०५ प्रधान-होमः

[[17]]

‘योगे योग’ इत्य्-आदिषु एकादशसु मन्त्रेषु
द्वितीय-चतुर्थौ स्वयम् उक्त्वा
स्वाहेति कुमारं वाचयन् हावयेत् ।
अन्यान् नव मन्त्रान् कुमारम् एव वाचयन् हावयित्वा

०१ योगेयोगे तवस्तरम् ...{Loading}...

०७ योगेयोगे तवस्तरं ...{Loading}...

+++(रथादि)+++योगे॑योगे त॒वस्+++(=गति[वत्])+++त॑र॒व्ँ
वाजे॑वाजे हवामहे ।
+++(वयं स्तोतृत्वेन)+++ सखा॑य॒+++(ः)+++ इन्द्र॑म् ऊ॒तये᳚ ।+++(५)+++

(इन्द्राय इदन्न मम ।)

+++(आचार्यो वदति, शिष्यो जुहोति - )+++

०२ इममग्न आयुषे ...{Loading}...

इ॒मम् अ॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि
ति॒ग्मम् ओजो॑ वरुण॒ सꣳशि॑शाधि
मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ॒
विश्वे॑ देवा॒ जर॑दष्टि॒र् यथा ऽस॑त् +++(जनः)+++॥

(अग्नि-वरुण-सोमादिति-विश्वेभ्यः देवेभ्यः इदन्न मम ।)

०३ शतमिन्नु शरदो ...{Loading}...

०९ शतमिन्नु शरदो ...{Loading}...

श॒तम् इन् नु श॒रदो॒ अन्ति॑+++(कं)+++ देवा॒,
यत्रा॑ नश् च॒क्रा+++(क्रुः)+++ ज॒रस॑न् त॒नूना॑म् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒
+++(तादृशे काले)+++ मा नो॑ म॒ध्या री॑रिष॒ताऽऽयु॒र् +++(आ स्वतो)+++गन्तोः॑+++(=गमनात्)+++ ।+++(४)+++

(दे॒वेभ्यः॒ इद॒न्न मम॑ । )

+++(आचार्यो वदति, शिष्यो जुहोति - )+++

०४ अग्निष्ट आयुः ...{Loading}...

अ॒ग्निष् ट॒ आयुः॑ प्र+++(कृष्ट)+++त॒रां द॑धात्व्
अ॒ग्निष् टे॒ पुष्टिं॑ प्रत॒रां कृ॑णोतु
इन्द्रो॑ म॒रुद्भि॑र् ऋतु॒-धा +++(पुष्टिं)+++ कृ॑णोत्व्
आदि॒त्यैस् ते॒ वसु॑भि॒र् आ द॑धातु

(अग्नीन्द्र-मरुद्-आदित्य-वसुभ्य इदन्न मम ।)

०५ मेधाम् मह्यमङ्गिरसो ...{Loading}...

मे॒धां मह्य॒म् अङ्गि॑रसो
मे॒धाꣳ स॑प्तऋ॒षयो॑ ददुः
मे॒धां मह्यं॑ प्र॒जाप॑तिर्
मे॒धाम् अ॒ग्निर् द॑दातु मे ।

(अङ्गिरस्-सप्तर्षि-प्रजापति+अग्निभ्यः इदन्न मम । )

०६ अप्सरासु या ...{Loading}...

अ॒प्स॒रासु॒ या मे॒धा
ग॑न्ध॒र्वेषु॑ च॒ यद् यशः॑ ।
दैवी॒ या मा॑नु॒षी मे॒धा
सा मामा वि॑शतादि॒ह ।

(मेधायशोभ्याम् इदन्न मम ।)

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥

तमिऴ्

ஆநயஸ்வ, தேவேந, ஸவித்ரா - ப்ரஸுத:’ என்கிற மந்திரத்தைக் குமாரன் சொல்ல வேண்டும். “கோநாமாஸி” என்று ஆசார்யன் குமாரனைக் கேட்க வேண்டும். “சர்மா நாமாஸ்மி” என்று குமாரன் பதில் சொல்ல வேண்டும். ஆசார்யன் “கஸ்ய ப்ரம்ம சர்மந்" என்று கேட்க, குமாரன் “ப்ராணஸ்ய ப்ரம்மசார்யஸ்மி” என்று பதில் சொல்ல வேண்டும். ஆசார்யன் “சர்மா ஏஷதே அநுஸஞ்சர சர்மந்” என்கிற மந்திரத்தைச் சொல்ல வேண்டும். “அத்வநாம் + பாரமசீய” என்கிற மந்திரத்தைக் குமாரன் சொல்ல வேண்டும். [[TODO::परिष्कार्यम्??]]

[[79]]

११ तत्त्वा यामि ...{Loading}...

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः

०४ त्वं नो ...{Loading}...

त्वन् नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्
दे॒वस्य॒ हेडो+++(=क्रोधो )+++ ऽव॑ यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
यजि॑ष्ठो॒ +++(हविर्)+++वह्नि॑तम॒श् शोशु॑चानो॒+++(=देदीप्यमानः)+++
विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य् अ॒स्मत् ।

(अग्नि-वरुणाभ्यां इदन्न मम ।)

०५ स त्वं ...{Loading}...

स त्वन् नो॑ अग्ने ऽव॒मो+++(=मूलभूतो)+++ भ॑व॒+ऊ॒ती+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
नेदि॑ष्ठो+++(=अन्तिकतमो)+++ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ+++(=व्युष्टायाम्)+++ ।
अव॑ यक्ष्व नो॒ वरु॑णँ॒, ररा॑णो
वी॒हि+++(=खाद)+++ मृ॑डी॒कँ+++(=सुखयितारं [हविः])+++ सु॒हवो॑ न एधि

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

१६ त्वमग्ने अयाऽस्यया ...{Loading}...

त्वम् अ॑ग्ने अ॒या+++(=एतव्यः/ प्रत्येता)+++ ऽस्य्
अ॒या सन् मन॑सा हि॒तः
अ॒या सन् ह॒व्यम् ऊ॑हिषे॒
ऽया नो॑ धेहि भेष॒जम् ॥ (4)

जयादि-सँस्रावान्तं कृत्वा

जयाद्य्-अभ्यातान--राष्ट्र-भृतः ...{Loading}...
चि॒त्तं च॒ ...{Loading}...
विश्वास-प्रस्तुतिः

चि॒त्तं च॒ [स्वाहा॑]। चित्ति॒श् च॒ [स्वाहा॑]।
आकू॑तं॒ च॒ [स्वाहा॑]। आकू॑तिश् च॒ [स्वाहा॑]।
विज्ञा॑तं च॒ [स्वाहा॑]। वि॒ज्ञानं॑ च॒ [स्वाहा॑]।
मन॑श् च॒ [स्वाहा॑]। शक्व॑रीश् च॒ [स्वाहा॑]।
दर्श॑श् च॒ [स्वाहा॑]। पू॒र्णमा॑सश् च॒ [स्वाहा॑]।
बृ॒हच् च॒ [स्वाहा॑]। र॒थ॒न्त॒रं च॒ [स्वाहा॑]।

मूलम्

चि॒त्तञ्च॒ चित्ति॒श्चाकू॑त॒ञ्चाकू॑तिश्च॒ विज्ञा॑तञ्च वि॒ज्ञान॑ञ्च॒ मन॑श्च॒ शक्व॑रीश्च॒ दर्श॑श्च पू॒र्णमा॑सश्च बृ॒हच्च॑ रथन्त॒रञ्च॑

भट्टभास्कर-टीका

चित्तं चेत्यादयस्स्रुवाहुतयः । चशब्दस्समुच्चयार्थः; वाक्यस्यापरिसमाप्तत्वात् । माऽस्त्विति शेषः । येन चेतयते तच्चित्तम् ।

चित्तिश्चेतना ।

आकूतं संकल्प्यो विषयः ।

आकूतिस्संकल्पः ।

विज्ञातं विविधं ज्ञातव्यम् ।

विज्ञानं विविधं वेदनम् ।

मनः अन्तःकरणम् ।

शक्वरी शक्वर्यः चक्षुरादिबाह्येन्द्रियशक्तयः । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । आकूत्यादिषु त्रिषु गतेः प्रकृतिस्वरत्वम् ।

दर्शपूर्णमासौ कालौ, कर्मणी वा । सर्वेषां कर्मकालानां कर्मणां च प्रधानयोरुपादानमुपलक्षणार्थम् ।

एवं बृहद्रथन्तरयोस्साम्नोर्वेदितव्यम् ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑ति॒र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छदु॒ग्रᳶ पृ॑त॒नाज्ये॑षु॒ तस्मै॒ विश॒स्सम॑नमन्त॒ सर्वा॒स्स उ॒ग्रस्स हि हव्यो॑ ब॒भूव॑

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒जाप॑ति॒र् जया॒न् इन्द्रा॑य॒ वृष्णे॒
प्राय॑च्छद् उ॒ग्रᳶ पृ॑त॒नाज्ये॑षु॒।
तस्मै॒ विश॒स् सम॑नमन्त॒ सर्वा॒स्
स उ॒ग्रस् स हि हव्यो॑ ब॒भूव॑॥
[स्वाहा॑॥]

सर्वाष् टीकाः ...{Loading}...
मूलम्

प्र॒जाप॑ति॒र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छदु॒ग्रᳶ पृ॑त॒नाज्ये॑षु॒ तस्मै॒ विश॒स्सम॑नमन्त॒ सर्वा॒स्स उ॒ग्रस्स हि हव्यो॑ ब॒भूव॑

भट्टभास्कर-टीका

2अथ प्रजापतिर्जयानिति अत्र त्रयोदशी त्रिष्टुप् ॥ ‘वृष्णे’ इति प्रथमपादान्तः ‘सर्वाः’ इति तृतीयापादान्तः । प्रजापतिर्जयानेतानिन्द्राय वृष्णे वर्षित्रे प्रायच्छत् दत्तवान् ।

उग्रः उद्गीर्णः पृतनाज्वेषु संग्रामाभिगमनेषु उद्गीर्णशक्तिः प्रजापतिः । यद्वा - जयान् लब्ध्वा इन्द्रःसंग्रामेषूद्गीर्णो बतूव । अजः अञ्जो वा भावे यति छान्दसं रूपं, अत एवानवग्रहः ।

ततः प्रभृति तस्मै इन्द्राय सर्वा विशः प्रजास्समनमन्त प्रतिज्ञाविधेया अभवन् । स उग्रः स खलूग्रो भवति, यस्मै विशस्समनमन्त, याः पूर्वं स्पर्धीताः ।

यद्वा - यो जयान् जुहोति स खलूग्रो भवति स एब हव्यो यागार्हश्च इज्यश्च बभूव भवति । छान्दसो लिट् ॥

०५ अभ्यातानमन्त्राः ...{Loading}...

विश्वेदेवा ऋषयः

भास्करोक्त-विनियोगः

1येन कर्मणेर्त्सेत् तत्राभ्यातानान् सप्तदश स्रुवाहुतीर्जुहोति - अग्निर्भूतानामित्यादीन् ॥

मूलम् (संयुक्तम्)

अ॒ग्निर्भू॒ताना॒मधि॑पति॒स्स मा॑व॒त्विन्द्रो᳚ ज्ये॒ष्ठाना᳚य्ँय॒मᳶ पृ॑थि॒व्या वा॒युर॒न्तरि॑ख्षस्य॒ सूर्यो॑ दि॒वश्च॒न्द्रमा॒ नख्ष॑त्राणा॒म्बृह॒स्पति॒र्ब्रह्म॑णो मि॒त्रस्स॒त्याना॒व्ँवरु॑णो॒ऽपाꣳ स॑मु॒द्रस्स्रो॒त्याना॒मन्न॒ꣳ॒ साम्रा᳚ज्याना॒मधि॑पति॒ तन्मा॑वतु॒ सोम॒ ओष॑धीनाꣳ सवि॒ता प्र॑स॒वानाꣳ॑ रु॒द्रᳶ प॑शू॒नान्त्वष्टा॑ रू॒पाणा॒व्ँविष्णु॒ᳶ पर्व॑तानाम्म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑ऽवन्तु

सङ्क्षेपः

अ॒ग्निर्भू॒ताना॒म् [अधि॑पतिः॒ स मा॑व॒तु, अ॒स्मिन्ब्रह्म॑न्न् +++(अ॒स्मिन्ब्रह्म॑ण्य् इत्यथर्ववेदे)+++ अ॒स्मिन्क्ष॒त्रे॑ ऽस्यामा॒शिष्य॒स्याम्पु॑रो॒धाया॑म् अ॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू॑त्याम् [स्वाहा]]…।

इन्द्रो॑ ज्ये॒ष्ठानाम् ……। य॒मः पृ॑थि॒व्या…। वा॒युर॒न्तरि॑क्षस्य॒…।
सूर्यो॑ दि॒वः…। च॒न्द्रमा॒ नक्ष॑त्राणा॒म्…। बृह॒स्पति॒र्ब्रह्म॑णः…।
मि॒त्रः स॒त्याना॒म्…। वरु॑णो॒ऽपा॑म्…। स॑मु॒द्रः स्रो॒त्याना॒म्…।
अन्न॒ँ साम्रा॑ज्याना॒म् अधि॑पति॒ तन्मा॑वतु॒…।
सोम॒ ओष॑धीनाम्…। सवि॒ता प्र॑स॒वानाम्…।
रु॒द्रः प॑शू॒नाम्…। त्वष्टा॑ रू॒पाणाम्…। विष्णुः॒ पर्व॑तानाम्…। म॒रुतो॑ ग॒णाना॒म् अधि॑पतय॒स् ते मा॑वन्तु॒…।
पित॑रः पितामहाः परेऽवरे॒ ततास् ततामहा इ॒ह मा॑वत …। …।…।

विश्वास-प्रस्तुतिः

अ॒ग्निर्भू॒ताना॒म् अधि॑पति॒स् स मा॑व॒तु
[अ॒स्मिन् ब्रह्म॑न्न् +++(अ॒स्मिन्ब्रह्म॑ण्य् इत्यथर्ववेदे)+++
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

मूलम्

अ॒ग्निर्भू॒ताना॒मधि॑पति॒स्स मा॑व॒तु
[अ॒स्मिन् ब्रह्म॑न्न् +++(अ॒स्मिन्ब्रह्म॑ण्य् इत्यथर्ववेदे)+++
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]]॥

भट्टभास्कर-टीका

हुत्वाहुत्वा वाचयति - पितरः पितामहा इति । इयं जगती अतिजगती वा । ‘आशिषि’ इति तृतीयपादान्तः । अग्निः भूतानां प्रजानां अधिपतिः स्वामी स माऽवतु रक्षतु स्वाहुतमिदमस्तु तस्मा इति । ‘अधिपतिस्स माऽवतु’ इति सर्वत्रानुषज्यते । यत्र तु लिङ्गभेदो वचनभेदो वा भवति तत्राम्नायत एव स विशेषः, यथा - ‘अन्नं साम्राज्यानामधिपति तन्माऽवतु’ ‘मरुतो गणानामधिपतयस्ते माऽवन्तु’ इति ॥

विश्वास-प्रस्तुतिः

इन्द्रो᳚ ज्ये॒ष्ठाना᳚म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

मूलम्

इन्द्रो᳚ ज्ये॒ष्ठाना᳚म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

2इन्द्रो ज्येष्ठानामधिपतिः [वृद्धतमानां लोकपालानाम्] ॥

विश्वास-प्रस्तुतिः

य॒मᳶ पृ॑थि॒व्याः [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

मूलम्

य॒मᳶ पृ॑थि॒व्याः [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

3यमोग्निविशेषः, ‘अग्निर्वाव यम इयं यमी’ इति । यम एव वा ॥

विश्वास-प्रस्तुतिः

वा॒युर॒न्तरि॑ख्षस्य [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

सूर्यो॑ दि॒वः [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

च॒न्द्रमा॒ नख्ष॑त्राणाम् [अधि॑पति॒स् स मा॑व॒तु],
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

मूलम्

वा॒युर॒न्तरि॑ख्षस्य [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

सूर्यो॑ दि॒वः [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

च॒न्द्रमा॒ नख्ष॑त्राणाम् [अधि॑पति॒स् स मा॑व॒तु],
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

4-6वायुरन्तरिक्षस्येत्यादि ॥ गतम् ॥

विश्वास-प्रस्तुतिः

बृह॒स्पति॒र्ब्रह्म॑णः [अधि॑पति॒स् स मा॑व॒तु],
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

मूलम्

बृह॒स्पति॒र्ब्रह्म॑णः [अधि॑पति॒स् स मा॑व॒तु],
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

7बृहस्पतिर्ब्रह्मणः ऋत्विजोधिपतिः ब्राह्मणजनेर्वा । बृहस्पतिशब्दो वनस्पत्यादित्वादाद्युदात्तः ॥

विश्वास-प्रस्तुतिः

मि॒त्रस्स॒त्याना᳚म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

मूलम्

मि॒त्रस्स॒त्याना᳚म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

8मित्रस्सत्यानां सत्यवताम् ॥

विश्वास-प्रस्तुतिः

वरु॑णो॒ऽपाम् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

मूलम्

वरु॑णो॒ऽपाम् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

9वरुणोपां स्थावराणाम् । ‘ऊडिदम्’ इति षष्ठ्या उदात्तत्वम् ॥

विश्वास-प्रस्तुतिः

स॑मु॒द्रस्स्रो॒त्याना॒म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

मूलम्

स॑मु॒द्रस्स्रो॒त्याना॒म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

10समुद्रस्स्रोत्यानां स्रोतसि भवानां नद्यादीनाम् । ‘स्रोतसो विभाषा ड्यड्ड्यौ’ इति ड्यः ॥

विश्वास-प्रस्तुतिः

अन्न॒ꣳ॒ साम्रा᳚ज्याना॒मधि॑पति॒ तन्मा॑वतु ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

मूलम्

अन्न॒ꣳ॒ साम्रा᳚ज्याना॒मधि॑पति॒ तन्मा॑वतु ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

11अन्नं साम्राज्यानां सम्यग्राजवतां अधिपति मा अवतु ॥

विश्वास-प्रस्तुतिः

सोम॒ ओष॑धीनाम् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

मूलम्

सोम॒ ओष॑धीनाम् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

12सोम ओषधीनां फलपाकान्ताम् ॥

विश्वास-प्रस्तुतिः

स॒वि॒ता प्र॑स॒वाना᳚म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

मूलम्

स॒वि॒ता प्र॑स॒वाना᳚म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

13सविता प्रसवानां अनुज्ञानानाम् ॥

विश्वास-प्रस्तुतिः

रु॒द्रᳶ प॑शू॒नाम् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

मूलम्

रु॒द्रᳶ प॑शू॒नाम् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

14रुद्रः पशूनां द्विपदां चतुष्पदां च । ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् ॥

विश्वास-प्रस्तुतिः

त्वष्टा॑ रू॒पाणा᳚म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

मूलम्

त्वष्टा॑ रू॒पाणा᳚म् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

15त्वष्टा रूपाणां रूपणीयानाम् ॥

विश्वास-प्रस्तुतिः

विष्णु॒ᳶ पर्व॑तानाम् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

मूलम्

विष्णु॒ᳶ पर्व॑तानाम् [अधि॑पति॒स् स मा॑व॒तु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

16विष्णुः पर्वतानां धारणानां धराधराणां तेषामपि धारकत्वात् ॥

विश्वास-प्रस्तुतिः

म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑ऽवन्तु {अ॒स्मिन्ब्रह्म॑न् + अ॒स्मिन्ख्ष॒त्रे᳚ + अस्यामा॒शिष्य॒स्याम् पु॑रो॒धाया॑म् + अ॒स्मिन्कर्म॑न् + अ॒स्यान्दे॒वहू᳚त्याम् ॥}

मूलम्

म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑ऽवन्तु {अ॒स्मिन्ब्रह्म॑न् + अ॒स्मिन्ख्ष॒त्रे᳚ + अस्यामा॒शिष्य॒स्याम् पु॑रो॒धाया॑म् + अ॒स्मिन्कर्म॑न् + अ॒स्यान्दे॒वहू᳚त्याम् ॥}

भट्टभास्कर-टीका

17मरुतो गणानां संघातानामधिपतयः ते मा अवन्तु ॥

विश्वास-प्रस्तुतिः

पित॑रᳶ पितामहाᳶ परेऽवरे॒ तता᳚स्ततामहा इ॒ह मा॑ऽवत ।

मूलम्

पित॑रᳶ पितामहाᳶ परेऽवरे॒ तता᳚स्ततामहा इ॒ह मा॑ऽवत ।

भट्टभास्कर-टीका

18पितरः इत्यादीनि षडामन्त्रितपदानि । पितृततशब्दयोः पादादित्वात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । अन्येषां तु निघातः । तत्र पितरः उत्पादयितारः । तेषां पितरः पितामहाः । जीवपितृतार्थं पितामहग्रहणम् ॥
लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ॥ इति ॥

सप्तमादूर्ध्वं ये विप्रकृष्टास्ते परे । ततोर्वाचीनास्सान्नीकृष्टाः अवरे । तताः येभ्यो दीयते पिण्डस्ते तताः पित्रादयस्त्रयः । तेषां पितरस्ततामहाः ये न पृथक्पिण्डभाजः उभयत्रापि पिण्डभाजश्च । ते सर्वे यूयमिह कर्मणि वर्तमानं मां अवत रक्षत ।

विश्वास-प्रस्तुतिः

अ॒स्मिन् ब्रह्म॑न्न् +++(अ॒स्मिन्ब्रह्म॑ण्य् इत्यथर्ववेदे)+++
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥ [16]

मूलम्

अ॒स्मिन्ब्रह्म॑न्न॒स्मिन्ख्ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्याम्पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यान्दे॒वहू᳚त्याम् [16]

भट्टभास्कर-टीका

अस्मिन्नित्यादि । ‘निमित्तात्कर्मसंयोगे’ इति सर्वा निमित्तसप्तमी । अस्मिन् ब्रह्मन् ब्राह्मणे जातिनिर्देशोयं, इयं ब्राह्मणजातिस्संपद्यतामिति । ब्राह्मणस्य निमित्तं वा । ‘ऊडिदम्’ इति सप्तम्या उदात्तत्वम् । क्षत्रे क्षत्रजातौ । आशिषि आशासनीये फले प्रजापश्वादौ । ‘आशासः क्वौ’ इतीत्वम्, ‘शासिवसि घसीनां च’ इति षत्वम् । पुरोधायां पुरस्करणे सर्वेषां प्राधान्ये । पुरस उपसर्गभावात् ‘आतश्चोपसर्गे’ इति भिदादिर्द्रष्टव्यः । कर्मणि क्रियमाणे क्रियाविशेषे देवहूयां देवानामाह्वाने पूजायाम् । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् ॥

इति तृतीये चतुर्थे पञ्चमोनुवाकः ॥

०७ राष्ट्रभृन्मन्त्राः ...{Loading}...

विश्वेदेवा ऋषयः

विश्वास-टिप्पनी

अस्यानुवाकस्य बोधायन-भट्टभास्करादि-रीत्या ऽनुषङ्गो ऽन्यत्र दर्शितः

भास्करोक्त-विनियोगः

1अथ राष्ट्रकामादिभ्यो विहिता राष्ट्रभृतः ऋताषाडृतधामेत्यादयः द्विस्स्वाहाकारं होतव्याः ।

मूलम् (संयुक्तम्)

ऋ॒ता॒षाडृ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्तस्यौष॑धयोऽफ्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒स्स्वाहा॑

सङ्क्षेपः

ऋ॒ता॒षाड् +++(=ऋतेन शाततीति)+++ ऋ॒तधा॑मा॒ ऽग्निर् ग॑न्ध॒र्वः। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।
तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।

स॒ꣳ॒हि॒तो वि॒श्वसा॑मा॒ +++(=विश्वानि सामान्यवसितान्यस्मिन्)+++ सूर्यो॑ ग॑न्ध॒र्वः । … ।
तस्य॒ मरी॑चयोऽप्स॒रस॒ आ॒युवो॒ नाम॑ । … ।

सु॒षु॒म्नः+++(=सुखम्)+++ सूर्य॑रश्मिश् च॒न्द्रमा॑ ग॑न्ध॒र्वः । … ।
तस्य॒ नक्ष॑त्राण्यऽप्स॒रसो॑ बे॒कुर॑यो॒+++(=चित्तविकारहेतवः)+++ नाम॑ । … ।

भु॒ज्युस् +++(=पालयिता, यो भुनक्ति)+++ सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वः । … ।
तस्य॒ दक्षि॑णा अप्स॒रस॑स् स्त॒वा नाम॑ । … ।

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः । … ।
तस्य॑र्क्सा॒मान्य् अप्स॒रसो॒ वह्ण॑यो॒ +++(सौन्दर्यं वहन्तीति)+++ नाम॑ । … ।

इ॒षि॒रो +++(इष्यमानवस्तुवत्त्वात्)+++ वि॒श्वव्य॑चा॒ +++(विश्वं वियातीति)+++ वातो॑ ग॑न्ध॒र्वः । … ।
तस्यापो॑ऽप्स॒रसो॑ मु॒दा नाम॑ । … ।

भुव॑नस्य-पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । स नो॑ रास्व+++(=देहि)+++ +आज्या॑निꣳ+++(=दीर्घायुः)+++ रा॒यस्पोषाꣳ॑
सु॒वीर्यꣳ॑ संवत्स॒रीणाꣳ॑ स्व॒स्तिꣳ स्वाहा॑ ।

प॒र॒मे॒ष्ठ्य् +++(=परमस्थानो)+++ अधि॑पतिर् मृ॒त्युर् ग॑न्ध॒र्वः । … ।
तस्य॒ विश्व॑म् अप्स॒रसो॒ भुवो॑ नाम॑ । … ।

सु॒क्षि॒तिस् सुभू॑तिर् भद्र॒कृत् सुव॑र्वान् प॒र्जन्यो॑ ग॑न्ध॒र्वः । … ।
तस्य॒ वि॒द्युतो॑ऽप्स॒रसो॒ रुचो॒ नाम॑ । … ।

दू॒रेहे॑तिर् अमृड॒यो मृ॒त्युर् ग॑न्ध॒र्वः । … ।
तस्य॒ प्र॒जा अ॑प्स॒रसो॒ भी॒रुवो॒ नाम॑ । … ।

चारुः॑ कृपणका॒शी +++(कृपणेषु मनो दीपयतीति)+++ कामो॑ ग॑न्ध॒र्वः । … ।
तस्या॒धयो॑ +++(=चित्तक्लेशाधिदेवताः)+++ ऽप्स॒रस॑श् शो॒चय॑तीर् नाम॑ । … ।

स नो॑ भुवनस्य-पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑।
उ॒रु+++(=विपुल)+++ब्रह्म॑णे॒ ऽस्मै क्ष॒त्राय॒
महि॒+++(=महत्)+++ शर्म॑ यच्छ॒ स्वाहा॑ ॥

विश्वास-प्रस्तुतिः

ऋ॒ता॒षाड् +++(=ऋतेन शाततीति)+++ ऋ॒तधा॑मा॒ ऽग्निर् ग॑न्ध॒र्वः। तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॑।
स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॒ ।
ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।

मूलम्

ऋ॒ता॒षाडृ॒तधा॑मा॒ अग्निर्ग॑न्ध॒र्वः , तस्यौष॑धयोऽफ्स॒रसः॑ , ऊर्जो॒ नाम॒, स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ,ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒, तस्मै॒ स्वाहा॒ , ताभ्य॒स्स्वाहा॑

भट्टभास्कर-टीका

तस्मा इति गन्धर्वाय । ताभ्य इत्यप्सरोभ्यः । ‘स इदं ब्रह्म क्षत्रं पातु’ इति गन्धर्वेष्वनुषज्यते । ‘ता इदं ब्रह्म क्षत्रं पान्तु’ इत्यप्सरस्सु । भुवनस्य पते इति पञ्चपदा पङ्क्तिः । ‘भुवनस्य पते ’ इति प्रथमपादान्तः । इयं च पर्यायाणां सप्तमी, आहुतीनां त्रयोदशी । अथ ‘स नो भुवनस्य’ इति न्यङ्कुसारिणी । द्वितीयः पादो द्वादशाक्षरः । इयं तु पर्यायाणां द्वादशी, आहुतीनां द्वाविंशतिः ।

ऋताषाट् ऋतं सत्यं यज्ञं वा सहते अभिभवति अतःपरं नास्ति सत्यं यज्ञो वा । ऋतेन वा विश्वमभिभवति । ‘छन्दसि सहः’ इति ण्विः, ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम्, ‘सहेस्साढस्सः’ इति षत्वम् ।

ऋतधामा ऋतं सत्यं यज्ञो वा धाम स्थानं तेजो वा यस्य स ऋतधामा । ईदृशत्वादग्निर्गन्धर्वः गान्धारबन्धं धारयति उदकं वा यागद्वारेणोत्पादयतीति गन्धर्वः, पृषोदरादिः । तस्य सम्बन्धिन्यः तेनाह्रियमाणा ओषधयः अप्सरस्त्वेन रूप्यन्ते, गन्धर्वाणामप्सरसो भार्याः, अपस्सारयन्ति अन्नं भूत्वा आहुतिद्वारेणादित्यं प्राप्नुवन्ति यथोक्तं ‘अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते’ इत्यादि । ऊर्जो नामान्नाख्यः, अन्नं भूत्वेत्यर्थः ।

केचिदाहुः - दोग्धृस्थानीयोग्निः वत्सस्थानीयाभिरोषधीभिः गां पयो दुघे इति स तादृशोग्निः इदं ब्रह्म क्षत्रं च पात्विति अस्मानाहुतिद्वारेण, प्राधान्यात्तयोर्ग्रहणं सर्वस्थावरजङ्गमप्रदर्शनार्थम् । ताश्च तादृश्योप्सरसः इदं क्षत्रं च पातु, तस्मा अग्नये स्वा हुतं करोमि ताभ्यश्चाप्सरोभ्यः ।

एवं सर्वेषु पर्यायेषु द्रष्टव्यम् ॥

मूलम् (संयुक्तम्)

सꣳहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युव॑स्

विश्वास-प्रस्तुतिः

स॒ꣳ॒हि॒तो वि॒श्व-सा॑मा॒ सूर्यो॑ गन्ध॒र्वस्
तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युवो॒ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

मूलम्

स॒ꣳ॒हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्
तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युवः॑ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

भट्टभास्कर-टीका

2संहितः सन्धीयतेऽनेनेति संहितः करणे क्तः, नैशी सूर्यप्रवृत्तिर्लक्ष्यते दर्शनात्मिका । विश्वसामा विश्वं सामावसितमस्मिन्निति विश्वसासा । अनेनापि नैशी वृत्तिर्लक्ष्यते अदर्शनात्मिका । ‘बहुव्रीहौ विश्वं संज्ञायाम्’ इति विश्वशब्दोन्तोदात्तः । एवं अहोरात्रे प्रवर्तयन् सूर्यः गन्धर्वः व्याख्यातः मरीचयोप्सरसः मारयन्ति शोषयन्ति सलिलं दिवसविशेषेषु वर्षार्थमेवेति मरीचयः । अपां सारयितारोप्सरसः । आविष्टलिङ्गत्वादप्सरश्शब्दस्स्त्रीलिङ्गेनैवोच्यते । वत्सस्थानीया वा पूर्ववत् ।

आयुवः गमनशीलाः विश्वव्यापिनः । एतेः ‘छन्दसीणः’ इत्युण्प्रत्ययः, ‘जसादिषु वा वचनं प्राङ्णौ चङ्युपधायाः’ इति जसि गुणाभावः, ‘तन्वादीनां छन्दसि बहुलम्’ इत्युवङ् । नामेत्यादिस्सर्वत्रानुषङ्गः ॥

मूलम् (संयुक्तम्)

सुषु॒म्नस्सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नख्ष॑त्राण्यफ्स॒रसो॑ बे॒कुर॑यः

विश्वास-प्रस्तुतिः

सु॒-षु॒म्नस् सूर्य॑-रश्मिश् च॒न्द्रमा॑ गन्ध॒र्वः,
तस्य॒ नख्ष॑त्राण्य् अफ्स॒रसो॑ बे॒कुर॑यो॒ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

मूलम्

सु॒षु॒म्नस्सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वः,
तस्य॒ नख्ष॑त्राण्यफ्स॒रसो॑ बे॒कुर॑यः [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

भट्टभास्कर-टीका

3सुषुम्नः सुसूते शोभनं सुखं यो न इति । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । चन्द्रो ह्यमृताद्देवपितृमनुष्यान् सुखयति । सूर्यरश्मिरेव रश्मिः यस्य अमृतात्मकत्वात् चन्द्रस्य । यथाऽऽहुः - सूर्योग्निमयो गोलः चन्द्रोम्बुमयस्स्वभाक्तस्स्वच्छः । तस्मात्स्वतो रश्म्यभावात् सूर्यरश्मिभिरेवायं दीप्यते इति । तदप्याहुः - भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि । अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥ इति ॥

एतदुक्तं भवति । यदस्यैवान्तस्थस्य चन्द्रबिम्बस्यार्धमेकं सर्वदा भास्वरं भवति, अर्धं तद्व्यतिरिक्तवर्णं दृश्यते । तत्रेदं कारणं - सूर्याभिमुखं यदर्वं तत्सूर्यरश्मिभिरादीप्यते, अन्यत्स्वामेव छायामवलम्बति । किमिति तर्हि चन्द्रमसो बिम्बार्धं सर्वदा न चकास्ति चकास्त्येव । किमिति नोपलभ्यते । उच्यते - अमावास्यायां चन्द्रमस उपर्यादित्यः तदासौ तस्य चन्द्रमसः उपरि यद्बिम्बार्धं तदशेषमवभासयति । ततश्चन्द्रस्यामावास्ययोपलक्षितोपरिबिम्बे केन्द्रात् यथा यथा पश्चादादित्योवलम्बते तथा तथा चन्द्रमसो बिम्बं केन्द्रस्य परतोवलम्बते तत्केन्द्रवशाच्चन्द्रमसो बिम्बार्धं यावदेवामावास्योपलक्षिते बिम्बस्यार्धादधोवलम्बते तावच्चन्द्रमसो बिम्बं अस्माभिरुपलभ्यते । शेषमुपरिस्थितत्वात् सूर्याभिमुखं दीप्यमानमपि नोपलभ्यते । तस्माद्यावद्यावत्सवितृकराश्लिष्टमवलम्बते तावत्तावच्छुक्लश्चन्द्रमा उपलभ्यते । तेनमी ज्योत्स्त्नावितानावभासिनश्चन्द्रकराः सूर्य मरीचय एव । केन तर्हि सवितृमरीचयोम्बुमयस्वभावे च श्यामे चन्द्रबिम्बे सम्मूर्छिता नैशं ध्वान्तमुपध्वंसयन्ति । उच्यते - यथा दर्पणे जले वा दिवाकरकरास्सम्मूर्छितास्सन्तो गृहान्तर्गर्तं तमः क्षपयन्ति एवं तदिति द्रष्टव्यम् । अन्यच्च यो यः चन्द्रबिम्बप्रदेशः सवितृमार्गे ऋजुत्वेन व्यवस्थितः स एव शुक्ल उपलक्ष्यते नेतर इत्यवगन्तव्यम् । एवं च निरुक्ते पठ्यते - ‘तस्यैको रश्मिः चन्द्रमसं प्रतिदीप्यते तेनोत्प्रेक्षितव्यमादित्योस्य दीप्तिर्भवति’ इति । तादृशः चन्द्रमा गन्धर्वः नक्षत्राण्यप्सरसः वृष्टिहेतुत्वात् । बेकुरयः वर्णव्यावृत्तिश्छान्दसी, भेकुरयः । वाजसनेयिनामेष एव पाठः । भयं यक्ष्माख्यं चन्द्रस्य कृतवत्यः इत्यर्थः । बिभेतेर्व्यत्ययेन भावे विन्, करोतेरौणादिके किप्रत्यये छान्दसमुत्वम् । अन्य आहुः - वृष्ट्यादिकरणशीलाः बेकुरयः । वेरुपसर्गस्य स्वरव्यञ्जनयोर्वृत्तिरिति ॥

मूलम् (संयुक्तम्)

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दख्षि॑णा अफ्स॒रस॑स्स्त॒वाः

विश्वास-प्रस्तुतिः

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्,
तस्य॒ दख्षि॑णा अफ्स॒रस॑स् स्त॒वा [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

मूलम्

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्,
तस्य॒ दख्षि॑णा अफ्स॒रस॑स् स्त॒वाः [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

भट्टभास्कर-टीका

4भुज्युः भुनक्ति पालयति विश्वमिति भुज्युः, भुजेरौणादिकः क्युप्रत्ययः । सुपर्णः शोभनपतनः शोभनगमनः । पूर्वपदान्तोदात्तत्वम् । ईदृशो यज्ञः गन्धर्वो भवति । दक्षिणा अप्सरसः । दक्षिणा, दक्ष वृद्धौ, दक्षिणेति कल्याण्यः दक्षिणावृद्ध्यै भवन्ति । तामेव कल्याणतामाह - स्तवा इति । स्तूयन्त इति स्तवाः । यद्वा - स्तूयते पुरुषो याभिस्ताः स्तवाः यो भूरि ददाति सः स्तूयते हि लोके न कर्मणैव । ऋदोरप् । उञ्छादिर्द्रष्टव्यः ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनः॑ [19] ग॒न्ध॒र्वस्तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑यः

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः,
तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑यो॒ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

मूलम्

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः,
तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑यः [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

भट्टभास्कर-टीका

5प्रजापतिः प्रजानां पालयिता । ‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् । विश्वकर्मा विश्वं करणीयं यस्य स विश्वकर्माः ; मनोनिबन्धनत्वात्सर्वप्रवृत्तीनाम् । पूर्ववद्विश्वशब्दस्य अन्तादोत्तत्वम् । उभयत्रापि लिङ्गव्यत्ययः । यद्वा - प्रजापतिर्वीश्वकर्मभावेन स्तूयते तत्कार्यभावेन प्रवणार्थं, लुप्तोपमा वा । मनो गन्धर्वः सम्यग्यागनिवृत्तेः । ऋक्सामान्यप्सरसः. यजुषामप्युपलक्षणम् । वह्नयः ऋगादयः यज्ञं वहन्ति मनसा गृहीतत्वात्ताः ॥

मूलम् (संयुक्तम्)

इषि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापो᳚ऽफ्स॒रसो॑ मु॒दा

विश्वास-प्रस्तुतिः

इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वः,
तस्यापो᳚ऽफ्स॒रसो॑ मु॒दा [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

मूलम्

इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वः,
तस्यापो᳚ऽफ्स॒रसो॑ मु॒दाः [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

भट्टभास्कर-टीका

6इषिरः सरणशीलस्सदागतिः । इष गतौ, औणादिकः किरच्प्रत्ययः । विश्वव्यचा विष्वग्भागं व्यचति पुरोवातादिरूपेण व्याप्नोति, विपूर्वादञ्चतेः ‘गतिकारकयोरपि’ इत्यसुन्, पूर्वपदप्रकृतिस्वरत्वस्य च बहुव्रीहिस्वरस्योपलक्षणत्वात् ‘बहुव्रीहौ विश्वम्’ इत्येतद्भवति । वातो गन्धर्वः, आपोप्सरसः व्याप्तिमत्यः वर्ष्या आपः मुदा नाम मोदयित्र्यः प्रजानां, ताभिर्हि सर्वे मोदन्ते, इगुपधात्कः ॥

विश्वास-प्रस्तुतिः

भुव॑नस्य-पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
स नो॑ रा॒स्वाज्या॑निꣳ+++(=अहानिं)+++ रा॒यस्-पोषꣳ॑ सु॒वीर्यꣳ॑ सव्ँवथ्स॒रीणाꣳ॑ स्व॒स्तिम् ।

मूलम्

भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ सव्ँवथ्स॒रीणाꣳ॑ स्व॒स्तिम् ।

भट्टभास्कर-टीका

7भुवनस्येत्यादि ॥
भुवनस्य भूतजातस्य पते पालयितः
उपरि द्युलोक्तान्तरिक्षयोः
इह च पृथिव्यां ग्रहाः ग्रहवासिनः ।
ते स्वभूताः त्वं नो स्मभ्यं रास्व देहि । व्यत्ययेनात्मनेपदम् ॥ अज्यानिं अहानिं अहानिनिमित्तम् । क्तिनो निष्ठावद्भावात् ‘ल्वादिभ्यश्च’ इति नत्वम् । रायो धनस्य पोषं सुवीर्यं शोभनवीर्यकम् । ‘वीरवीर्यौ च’ इत्युत्तरपदान्तादोत्तत्वम् । संवत्सरीणां च स्वस्तिं अविनाशं संवत्सरभावीति । ‘संपरिपूर्वात्ख च’ इति खः ॥

मूलम् (संयुक्तम्)

प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॒ विश्व॑मफ्स॒रसो॒ भुव॑स्

विश्वास-प्रस्तुतिः

प॒र॒मे॒ष्ठ्य् अधि॑पतिर् मृ॒त्युर् ग॑न्ध॒र्वः,
तस्य॒ विश्व॑मफ्स॒रसो॒ भुवः॑ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

मूलम्

प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वः,
तस्य॒ विश्व॑मफ्स॒रसो॒ भुवः॑ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

भट्टभास्कर-टीका

8परमेष्ठी परमे स्वभावे तिष्ठतीति प्रत्यये ‘तत्पुरुषे कृति बहुलम्’ इति सप्तम्या अलुक् । अधिपतिः स्वामी मृत्युः गन्धर्वः विश्वं भूतजातं अप्सरसः सम्यङ्नीयमानं विश्वस्थितिहेतुरिति । भुवो नाम भवन्तीति भुवः । मध्यस्थतामादाय भूतानि धारयन्तीति ॥

मूलम् (संयुक्तम्)

सुख्षि॒तिस्सुभू॑तिर्भद्र॒कृथ्सुव॑र्वान्प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतो᳚ऽफ्स॒रसो॒ रुचो॑

विश्वास-प्रस्तुतिः

सु॒ख्षि॒तिस्सुभू॑तिर्भद्र॒कृथ्सुव॑र्वान् , प॒र्जन्यो॑ गन्ध॒र्वः,
तस्य॑ वि॒द्युतो᳚ऽफ्स॒रसो॒ +++(‘ता इदं ब्रह्म क्षत्रं पान्तु’) +++ रुचो॑ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

मूलम्

सु॒ख्षि॒तिस्सुभू॑तिर्भद्र॒कृथ्सुव॑र्वान् , प॒र्जन्यो॑ गन्ध॒र्वः,
तस्य॑ वि॒द्युतो᳚ऽफ्स॒रसो॒ +++(‘ता इदं ब्रह्म क्षत्रं पान्तु’) +++ रुचो॑ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

भट्टभास्कर-टीका

9सुक्षितिः शोभनक्षितिकः । पूर्ववत्स्वरः । सुभूतिः शोभनभूतिः सम्पत् प्रजानाम् । प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । भद्रकृत् कल्याणकरी सर्वेषां सुवर्वान् द्युलोकवान् सस्यनिष्पत्त्यादिना तद्धारणात् । आदित्यवान्वा ; तदधीनप्रवृत्तित्वात् । ‘छन्दसीरः’ इति मतुपो वत्वम् । शोभनारणवान्वा । तन्वादित्वादुवङ् । पर्जन्यो गन्धर्वः । विद्युतोप्सरसः । रुचः रुचमानाः नभसि दीप्यमानाः ।

मूलम् (संयुक्तम्)

दू॒रेहे॑तिरमृड॒यः [20] मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवः

विश्वास-प्रस्तुतिः

दू॒रेहे॑तिरमृड॒यो मृ॒त्युर्ग॑न्ध॒र्वः,
तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवो॒ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

मूलम्

दू॒रेहे॑तिरमृड॒यो मृ॒त्युर्ग॑न्ध॒र्वः,
तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवः॑ [+नाम॑। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। तस्मै॒ स्वाहा॒ । ताभ्यः॒ स्वाहा॑ ।]

भट्टभास्कर-टीका

10दूरेहेतिः दूरेऽपि हेतिर्हननं यस्य, दूरेऽप्येतच्छ्रवणेन म्रियते इति कृत्वा । ‘ऊतियूति’ इत्यादौ हेतिशब्दो निपात्यते, ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक् । अमृडयः दुःखयिता श्रवणमात्रेणैव भीतिजनकत्वात् । मृडेर्ण्यन्ताच्छान्दसः शः । मृत्युः श्रोतॄणां मारयिता त्रासनयत्नः गन्धर्वः प्रजा अप्सरसः ; तदर्थत्वात्तत्प्रवृत्तेः । भीरुवः भयशीलाः पुष्याभाया ? ॥

मूलम् (संयुक्तम्)

चारु॑ᳵ कृपणका॒शी कामो॑ गन्ध॒र्वस्तस्या॒धयो᳚ऽफ्स॒रस॑श्शो॒चय॑न्ती॒र्नाम॒ स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒स्स्वाहा

विश्वास-प्रस्तुतिः

चारु॑ᳵ कृपण-का॒शी कामो॑ गन्ध॒र्वः,
तस्या॒धयो᳚ऽफ्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒ ताभ्य॒स् +++(अप्सरोभ्यः)+++ स्वाहा॑॥

मूलम्

चारु॑ᳵ कृपणका॒शी कामो॑ गन्ध॒र्वः,
तस्या॒धयो᳚ऽफ्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒ तस्मै॒ स्वाहा॒, ताभ्य॒स् स्वाहा॑

भट्टभास्कर-टीका

11चारुः चरणशीलः वीषयमवगाहत इति कृपणकाशी कृपणेष्विन्द्रियाथेर्षु मनः काशयतीति ‘सुप्यजातौ’ इति णिनिः । कामो गन्धर्वः । तेन हि यागादिद्वारेण वृत्तिरुत्पाद्यते । तस्याधयोप्सरसः आधीयन्ते ऋद्धावित्याधयः काम्या इन्द्रियार्था उच्यन्ते । ‘उपसर्गे घोः किः’ । शोचयन्तीः शोचयन्त्यः, तेषामलाभेन हि प्रजाः शोचन्ते । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । नामेत्यादि पुनराम्नायते अनुषङ्गसमाप्तिं द्योतयितुम् ॥

विश्वास-प्रस्तुतिः

स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
उ॒रु ब्रह्म॑णे॒ऽस्मै ख्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ॥ [21]

मूलम्

स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
उ॒रु ब्रह्म॑णे॒ऽस्मै ख्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ॥ [21]

भट्टभास्कर-टीका

12स न इत्यादि ॥ व्याख्यातमर्धर्चम् ।

  • {भुवनस्येत्यादि ॥ भुवनस्य भूतजातस्य पते पालयितः उपरि द्युलोक्तान्तरिक्षयोः इह च पृथिव्यां ग्रहाः ग्रहवासिनः । ते स्वभूताः स त्वं नोस्मभ्यं रास्व देहि । व्यत्ययेनात्मनेपदम् ॥ }

स त्वं नोस्माकं सम्बन्धिने अस्मै ब्रह्मणे अस्मै क्षत्राय उरु विस्तीर्णं महि महनीयं च शर्म सुखं यच्छ देहि । अन्ये आहुः - स न इति काम उच्यते । यस्य ते उपरि गृहाः इह च । स त्वं हे भुवनस्य पते काम ब्रह्मणे क्षत्राय च अस्मै उरु महनीयं च शर्म यच्छेति ॥

इति तृतीये चतुर्थे सप्तमोनुवाकः ॥

‘(ओं) भुवः॒ स्वाहा॑’ इति हुत्वा

प्रायश्चित्त-परिषेचन-प्रणीताऽवोक्षणानि कृत्वा