०२ प्राक्तन-कर्माणि

ब्राह्मणान् भोजयित्वा
आशिषो वाचयित्वा,

सङ्कल्पान्तम्

प्रत्येकतया क्रियमाणे
आदौ उदकशान्तिम्, अङ्कुरार्पणं, रक्षाबन्धनम्, अभ्युदयं, पुण्याहञ् च कृत्वा

… नक्षत्रे … राशौ जातम् इमं मम कुमारम् उपनेष्ये ।

इति सङ्कल्पयेत् ।

जातकादिभिस्+++(=जातकर्मादिभिस्)+++ सह क्रियमाणे ऽपि
पूर्वोक्त-प्रकारेण सङ्कल्प्य
अनन्तरं पुण्याहं वाचयेत् ।

यज्ञोपवीत-धारणम्

ब्राह्मणान् स्वस्त्य्-ऋद्धी वाचयित्वा
पुनस् सङ्कल्प्य,

… नक्षत्रे … राशौ जातस्य,
अस्य मम कुमारस्य
श्रौत-स्मार्त-विधि-विहित–नित्य-कर्मानुष्ठान-योग्यता-सिद्ध्य्-अर्थं
… नक्षत्रे … राशौ जातम् इमं मम कुमारं
यज्ञोपवीतं धारयिष्ये ।

ग्रह-प्रीतिं कृत्वा
ऋषि-च्छन्दो-देवता-कथन-पूर्वकं
यज्ञोपवीतं धारयेत् ।

यज्ञोपवीत-धारण-महा-मन्त्रस्य
ब्रह्म र्षिः,
त्रिष्टुप् च्छन्दः
त्रयी विद्या देवता ।
यज्ञोपवीतधारणे विनियोगः ।

स्वयं कुमारेण सह (कुमारञ् च)
कुक्कुटासने स्थित्वा,
नूतनं यज्ञोपवीतं
प्रसारिते स्वस्य दक्षिणहस्ते गृहीत्वा,
तथा अवाङ्-मुखेन सव्येन हस्तेनाधो-भागे गृहीत्वा,

एवं स्वस्य दक्षिण-हस्तस्य अधः कुमारस्य दक्षिण-हस्तः, स्वस्य सव्य-हस्तस्योपरि कुमारस्यावाङ्-मुख–सव्य-हस्तश् च यथा स्यातां
तथा कृत्वा,

यज्ञोपवीतं परमं पवित्रं ...{Loading}...

य॒ज्ञो॒प॒वी॒तं प॑र॒मं प॒वित्रं॑
प्र॒जाप॑ति॒र् यत् स॑ह॒जं पु॒रस्ता᳚त् ।
आ॒यु॒ष्य॑म् अ॒ग्र्यं॑ प्रति॑मुञ्च शु॒भ्रं
य॑ज्ञोपवी॒तं बल॑म् अस्तु॒ तेजः॑ ॥

छन्द-आदि (द्रष्टुं नोद्यम्)

यज्ञोपवीत-धारण-महा-मन्त्रस्य
ब्रह्म र्षिः,
त्रिष्टुप् च्छन्दः
त्रयी विद्या देवता ।
यज्ञोपवीतधारणे विनियोगः ।

इति कुमारं यज्ञोपवीतं धारयित्वा,
तन्-मन्त्रं वाचयित्वा
कुमारम् आचामयेत्,

तमिऴ्

உபநயநம்

ஸங்கல்ப்பம்: இமம் மம குமாரம் உபநேஷ்யே ததங்கம்: புண்யாஹவாசனம் கரிஷ்யே புண்யாஹம் வாசயித்வா ப்ராணாநாயம்ய - அஸ்ய மம குமாரஸ்ய ச்ரௌதஸ்மார்த்த விதி விஹித நித்ய கர்மாநுஷ்டாந யோக்யதாஸித்யர்த்தம், இமம் மம குமாரம் யஜ்ஞோபவீதம் தாரயிஷ்யே, ரிஷி சந்தஸ், தேவதா, உச்சாரண பூர்வகம் ஆசார்யன் “யஜ்ஞோபவீதம் பரமம் பலமஸ்து தேஜ:” என்கிற மந்திரத்தைச் சொல்லி குமாரனைத் [[TODO::परिष्कार्यम्??]]

भोजनम्

[[71]]

(सूत्रं - कुमारं भोजयित्वा)

परिषेचन+आपोशन-द्वय–प्राणाहुति-सहितं भोजनं कुमारस्य कारयेत्।
कुमारम् आचामयेत्।

दिग्-वपनम्, क्षौरम्

उपनयन-मात्रं प्रत्येकतया क्रियमाणे,
चौल-प्रयोगे “ऽनुवाकस्य प्रथमेन यजुषा” इत्य्-आरभ्य “दर्भ-स्तम्बे वा निदधाति” इत्येतावत् पर्यन्तं कृत्वा,
कुमारं स्नापयित्वा,
(त्रयो-दश-वारं निमज्जन-पूर्वकं क्षौर-निमित्त-पुनस्-स्नान-सहितम्)
आच्छाद्यालङ्कृत्य
वाद्य-घोष-पूर्वकं मण्डपम् आनीय
प्रयोगम् उपक्रमेत ।

चौलेन सह क्रियमाणे
क्षौरस्य चौल-कर्मण्य् एव कृतत्वाद्
अत्र मन्त्र-पठनेनालम् -
“उष्णेन वायो”, इत्य् आरभ्य
“अपस् सुवः” इत्यन्तं पठेत् ।