०३ गर्भाधानम्

अथ गर्भाधानम्

अथ गर्भाधानं स्त्रीणां रजोनिर्गमनादि षोडशसु रात्रीषु आदौ चतस्रो रात्रीः परिहाप्य अन्यासु द्वादशसु अनिषिद्धायां रात्रावृतुसमावेशनं करिष्य इति सङ्कल्प्य ‘विष्णुर्योनिं कल्पयतु’ इत्यादि ‘तं मे वायो समर्धय’ इत्यन्तेन पत्नीमभिमन्त्र्य तया सह संविशेत् । (परेद्युः प्रातरभ्युदयं पुण्याहं च कुर्यात्) ॥