विवाहः

कन्यादाने निषेधाः

15 सगोत्राय दुहितरन् न ...{Loading}...

सगोत्राय दुहितरं न प्रयच्छेत् १५

16 मातुश्च योनिसम्बन्धेभ्यः ...{Loading}...

मातुश्च योनिसंबन्धेभ्यः १६

विवाहप्रकाराः

17 ब्राह्मे विवाहे बन्धुशीलश्रुतारोग्याणि ...{Loading}...

ब्राह्मे विवाहे बन्धुशीलश्रुतारोग्याणि बुद्ध्वा प्रजासहत्वकर्मभ्यः प्रतिपादयेच्छक्तिविषयेणालंकृत्य १७

18 आर्षे दुहितृमते मिथुनौ ...{Loading}...

आर्षे दुहितृमते मिथुनौ गावौ देयौ १८

19 दैवे यज्ञतन्त्र ऋत्विजे ...{Loading}...

दैवे यज्ञतन्त्र ऋत्विजे प्रतिपादयेत् १९

20 मिथः कामात्सांवर्तेते स ...{Loading}...

मिथः कामात्सांवर्तेते स गान्धर्वः २०

01 शक्तिविषयेण द्र व्याणि ...{Loading}...

शक्ति-विषयेण द्रव्याणि दत्वा वहेरन् - स आसुरः १

02 दुहितृमतः प्रोथयित्वा वहेरन्स ...{Loading}...

दुहितृमतः प्रोथयित्वा वहेरन् - स राक्षसः २

03 तेषान् त्रय आद्याः ...{Loading}...

तेषां त्रय आद्याः प्रशस्ताः, पूर्वः पूर्वः श्रेयान् ३

04 यथा युक्तो विवाहस्तथा ...{Loading}...

यथा युक्तो विवाहस् - तथा युक्ता प्रजा भवति ४

विवाह-विधिः

12 विवाहे दुहितृमते दानङ् ...{Loading}...

विवाहे दुहितृमते दानं काम्यं धर्मार्थं श्रूयते तस्माद्दुहितृमतेऽधिरथं शतं देयं तन्मिथुया कुर्यादिति ११-१

तस्यां क्रयशब्दः संस्तुतिमात्रम् । धर्माद्धि संबन्धः ११-२