०६ पुण्याह-वाचनम्

परिचयः

पुण्याहं द्विविधं -
शुद्धि-पुण्याहं,
कर्माङ्ग-पुण्याहम् इति ।

शुद्धि-पुण्याहे तावत्
जपादिकं कृत्वा
पुण्याह-जलेन यजमानादीन्, मण्टपादिकं, वस्तूनि च प्रोक्षेत् ।

अङ्ग-पुण्याहे तु
“ब्राह्मणान् स्वस्त्य्-ऋद्धी वाचयित्वा”
इत्य् एवोक्तत्वात्
प्रोक्षणादिकं नावश्यकम् ।

अत्र केचित् अभ्युदयानुष्ठाने यजमान-करस्य करयोर् वा मात्रं प्रोक्षणं कुर्वन्ति ।
सोऽयम् असम्बद्ध प्रलाप एव ॥+++(5)+++

विश्वास-टिप्पनी

किञ्च, बोधायनशेष-सूत्रेषु प्रोक्षणम् उक्तम् एव।

तमिऴ्

ஹிரண்யத்தை ஸமர்ப்பித்து விட்டு, ததங்கம் புண்யாஹ வாசனம் கரிஷ்யே விசேஷமாக அப்யுதய கர்மண: புண்யாஹம் அப்யுதய கர்மணே ஸ்வஸ்தி அப்யுதய கர்மண: ருத்திம்பவந்த: 35606] 3 தடவை 3606/] என்பதாகப் பிரார்த்திக்க வேண்டும். ஸ்வாமிந: மநஸ்ஸமாதீயதாம் என்பது ஆரம்பித்து ஓம் சாந்தி: சாந்தி: சாந்தி: என்பது வரை வழக்கம் போல் உண்டு. [[TODO::परिष्कार्यम्??]]

वाचनम्

तद्-अङ्गं पुण्याहवाचनं करिष्ये ॥ (पुण्याहं वाचयिष्ये)

ब्राह्मणान् स्वस्ति-+ऋद्धी वाचयित्वा

इत्य् उक्तत्वात्
अङ्ग-भूत-पुण्याहेषु
वरुणावाहन-मन्त्र-जपादिकं विना
कुम्भम् उपस्पृश्य प्रार्थयेयुः ॥

  • स्वामिनः मनस् समाधीयताम्
    • “समाहित मनसस्स्मः" इति प्रतिवचनं
  • प्रसीदन्तु भवन्तः
    • “प्रसन्नास्स्मः" इति प्रतिवचनं
  • भवद्भिर् अनुज्ञातः पुण्याहं वाचयिष्ये
    • (ओंवाच्यताम् इतिप्रतिवचनम्)
  • (अभ्युदयकर्मणः) पुण्याहं भवन्तो ब्रुवन्तु - एवं त्रिः
    • (पुण्याहमस्तु प्रतिवचनम्)
  • अभ्युदय-कर्मणे स्वस्ति भवन्तो ब्रुवन्तु - त्रिः
    • (कर्मणे स्वस्ति इति प्रतिवचनम्)
  • अभ्युदय-कर्मणः ऋद्धिं भवन्तो ब्रुवन्तु - त्रिः
    • ऋध्यताम् इति प्रतिवचनम्

[[27]]

  • ऋद्धिस् समृद्धिः पुण्याह-समृद्धिर् अस्तु।
    शिवं कर्मास्तु।
    प्रजापतिः प्रीयताम्।
    • (“प्रीयतां भगवान् प्रजापतिः” इति प्रतिवचनम्)

आशीर्वचनम्

  • ओं शान्तिर् अस्तु,
  • पुष्टिर् अस्तु, तुष्टिर् अस्तु,
  • ऋद्धिर् अस्तु, अविघ्नम् अस्तु,
  • आयुष्यम् अस्तु, आरोग्यम् अस्तु,
  • धन-धान्य-समृद्धिर् अस्तु,
  • गो-ब्राह्मणेभ्यः शुभं भवतु
  • (बहिर् देशे) अरिष्ट-निरसनम् अस्तु,
  • यत् पापं तत् प्रतिहतम् अस्तु,
  • सर्व-शोभनम् अस्तु
  • सर्वास् सम्पदस् सन्तु ।
  • ओं शान्तिः शान्तिः शान्तिः॥