वैश्वदेवम्

शिक्षाग्रहणे व्रतम्

  • यजमानस्यैवेत्येके।
  • १२ दिनानि निर्लवणभोजनम् भूशयनम्, ब्रह्मचर्यञ्च
    • अग्निस्थानक-बलिसमूहः + ११ पार्थिवस्थानीया बलयः
  • १ रात्रस्योपवासः वैहायस-स्थानीय-बलिभ्याम्
  • Ravilochana - “Though no one really follows this rule anymore. Rather what we have in practice is another method given in bodhAyana paddhati where kUShmANDa and three savana gaNa homas are done on the day before vaishvadeva is begun.”

अन्न-साधनम्

  • अथ गृहमेधिनो यदशनीयमन्नं ततो होमार्थं हविष्यमन्नं पात्रे कल्पयति ।
  • अहविष्यं क्षारलवणावरान्नसंसृष्टं द्वितीये । (यद्यन्नशेषो ऽशनीयस् तादृशः)
  • हविष्यमन्नं देवयज्ञार्थं तृतीये (सन्निपातौ होमे) ।
  • सर्वतस्समवदाय अग्रार्थ चतुर्थे ।
  • सर्वत एव समवदाय मनुष्ययज्ञाय पञ्चमे यदि ब्राह्मणतर्पणं नावकल्पते ।
  • गृहमेधिना ऽशनीयम् अन्नं संस्कृत्य, परनिर्मितञ्चेत् प्रोक्ष्य, “भूतम्” इत्युक्तः “तत् सुभूतम्। विराडन्नम्। तन् मा क्षायि” इति प्रतिवदेत्

होमः

  • पूर्वपरिषेचनम्
  • हस्तेन जुहुयात् अङ्गुष्ठपर्वमात्रम्
  • अथ उदीचीनमुष्णं भस्मापोह्य तस्मिनहविष्यं स्वाहाकारेण जुहोति - यद्य् अन्नशेषो ऽशनीयः
    • यस्याग्नौ न क्रियते यस्यचाग्रं न दीयते न तद्भोक्तव्यम् (आप.ध.२१५१३)
  • उत्तर-परिषेचनम्
  • सन्निपाति-होमो ऽपर्वसु
    • ब्राह्मणोक्तत्वात्
    • प्रोक्ष्याग्निम्, विद्युदसीत्य् आचम्य
    • “देवेभ्यो यक्ष्ये” इति आगूर्य
    • देवेभ्यस् स्वाहेत्य् आहुतिः।
    • प्रोक्ष्याग्निम्, वृष्टिरसीत्य् आचामति

स्थानं प्रति बलि-हरणम्, ततः स्थापनम्

  • भावः पूर्वोक्तो न विस्मरणीयः
  • बलीनां पृथक् पृथक् तत् तत् स्थाने हस्तेन परिमर्शः, अवोक्षणञ्च, स्थापयित्वा परिषेचनम् तत्स्थाने सङ्गृहीतबलेः सर्वस्य सकृदेव।
  • अपरेणाग्निं “धर्माय स्वाहा, अधर्माय स्वाहे"त्युक्त्वा
  • उदकप्राप्तिस्थाने “अद्भ्यस् स्वाहे"ति
  • मध्ये पूर्वे वा ऽगारस्य “ओषधिवनस्पतिभ्यः स्वाहा, रक्षोदेवजनेभ्यस् स्वाहा”
  • उत्तरपूर्वे “गृह्याभ्यः स्वाहा, अवसानेभ्यः स्वाहा अवसानपतिभ्यः स्वाहा सर्वभूतेभ्यः स्वाहा”
  • शय्यादेशे कामाय स्वाहा
  • देहल्याम् “अन्तरिक्षाय स्वाहा”
  • द्वार-कवाटे “यदेजति जगति यच्च चेष्टति, नाम्नो भागो यन्, नाम्ने स्वाहा”
  • उत्तरैर् ब्रह्मसदने (= मध्ये ऽगारस्य, पूर्वे वा) -
    “पृथिव्यै स्वाहा अन्तरिक्षाय स्वाहा दिवे स्वाहा,
    सूर्याय स्वाहा चन्द्राय स्वाहा नक्षत्रेभ्यस् स्वाहा
    इन्द्राय स्वाहा बृहस्पतये स्वाहा प्रजापतये स्वाहा ब्रह्मणे स्वाहा”
  • दक्षिणतः “स्वधा पितृभ्यः” प्राचीनवीतिना, अप उपस्पृश्य
  • तदुत्तरतः “नमो रुद्राय पशुपतये स्वाहा” इत्य् उपवीतिना, अप उपस्पृश्य
  • “ये भूताः प्रचरन्ति नक्तं बलिमिच्छन्तो वितुदस्य प्रेष्याः। तेभ्यो बलिं पुष्टिकामो हरामि। मयि पुष्टिं पुष्टिपतिर् दधातु स्वाहा।” इति नक्तं वैहास्यबलिः

वैश्वदेव-शेषस्याशनम्

शुन्दैपाळ्य-रामभद्राचार्यस्य १८२५ इति वर्षस्य परिसरे लिखित आह्निकशेषे - “औपासनाग्नौ वैश्वदेवे तच्छेषं दम्पती भुञ्जीयाताम्। पाकाग्नौ चेत् सर्वैरपि भोज्यम्”।

मनुष्ययज्ञः

विकल्पाः -

  • ब्राह्मणायाग्रं दद्यात् यद्य् अवशिष्टं भोक्तव्यं ब्राह्मणैः
    • “यस्याग्नौ न क्रियते यस्यचाग्रं न दायते न तद्भोक्तव्यम् (आप.ध.२१५१३)”
  • म॒नु॒ष्येभ्यो॑ हन्त॑! इति धनसञ्चयं दातुम्।

भूतयज्ञः

विकल्पाः -

  • अन्नप्रकीरणम्।
  • “भूतेभ्यस् स्वाहा!” इति धनसञ्चयं दातुम्।

विनियुक्त-मन्त्राः

  • ॐ भूतेभ्यो नमः
  • ऐन्द्रवारुणवायव्याः सौम्या याम्याश्च नैर्ऋताः।
    विहगाः प्रतिगृह्णन्तु बलिं भूमौ मयार्पितम्॥
  • द्वौ श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ।
    ताभ्यां पिण्डम् प्रदास्यामि स्यातामेतावहिंसकौ ।।

स्रोतांसि

  • सूत्रे अत्र
  • एकाग्निकाण्डे मन्त्रा अत्र
  • धर्मसूत्रे ऽत्र
  • तत्रैव ५ महायज्ञाः।
  • श्रीवैष्णवसदाचारनिर्णये ऽत्र
  • टिप्पन्यः अत्र

सुदर्शनसूरि-पद्धतिः

०७ २७ वैश्वदेवे विश्वे ...{Loading}...
Oldenberg
  1. 1 (The deities) of the Vaiśvadeva ceremony are the Viśve devās,
हरदत्त-प्रस्तावः

ननु– “नानग्नौ प्रधानम्” इति याज्ञिकवचनात् वैश्वदेवबलिहरणानि तावदङ्गानि । अग्नौ होमेषु च आग्नेयसौविष्टकृतावन्तरेण ये होमास्त एव प्रधानाः । तौ तु सर्पबल्यादिसामान्यादङ्गमित्याशङ्क्याह—

हरदत्तः

“आर्याः प्रयता वैश्वदेव” इति चोदिते वैश्वदेवाख्ये कर्मणि देवतोपदेशोऽयं निर्वापकाले सङ्कल्पार्थम् । यास्तु तत्र देवताः षड्भिराद्यैः प्रतिमन्त्रं ( आप. ध.२-३-१६.) इत्येवमाद्याः ताः प्रदानकाले देवताः, तेन विश्वेभ्यो देवेभ्यः इति सङ्कल्प्य गृहस्थेन स्वगृहे पाकः कार्यः । तथा पक्वादेवान्नात् होमा बलयश्च तस्यै तस्यै देवतायै । “अहरहर्भूतबलिर्” इत्येवमाद्याः पञ्चमहायज्ञानामुत्पत्तिविधयः । “आर्याः प्रयता” इत्यादिकस्तु तेषामेव प्रयोगविधिः । तस्मात् न पृथक् पञ्चमहायज्ञाः कर्तव्याः तत्रैव वैश्वदेवं यदग्नौ क्रियते स देवयज्ञः । यत् बलिहरणं स भूतयज्ञः । यद्दक्षिणतः पितृलिङ्गेनेति स पितृयज्ञः । यदग्नं च देयमित्यादि स मनुष्ययज्ञः । तत्र वैश्वदेवे सोमाय स्वाहेति द्वितीयाहुतिरिति मन्त्रव्याख्याकारेणोक्तम् । न च षड्भिराद्यैरिति विरोधः । तस्य प्रधानदेवताविषयत्वात्, स्विष्टकृतश्च तान्त्रिकत्वात् । अथ कस्मादिहैव वैश्वदेवस्य कृत्स्नकल्पो नोपदिश्यते? उच्यते– इहोपदेशे तस्य कल्पस्य सर्वचरणार्थता न स्यात्, इष्यते च । तस्मात् सर्वचरणसाधारणेषु सामयाचारिकेषूपदेशः । अथ तर्हि देवतोपदेशः तत्रैव कस्मान्न कृतः ? इहोपदेशप्रयोजनमस्मिन् गृह्ये तदपि वैश्वदेवं कर्मोपदिष्टं यथा स्यादिति । तेनास्मदीयानां स एव वैश्वदेवकल्पो नान्येषु धर्मशास्त्रेषु चोदितः । यज्ञोपवीतिना प्रदक्षिणमित्यादि परिभाषाप्रवृत्तिश्च भवति ॥२७॥

सुदर्शनः

वैश्वदेवम् इति कर्मनामधेयम् । प्रवृत्ति-निमित्तं च, विश्वे सर्वे देवा अत्रेज्यन्त इति । इह च मन्त्रवर्णसिद्धानां देवतात्वस्याविधेयत्वात्,
आग्नेयादयष् षड् अपि होमाः बलिहरणानि चानग्निदेश्यान्य् अपि सर्वाण्येव प्रधानानि ;
न तु किञ्चिदपि शेषापरनामाङ्गम्, इत्येवं सूत्रार्थः ।

अयं भावः– यादि नानग्नौ प्रधानम्,
किन्तु शेष एवेति
तर्ह्येतच्छेषलक्षणे तृतीयाध्याये दृश्येत । न तु दृष्टम्, नापि सूत्रकारोक्तं दृश्यते । किन्तु पिण्डपितृयज्ञे तावदापस्तम्बेन होमः पिण्डदानं चोभयं प्रधानमुक्तम्, पिण्डदानं प्रकृत्य यदि जीवपिता, न दद्यात्, आहोमात्कृत्वा विरमेत्” (आप.श्रौ.१-९-८.) इति । यदि हि पिण्डदानस्याङ्गता, तदा प्रधानभूतहोमानुष्ठाने सति, तस्याप्यनुष्ठानं स्यात्, न विरामः ।
तस्मादत्र प्रधानस्यैव पिण्डदानस्य “नासोमयाजी सन्नयेत्” (तै. सं.२-५-५.) इत्यादिवदनारम्भलक्षण एव विरामः ।
कात्यायनस्तु—प्रत्युत पक्षे पिण्डदानमेव प्रधानं, होमस्तदङ्गमित्याह “जीवपितृकस्य होमान्तम्, अनारम्भो वा” (का. श्रौ. ४-१-२४,२५.) इति ॥ तथा सर्पेशानबल्योरपि होमा बलयश्च प्रधानम् । अवभृथे त्वनग्नावेव प्रधानम् । सोमाङ्गत्वेऽप्यस्य प्राधान्यं स्वाङ्गापेक्षया । तथैव राक्षसे गर्दभपशौ अनग्नावेव प्रधानम् ; “अप्स्ववदानैश्चरेयुः” (आप. श्रौ. ९-१५-५.) इति वचनात् । वपायास्तूपदेशमतादग्नौ होमः । “यदि वपा हविरवदानं वा स्कन्देत्” (आप. श्रौ. ९-१८-१५.) इति वपायाः पृथग्ग्रहणात् । एवमनग्नावप्यन्यानि बहूनि प्रधानानि सन्ति, यथा श्राद्धे ब्राह्मणभोजनम् । एवमाग्नेयसौविष्टकृतहोमावपीह प्रधानम् ; “औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात्” (आप. ध. २-३-१६.) इति कृत्स्नविधानेन, “उभयतः परिषेचनम्”(आप. ध. २-३-१७.) इति परिसङ्ख्यया चास्य वैश्वदेवस्यापार्वणविकारत्वात् । सर्पबल्यादिषु तु पार्वणविकारत्वात्तावदङ्गम् । किञ्च वैश्वदेवमन्त्रेष्वपि “अग्नये स्वाहा, अग्नये स्विष्टकृते स्वाहा” इत्येतयोरप्याम्नानात् प्राधान्यम् ।

ननु–वैश्वदेवमन्त्राणामपि न प्रत्यक्षस्समाम्नायः, स कथमवगम्यते? उच्यते–“षड्भिराद्यैः प्रतिमन्त्रम्” “अपरेणाग्निं सप्तमाष्टमाभ्याम्” (आप. ध. २-३-१६,२०.) इत्यादिसूत्रैः क्रमेण विनियोगात् क्वचिदाम्नानमस्तीत्यवगम्यते । तच्चाम्नानं प्राग्विवाहमन्त्रेभ्यः, भाष्यकारवचनात् । ततश्च ब्रह्मयज्ञपारायणयोरप्येतेषामेवंक्रमेणाध्ययनं वेदितव्यम् । सर्वप्राधान्ये च प्रयोजनम्-एषामेकतरमप्यकृत्वा प्रयोगे समापितेऽपि तत् प्राग्भोजनात् सप्रायश्चित्तं साङ्गमनुष्ठेयम् ; कृते तु भोजने पाकयज्ञलोपप्रायश्चित्तमेवेति । केचित्— वैश्वदेवे विश्वे देवा देवता विधीयन्ते निर्वापकाले सङ्कल्पार्थम्, ईशानयज्ञवत् । यास्तु धर्मशास्त्रे मन्त्रविनियोगात् कल्पितास्ताः प्रदानकाले देवताः । इह च देवतोपदेशो वैश्वदेवस्य गार्ह्यपरिभाषाप्राप्त्यर्थः । तत्र तस्योपदेशस्तु सर्वचरणार्थः । इदं च वैश्वदेवं न पञ्चमहायज्ञेभ्यः पृथग्भूतम् । “अहरहर्भूतबलिः” (आप. ध.१-१२-१५.) इत्यादयश्च पञ्चमहायज्ञानामुत्पत्तिविधयः । “आर्याः प्रयता वैश्वदेवे” (आप. ध.२-३-१.) इत्यादिस्तु प्रयोगविधिः । तत्र यदग्नौ क्रियते स देवयज्ञः, यत् बलिहरणं स भूतयज्ञः, यद्दक्षिणतः पितृलिङ्गेनेति स पितृयज्ञः, यच्चाग्रदानं स मनुष्ययज्ञः, इति ।

तन्न, स्वमते श्रुत्या चोदितान् विश्वान् देवान् वचनं विनाऽपनीय, तेभ्यस्सङ्कल्पितस्य हविषो देवतान्तरेभ्यो मन्त्रवर्णात् कल्पितेभ्यो दातुमयुक्तत्वात् । ईशानबलौ तु भवशर्वादिशब्दानामीशानाभिधानत्वात्, अर्थस्य देवतात्वमिति सूत्रकारमताच्च, युक्तं भवायेत्यादिभिर्मन्त्रैर्दानम् । यत्तु मीढुष्यै जयन्ताय चास्मात् स्थालीपाकाद्दानं तदप्यभ्युदयेष्ट्यादिवत् सवनीयपुरोडाशवच्च” त्रीनोदनान् कल्पयित्वोत्तरैरुपस्पर्शयित्वोत्तरैर्यथास्वमोदनेभ्यो हुत्वा" (आप. गृ.२०-४.) इति वचनैः स्थालीपाकांशद्वये पूर्वदेवतापनयेन देवतान्तरविधानाद्युक्तम् ।

पञ्चमहायज्ञेभ्यो न पृथग् वैश्वदेवम् इत्यपि न;
प्रकरणान्तरात् संज्ञा-भेदाच् च कर्म-भेदावगतेः ।
न च कर्मभेदे तेषां प्रयोगो दुरुपपाद
इति प्रमित-भेदापह्नवो युक्तः,
यतो +++(कपर्दि??-)+++भाष्ये वैश्वदेवस्य, तेषां च प्रयोगः पृथग् एवोपपादितः ॥

विस्तारः (द्रष्टुं नोद्यम्)

अत्रानुवादः -

प्रकरणान्तरात् संज्ञा-भेदाच् च कर्म-भेदावगतेः = due to understanding in difference in the karma-s based on chapter/context -difference, name-difference.

न च कर्मभेदे तेषां प्रयोगो दुरुपपाद
इति प्रमित-भेदापह्नवो युक्तः = not proper to hide the evidenced difference (in the karmas) by saying that the procedures are unclarifiable.

भाष्ये वैश्वदेवस्य, तेषां च प्रयोगः पृथग् एवोपपादितः = the procedures are described separately in the bhAShya (अधुना नोपलभ्यते कपर्दिभाष्यम्। कारिकास् तु काश्चन लभ्यन्ते। )

५ महा-यज्ञाः ...{Loading}...

अथ प्रयोगभाष्यम् ईषद्-भेदं लिख्यते–
“वैश्वदेवस्य कर्मोच्यते” प्रसङ्गात् पञ्च-महा-यज्ञानां च ।

वैश्वदेवम्

समावेशनजपान्ते विवाहे समाप्ते
वैश्व-देव–मन्त्राणाम् उपयोगे यद् व्रतं
“द्वादशाहमधश्शय्या” (आप.ध.२-३-१३.) इत्यादि
तत्स्वामित्वाविशेषात् सपत्नीकश् चरित्वा
प्रशस्तेऽहन्यारभ्य “आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारस्स्युः” इत्यादिविधिना सिद्धेऽन्ने तिष्ठन्नन्नसंस्कर्ता भार्यादिः “भूतम्” इति स्वामिने प्रब्रूयात् ।
तत् “सुभूतं सा विराडन्नं तन्माक्षायि” इति स्वामी प्रतिब्रूयात् ।

ततो यदि प्रयाणे गृहे वा वैश्वदेवस्य होमस्य स्थाने ऽग्निर् उपसमाधातव्यः, तत्र धर्मशास्त्रोक्तविधिना उपसमादधाति। एवम् अन्यत्राप्य् औपासनहोमादिषु।

अथ गृहमेधिनो यद् अशनीयमन्नं ततो होमार्थ हविष्यमन्नं पात्रे कल्पयति।
अहविष्यं श्रारलवणावरान्नसंसृष्टं द्वितीये।
हविष्यमन्नं देवयज्ञार्थं तृतीये।
सर्वतस्समवदाय अग्रार्थं चतुर्थे।
सर्वत एव समवदाय मनुष्ययज्ञार्थं पञ्चमे यदि ब्राह्मणतर्पणं नावकल्पते। “मनुष्येभ्यो यथाशक्ति दानम्” (आप. ध.१-१२-१५.) इति वचनात् ।

ततः परिषेचनं कृत्वा प्रथमकल्पितादन्नाद्यथाहुतिमात्रं अङ्गुष्ठपर्वमात्रं “अग्नये स्वाहे"त्यादिभिः षडैहुतीर्हुत्वा उत्तरं परिषेचनम् ।

अथ उदचीनमुष्णं भस्मापोह्य तस्मिन् अहविष्यं स्वाहाकारेण जुहोति; “यस्याग्नौ न क्रियते यस्यचाग्रं न दीयते न तद्भोक्तव्यम्” (आप. ध.२१५१३) इति वचनात् ।

अथ षडाहुति-होम-शेषम् अहविष्य-होम-शेषेण संसृज्यान्नेन सूपसंसृष्टेन धर्मशास्त्रोक्तेन विधिना रौद्रान्तं बलिं हृत्वा,
ऽग्रं ब्राह्मणाय दत्वा,
ब्राह्मणोक्तत्वाद् अपार्वण+++(ं??)+++ व्याख्यातं सन्निपातीतिकर्तव्यताकं देवयज्ञं कुर्वीत ।

देवयज्ञः

देवयज्ञेन यक्ष्य इत्यागूर्य,
“विद्युदसि ।”
औपासने पचने वा कल्पिताद् अन्नात्,
तद्-अभावे हविष्यम् अन्नं व्रीहियवादि, आकाष्ठात्,
“देवेभ्यस् स्वाहे"ति हस्तेन जुहुयात् ;
“सन्निपाती"ति कर्तव्यतयोर् औपासन-होम–वैश्वदेवयोर् हस्तेन होमस्य दृष्टत्वात् ।
मन्त्रवच् चोभयतः परिषेचनम्, तयोर् दृष्टत्वाद् एव ।
“वृष्टिरसि ।”
“वषट्कार-होमेषु विद्युद्-वृष्टी” इत्युपदेशः ।

पितृयज्ञः

अथ प्राचीनावीती पितृयज्ञेन यक्ष्ये इत्युक्त्वा - विद्युद् असि ।
शुचौ भूमौ
कल्पिताद् ओदनात्
हस्तेन अङ्गुष्ठ-प्रदेशिन्याव् अन्तरेण “पितृभ्यः स्वधास्तु”, इति दद्याद् आहुति-मात्रम् ।
वृष्टिरसि ।
पित्र्यं बलिहरणविधिनेत्युपदेशः ।

भूत-यज्ञः

अथ बलिहरणस्य होमतुल्यत्वात् यज्ञोपवीती “भूतयज्ञेन यक्ष्य” इत्युक्त्वा,
विद्युत् ।
शुचौ भूमाव् एव हस्तेन “इदं भूतेभ्योऽस्तु” इति दद्यात् ।
वृष्टिः

  • बलिहरण-विधिनेत्य् उपदेशः ।
मनुष्य-यज्ञः

अथ दानस्य होमतुल्यत्वात् यज्ञोपवीती “मनुष्ययज्ञेन यक्ष्य” इत्युक्त्वा,
विद्युत ।
ब्राह्मणतर्पणं, सङ्कल्पितस्य वा दानम् ।
वृष्टिः -
दानमात्रम् इत्युपदेशः ।

ब्रह्मयज्ञः

ब्रह्मयज्ञं तु पूर्वमेव कुर्वीत अग्निहोत्रमौपासनं वा हुत्वा; “उदित आदित्ये” (तै. आ.२-११.) इति वचनात् । तस्य कर्मोच्यते– “ब्रह्मयज्ञेन यक्ष्यमाणः” (तै.आ.२-११.) इत्यादि ब्राह्मणोक्तदेशे यथाविध्याचमेत् । अस्मिंस्त्वाचमने विशेषः “दक्षिणत उपवीय” इत्यारभ्य “सकृदुपस्पृश्य” (तै.आ. २-११.) इत्येवमन्ते विगुणे कृते “यदि यजुष्ट” इति “भुवस्वाहा” इति होमः प्रायश्चित्तम् । “दक्षिणेन पाणिना सव्यं प्रोक्ष्य” इत्यारभ्य शेषे विगुणे कृते “यद्यविज्ञाता” इति प्रायश्चित्तम् ।

अथ क्रम उच्यते—
ब्रह्मयज्ञेन यक्ष्ये इत्युक्त्वा, विद्युत् ।
आचमनम् ।
आसनकल्पनादि सावित्रीजपान्तं कृत्वा वेदस्यादित आरभ्य यथाध्यायमध्ययनमध्यायः कृत्स्नस्य वेदस्यासमाप्तेः ; “श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य” (आप.ध.१-९-१.) इति वचनात् येन प्रकारेणाध्यायो येन च क्रमेणाधीयतेऽविना चाम्नानैः आदिप्रदिष्टानुषङ्गप्रख्यादिभिः, उत्सृजन् उत्सृज्योत्सृज्य, वाचा मनसा च यावत्तरसं यावच्छक्यमधीयीत । परिधानीयां कृत्वा, वृष्टिरसि ।

एवम् अहरहः कृतान्तादारभ्य यावत् समाप्तो वेदः सहैकाग्निविधिकाण्डेन ।
समस्तमधीत्य वैश्वदेव मन्त्रानधीत्य ततः प्रसुग्मन्तेति प्रश्नद्वयमधीयीत । एवं विनियोगदर्शनात्,
“ऐकाग्निको विधिः काण्डं वैश्वदेवमिति स्थितिः, ॥ इति वचनाच्च ।

यद्यनेकशाखाध्यायी ततोऽनेनैव विधिना द्वितीयं पुनरधीयीत ऋग्यजुस्साम्नां क्रमेण अध्ययने यद्यनध्यायस्स्यात्, तदैकां वर्चमेकं वा यजुरेकं वा साम कृतांतादेवारभ्याभिव्याहरेत् । यदा ब्राह्मणस्य क्रमेण तदा “भूर्भुवस्सुवस्सत्यं तपश्श्रद्धायां जुहोमी"त्यभिव्याहरेत् ।

एवं यावज्जीवं ब्रह्मयज्ञं कुर्वीत ।

रौद्रम्

मनुष्ययज्ञान्ते “सर्वान् वैश्वदेवभागिनः कुर्वीत, (आप.ध.२-९-५.) इत्यादिविधानेन सर्वेषु पत्न्यन्तेषु भुक्त्वत्सु, पाकपरिवेषणपात्रेभ्यो लेपान् सङ्कृष्योत्तरतः शुचौ देशे रुद्राय सम्प्रदानभूताय निनयेत्, “रुद्राय स्वाहा” इति । नित्यवच्च निनयनम्; प्रतिपत्तिकर्मत्वात् ।

“एवं वास्तु शिवं भवति” (आप.ध.२-४-२३.) इत्यर्थवादः । “द्रव्यसंस्कारकर्मसु परार्थत्वात्” (पू. मी.४-३-१.) इति न्यायात् । फलं वा, सूत्रकारेणोपदिष्टत्वात् “य एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च” (आप. ध.२-४-९.)इति ।

एवम् ऋते महायज्ञेभ्यः
सायं रौद्रान्तं कृत्वा
वैहायसम् आकाशे भूतबलिं कुर्वीत ॥

अन्य आहुः–
“नक्तमेवोत्तमेन” (आप.२-४-८.) इत्य्-एव-कारस्य व्यवहितान्वयाद्
वैहायसमेव सायम् इति ॥


  1. See Āpastamba Dharma-sūtra II, 2, 3, 1 (S.B.E., vol. ii, p. 103). ↩︎