरे क्षिपेत् । तुष्णीं पुरीषन्ध्यूह्य तूष्णिमेवावरुह्य च ॥

द्वौ प्रस्तारौ च नवमदशमाभ्यां विधाय च । एकादशद्वादश्भ्यां अन्त्यं प्रस्तारमाचरेत् ॥

एकादशेह्नि तस्यान्तु चितौ प्रस्तार आदिमे । यादव्यसीष्टकेत्यादि ज्योतिष्मन्त्यन्तमत्र तु ॥

उपधाय त्रिणवतिं विरमेत्तदःपुनः । द्वादशेह्नि तु तत्रैव प्रस्तारे शेषपूरणं ॥

पूर्णापश्चादुतेत्यादि विकर्ण्यन्तं शतं क्षिपेत् । सप्त लोकंपृणास्तत्रोपधाय चिति पूरणम् ॥

चितौ हिरण्यमित्यादि पङ्त्याग्निमभिमृष्य च । एवमेवोपधातव्यमिति न्यायविदोब्रुवन् ॥

यद्यस्त्यन्यः प्रकारश्च विद्वद्भिः परिमृष्यतां । त्रिषाहस्रचिते रीतिः वासुदेवाध्वरीरिता ॥

इति वासुदेवदीक्षितकृताः त्रिषाहस्रकारिकाः समाप्ताः ॥

ꣳ्

॥ श्री महागणपतये नमः ॥

द्विषाहस्रेषु द्विस्तरा एकैक चितय स्मृताः । त्रिषाहस्रे तथा त्रिस्त्रिः प्रस्तराश्चितयस्तराः ।

साहस्रे पञ्चचितयः स्ताराः पञ्च भवन्ति च । द्विषाहस्रे दश स्ताराः चितयः पञ्च चैव हि ।

त्रिषाहस्रे पञ्चदश प्रस्ताराश्च त्रिपञ्चकम् । द्विषाहस्रे प्रतिचिति त्विष्टका स्युश्चतुश्शतम् ।

एकस्यास्तु चितेः त्रिषाहस्रे षट्शतमिष्टकाः । मन्त्रस्साहस्र उदितः पञ्चोनन्तु शतत्रयम् ।

आक्रमण्याद्य पस्यान्तं तन्मन्त्रा एकसत्पतिः । ऋषीष्टका श्शतमथ प्राणा पान भृतश्शतम् ।

द्वाडशापिच सन्तत्याः वशाःपञ्चापि कीर्तिताः । त्रिवृतष्षेडेक ऋषभः एवमेते प्रकीर्तिताः ॥

प्रथमेऽग्नौ वस्तुतस्तु प्राणापानभृतो नहि । तदूर्ध्वा पतितास्सान्त त्याद्या अपि भवन्ति न ॥

बद्धक्रमत्वादेतेषामपकार्षो न विद्यते । ऋषीष्टकान्त ऋषभः शिष्टास्सर्वाः पृणा इति ॥

ययुष्मत्यस्तु यावत्यः तावतीरुपधाय च । अन्या लोकं पृणाभिस्युः मध्यमादि चितिर्भवेत् ॥

पञ्चम्यास्तु चितेस्सम्यक् प्रयोगो वक्ष्यतेऽधुना । असपत्ना धृतव्यान्ताः विश्वकर्मादि शर्कराः ॥

ऋषभश्च ततः प्रजा पत्या अज्यानिरादयः । राष्ट्रभृत्सर्वतोमुखं ततो लोकं पृणादिकम् ॥

वेचक श्रौतिनस्सम्यक् उपधानं वदन्तिहि । येकचित्यार्थ मन्त्रास्तु येयेतांस्तान्विभृज्यतु ॥

प्रतिप्रस्तार मेवैना नादवादौ प्रयोजयेत् । शिष्टा लोकं पृणाभिस्युः उपधेया यथा क्रमम् ॥

यजुष्मतीभिःप्रस्तारे के????1वलाभिर्नचीयते । तथा लोकं प्रणाभिस्तु केवलाभिर्नचीयते ॥

आदौकश्चिद्यजुष्मत्यः काश्चिल्लोकं प्रणाघ्रां । मन्त्रैः विभज्यमानांशे न्यूनोवा यधिवाऽधिकः ॥

नैतावदस्यपिदोषस्यत् गणभेदभयात्तथा । द्विषाहस्रे परश्येने वक्ष्ये मन्त्रो पधिक्रमम् ॥

शुल्बोपिधाने बहवो विकल्पासन्ति शास्त्रतः । तेषुयं पक्षमाश्रित्य कृत्स्त्न शुल्बारपधाविधिः ॥

मन्त्रोपधाआने तंपक्षमाश्रित्यैवं क्रियोच्यते । इदानीमुपधानस्य विधिरत्र प्रकश्यते ॥

साहस्र चयनस्याग्रेः प्रयोगः परिकीर्तितः । इदानीमपि तन्मार्ग मनुसृत्य क्रियोच्यते ॥

पञ्चम्यान्त्या क्रमन्याख्ये त्येवमादि यथा क्रमं । उपदध्यादपस्यान्तं कुम्भं कुम्भी मथक्षिपेत् ॥

अमृन्मयेष्टकादेआश बाधाभिरवटेक्षिपेत् । तस्मात्कुभोपधानन्तुसाहस्राग्न्युधिस्थके ॥

चतस्रोमध्य एवस्युः विधेरत्रच सम्भवात् । स्वकाले शक्यतेतासामुपधानक्रमेणच ॥

द्विषाहस्रे कुम्भ कुम्भ्योरुपधानेत्वसम्भवात् । चतस्रोमध्य इत्युक्तेः मन्त्रानत्रापकृष्यच ॥

ऋषीष्टकाभिःप्रागेता उपदाध्याद्यथाक्रमम् । अन्यथोपहितानान्तु नान्यायञ्चानलंभवेत् ॥

कुम्भेष्टकास्त्यजन्त्यन्ये त्यागंनेच्छन्ति चापरे । बार्हस्पत्यस्य चरोः कुम्भेष्टका मध्य वितानिताः ॥

उपदध्यातमप्यत्र ततश्शातमृषीष्टकाः । उपधाय तथैकान्नत्रिंशल्लोकंपृणेष्टकाः ॥

तूष्णीं पुरीषमध्यूह्य तूष्णीं मेवावरुह्यच । अथापरस्मिन्प्रस्तरे प्राणापान भृतां निधिः ॥

अरम्यच प्राणभृतः बाह्यां बाह्यामितिक्षिपेत् । अथापनभृतोबाह्या मन्तरामन्तरामिति ॥

दक्षपक्षे प्राणभृतो बाह्यां बाह्याग्निदिङ्मुखाः । तथैव सव्य पक्षेयुः रुत्तरा रुद्र दिङ्मुखाः ॥

षष्ठीरीत्यामन्तिमे पञ्चम्याः पञ्चपूर्वतः । तिस्रश्चतुथिरित्यान्ताः पूर्वाः प्राणभृतो दश ॥

दक्षपक्षे तृतीयाद्याः चतस्रःपूर्वगास्ततः । तद्धक्षिणेचतत्पूर्वे दक्षिणाच ततः पुरः ॥

तत्पूर्वाच दस प्राण भृतोदक्षिणदिग्गताः । आदिमाच द्वितीयस्यां तृतीयस्यां तथादिमा ॥

तत्पश्चाद्विशयाषोडश्यर्ध्या तद्धक्षिणा ततः । पुच्छे पश्चिमयोरीत्योः तिस्रस्तिस्रस्तथादिमाः ॥

सव्यपक्षे तृतीयाद्या चतस्रः पूर्वगस्ततः । उत्तरापूर्वगोदक्स्थाः उत्तरे प्राणभृद्धश ॥

चतस्रोर्ध्या आदिमयां चतस्रोर्ध्यास्तदुत्तराः । तृतीयस्यां पञ्चमीच षष्ठीस्यान्मध्यतो दश ॥

तत्पूवा षोड्शीस्यात् तिस्रोन्त्याश्चतृतीयगाः । द्वितीयस्यामादिमायां तिस्रस्तिस्रोन्तिमाः क्रमात् ॥

दशापानभृतः पूर्वाः दक्षिणाःप्राणभृत्परः । पुच्छे पश्चिमयोरीत्योः तिस्रस्तिस्रोन्तिमाः क्र्रमात् ॥

षोडश्यर्ध्येचतत्पूर्वे षोडश्यर्ध्ये पुरः पुरः । दशापानभृतःप्राणभृतां पश्चादुदग्गाताः ॥

चतस्रोर्ध्या स्ततष्षष्ठ्यां चतस्रोर्ध्याश्च दक्षिणाः । चतुर्थ्या च तृतीयायां द्वितीयां मध्यतोदश ॥

सन्ततीर्दक्षिणे पक्षे वशा उत्तर पक्षकाः । शिरोग्र्या पक्षयो काचित् आद्यायामादिमात्मनि ॥

तितीयस्यांचतुर्थीस्यात् त्रिणवाक्यास्तु पुच्छतः । आद्यायां पञ्चमीचेति त्रिवृतः षट्प्रकीर्तिताः ॥

शिरः पक्षात्म पुच्छात्म पुच्छेषु क्रमशः क्षिपेत् । द्वितीयस्यां तृतीयाच ऋषभः परिकीर्तितः ॥

षट्सत्पतिस्तथालाकं पृणाश्चितिसमापनं । गायत्र्याभिमृशेदग्निं नित्योश्वः परिणीयते ॥

॥ अथ द्वितीय चितिः ॥

स्वोभूतेतु तृतीयेन्हि प्रस्तरः प्रथमो भवेत् । एकादशन्तु षोडश्यः पश्चाश्विन्यः प्रकीर्तिताः ॥

तासां पश्चादृतव्यास्युः तत्पश्चात्प्रणभृद्गणः । पश्चापस्याः प्रतिदिशं मध्येच परिहृत्यताः ॥

अष्टम्यां मध्यम्यां हित्वा सय्याꣳ्न्यौदक्षिणे तात्ः । ऋतव्ये उत्तरे तासां पृणाः षट् सत्पतिश्शतम् ॥

चतुर्थेन्हि द्वितीयेतु प्रस्तरे त्र्यविरादिकाः । उपधाय यथासूत्रमृषभोत्रोपधीयते ॥

शतश्चशीतिरस्यान्तो चितोकक्षलोकं पिनेष्टकाः । त्रुषुभाभिमृशेदग्निं तृतीया वक्ष्यते चितिः ॥