पापम्

कामस्यापायः

11 यत्र तु प्रीत्युपलब्धितः ...{Loading}...

यत्र तु प्रीत्युपलब्धितः प्रवृत्तिर्न तत्र शास्त्रमस्ति ११

12 तदनुवर्तमानो नरकाय राध्यति ...{Loading}...

तदनुवर्तमानो नरकाय राध्यति १२

04 हृष्टो दर्पति दृप्तो ...{Loading}...

हृष्टो दर्पति दृप्तो धर्ममतिक्रामति धर्मातिक्रमे खलु पुनर्नरकः ४

अशुचिकराणि

12 अथाशुचिकराणि ...{Loading}...

अथाशुचिकराणि १२

13 शूद्रगमनमार्यस्त्रीणाम् ...{Loading}...

शूद्र-गमनम् आर्य-स्त्रीणाम् १३

14 प्रतिषिद्धानाम् मांसभक्षणम् ...{Loading}...

प्रतिषिद्धानां मांस-भक्षणम् १४

15 शुनो मनुष्यस्य च ...{Loading}...

+++(यथा -)+++ शुनो मनुष्यस्य च
कुक्कुट-सूकराणां ग्राम्याणां, क्रव्यादसाम् १५

16 मनुष्याणाम् मूत्रपुरीषप्राशनम् ...{Loading}...

मनुष्याणां मूत्र-पुरीष-प्राशनम् १६

17 शूद्रोच्छिष्टमपपात्रागमनञ् चार्याणाम् ...{Loading}...

शूद्रोच्छिष्टम्,
+++(प्रतिलोमाद्य्-)+++अपपात्रा-गमनं चार्याणाम् १७

18 एतान्यपि पतनीयानीत्येके ...{Loading}...

एतान्यपि पतनीयानीत्य् एके १८

19 अतोऽन्यानि दोषवन्त्यशुचिकराणि भवन्ति ...{Loading}...

अतोऽन्यानि दोषवन्त्य् अशुचिकराणि भवन्ति १९

दोषाः

03 दोषाणान् तु विनिर्घातो ...{Loading}...

दोषाणां तु विनिर्घातो योगमूल इह जीविते । निर्हृत्य भूतदाहीयान् क्षेमं गच्छति पण्डितः ३

05 अथ भूतदाहीयान्दोषानुदाहरिष्यामः ...{Loading}...

अथ भूतदाहीयान्दोषानुदाहरिष्यामः ४

05 क्रोधो हर्षो ...{Loading}...

क्रोधो हर्षो रोषो लोभो मोहो दम्भो द्रोहो मृषोद्यमत्याशपरीवादावसूया काममन्यू अनात्म्यमयोगस्तेषां योगमूलो निर्घातः ॥ १३ ॥ ५ ॥

06 अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः सत्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग ...{Loading}...

अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः सत्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग आर्जवं मार्दवं शमो दमः सर्वभूतैरविरोधो योग आर्यमानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्यनुतिष्ठन्विधिना सार्वगामी भवति ६

19 दोषफलसंशये न तत्कर्तव्यम् ...{Loading}...

दोषफलसंशये न तत्कर्तव्यम् १९

20 एवमध्यायानध्याये ...{Loading}...

एवमध्यायानध्याये २०

23 क्रोधादींश्च भूतदाहीयान्दोषान्वर्जयेत् ...{Loading}...

क्रोधादींश् च भूत-दाहीयान् दोषान् वर्जयेत् २३

03 अहविष्यमनृतङ् क्रोधं येन ...{Loading}...

अहविष्यम्, अनृतं, क्रोधं,
येन च क्रोधयेत् ।
स्मृतिम् इच्छन् यशो मेधां स्वर्गं पुष्टिं द्वादशैतानि +++(प्राक्तनसूत्रोक्त-सहितानि)+++ वर्जयेत् ३

ससङ्कल्पता

02 यः प्रमत्तो ...{Loading}...

यः प्रमत्तो हन्ति, प्राप्तं दोषफलम् २

03 सह सङ्कल्पेन भूयः ...{Loading}...

सह संकल्पेन भूयः ३

04 एवमन्येष्वपि दोषवत्सु कर्मसु ...{Loading}...

एवमन्येष्वपि दोषवत्सु कर्मसु ४

05 तथा पुण्यक्रियासु ...{Loading}...

तथा पुण्यक्रियासु ५

01 प्रयोजयिता मन्ता कर्तेति ...{Loading}...

प्रयोजयिता मन्ता कर्तेति स्वर्गनरकफलेषु कर्मसु भागिनः १

02 यो भूय आरभते ...{Loading}...

यो भूय आरभते तस्मिन्फलविशेषः २

पतनीयानि

07 अथ पतनीयानि ...{Loading}...

अथ पतनीयानि+++(←द्विजातिकर्मभ्यो हानिः पतनम्)+++ ७

08 स्तेयम्, आभिशस्त्यं , ...{Loading}...

स्तेयम्, आभिशस्त्यं +++(←ब्रह्महत्यादिभिर् वक्ष्यमाणैः)+++,
पुरुष-वधो, ब्रह्मोज्झं+++(=वेद-त्यागः)+++,
गर्भ-शातनम्,
मातुः पितुर् इति योनि-संबन्धे सहापत्ये स्त्री-गमनं,
सुरा-पानम्, असंयोग-संयोगः ८

09 गुर्वीसखिङ् गुरुसखिञ् च ...{Loading}...

गुर्वी-सखिं गुरु-सखिं च गत्वा
ऽन्यांश् च पर-तल्पान् ९

10 नागुरुतल्पे पततीत्येके ...{Loading}...

नागुरुतल्पे पततीत्येके १०

11 अधर्माणान् तु सततम् ...{Loading}...

अधर्माणां तु सततम् आचारः ११

15 अभीचारानुव्याहारावशुचिकरावपतनीयौ ...{Loading}...

अभीचारानुव्याहारावशुचिकरावपतनीयौ १५

16 पतनीयाविति हारीतः ...{Loading}...

पतनीयाविति हारीतः १६

फलम्

03 ततः परिवृत्तौ कर्मफलशेषेण ...{Loading}...

ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते । तच्चक्रवदुभयोर्लोकयोः सुख एव वर्तते ३

04 यथौषधिवनस्पतीनाम् बीजस्य क्षेत्रकर्मविशेषे ...{Loading}...

यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेषे फलपरिवृद्धिरेवम् ४

05 एतेन दोषफलपरिवृद्धिरुक्ता ...{Loading}...

एतेन दोषफलपरिवृद्धिरुक्ता ५

06 स्तेनोऽभिशस्तो ब्राह्मणो राजन्यो ...{Loading}...

स्तेनोऽभिशस्तो ब्राह्मणो राजन्यो वैश्यो वा परस्मिंल् लोके परिमिते निरये वृत्ते जायते चाण्डालो ब्राह्मणः पौल्कसो राजन्यो वैणो वैश्यः ६

07 एतेनान्ये दोषफलैः कर्मभिः ...{Loading}...

एतेनान्ये दोषफलैः कर्मभिः परिध्वंसा दोषफलासु योनिषु जायन्ते वर्णपरिध्वंसायाम् ७

10 धर्मचर्यया जघन्यो वर्णः ...{Loading}...

धर्मचर्यया जघन्यो वर्णः पूर्वं पूर्वं वर्णमापद्यते जातिपरिवृत्तौ १०

11 अधर्मचर्यया पूर्वो वर्णो ...{Loading}...

अधर्मचर्यया पूर्वो वर्णो जघन्यं जघन्यं वर्णमापद्यते जातिपरिवृत्तौ ११

01 सह देवमनुष्या अस्मिंल् ...{Loading}...

सह देवमनुष्या अस्मिंल् लोके पुरा बभूवुः ।
अथ देवाः कर्मभिर् दिवं जग्मुर्,
अहीयन्त मनुष्याः ।
तेषां ये तथा कर्माण्य् आरभन्ते
सह देवैर् ब्रह्मणा चामुष्मिंल् लोके भवन्ति ।
अथैतन् मनुः श्राद्ध-शब्दं कर्म प्रोवाच १