०४ श्राद्ध-नियमाः

स्थानम्

… परिश्रिते दक्षिणा-प्रवणे गोमयोपलिप्ते
गुहद्वार+++(तः??)+++ उत्तर-पूर्व-देशे होम-स्थानं
तद्-दक्षिणतः पिण्ड-दान-स्थानं
तद्-दक्षिणतः पित्रादि-भुक्ति-स्थानं,
तत्पश्चात् देवानां भुक्तिस्थानं च कल्पयेत् ।

प्राङ्-मुखान् उदग्-अपवर्गान् विश्वान् देवान्
प्राग्-अपवर्गान्, प्राङ्-मुखान् दक्षिणापवर्गान् वा पितॄन्
पश्चिमाभि-मुखं निमित्तं +++(प्रेतं)+++ तद्वद् विष्णुं च निवेशयेत् ।

भोक्तारः

वर्जनीयाः

चिकित्सक–वेश्य-वृत्ति-त्रयाणां+++(=??)+++
बधिर-हीनाधिकाङ्ग-रोगि-कुनखि–कुष्ठि–श्याव-दन्त–
भृतकाध्यायि–भृतकाध्यापक–क्लीब-पतित-
कन्या-दूषकाभिशस्त–मित्र-ध्रुक्+++(←द्रुह्)+++–
पिशुन–सोम-विक्रयि–पर-निन्दक–
माता-पितृ-गुरु-त्यागि–
स्तेन-श्वशुर-स्याल-मातुल-सपिण्डोपाध्यायाचार्य-शिष्याः
श्रोत्रिय-शवानुगामिनः, पूर्वेद्युः श्राद्ध-भुजं, श्राद्ध-कृतं च +अद्य श्वो वा श्राद्धं करिष्यमाणं च
श्राद्धे न निमन्त्रयेत् ।
अन्येषां गुणाभावे गुणवन्तं सपिण्डमपि भोजयेत् ।
गुणाधिक्येऽपि विधुरं गर्भवन्तं च वर्जयेत् ।

अश्रोत्रिय-पितृकात् श्रोत्रियात्
श्रोत्रिय-पितृको ऽश्रोत्रियो ऽपि श्रेष्ठः ।+++(5)+++

[[53]]

पितापुत्रौ भ्रातरौ च वर्जयेत् ।

यः सर्वत्र अर्थं प्रतिगृह्य,
सञ्चयनं करोति स स्तेनः ।
शक्तौ सत्यां य उद्वाहं सन्न्यासं वा न करोति,
योऽधीतं वेदं त्यजति,
यो वर्णाश्रम-धर्म-हीनः
स्तेनाग्ने (??)
यो विष्णोरन्यं देवं समत्वेन परत्वेन वा मन्यते,
यो यस् स धर्म-त्यागी
ये जटा-भस्म-रुद्राक्ष-धराः
ते पाषण्डिनः

यो ब्रह्मचर्यात् प्रभृति रेतस् समुत्सृजति सो ऽवकीर्णी
यो भार्यायाः परपुरुषं सङ्गमयते स माहिषिकः
यो दश-वर्षाधिकाम् उद्वहते स वृषलीपतिः
यो ऽनापदि वृद्ध्या जीवति स वार्धुषिकः
यो विभवे सति न ददाति स आखुः
यो डम्भार्थं कर्म करोति, स मार्जारः
यो व्यवहारे पक्षपातं वदति स कुक्कुटः
यो वित्तार्थं वत्सर-त्रयं देव-पूजां करोति स देवलोकः !
एतान् सर्वान् श्राद्धे वर्जयेत् ।

निमन्त्र्याः

एतैः दोषैः हीनान् श्रोत्रियान् ब्रह्मविदः
आहिताग्नीन् शूद्रान्न-रहितान् निमन्त्रयेत् ।

मधु वाता इत्यृचं, त्रिर्मधु ब्रह्ममेतु माम्, इत्याद्यनुवाकत्रयं,
त्रिसुपर्णम् अयाचितम्, अयं वा व यः पवते, इत्यनुवाकत्रयं
त्रिनाचिकेतं, मेधादेवीत्याद्यनुवाक-चतुष्टयं, चतुर्मेधं,
“ब्रह्मणे ब्राह्मणम् आलभते” इति प्रश्नं,
नरमेधं,
साङ्ग्रहण्येष्ट्या यजते, प्रजापतिर् अश्वमेधम् असृजत इति प्रश्नद्वयम्
अश्वमेधं चित्तिस्स्रुक् इति प्रश्नं, ब्रह्ममेधं परेयुवाँस इति प्रश्नं,
पितृमेधं,
मूर्धानं दिवो अरतिम् इति
ज्येष्ठमासं वा प्रतिदिनं जपिष्यामि

[[54]]

इति सङ्कल्पपूर्वकं यः प्रतिदिनं जपति
तं निमन्त्रयेत् ।

तुल्यगुणेषु यो वयसा अधिकः,
यो वा दरिद्रः,
यो वा श्राद्धे भोक्तुम् ईप्सते,
तं निमन्त्रयेत् ।

निमन्त्रणानन्तरम् आगतं ब्राह्मणं
विशिष्टान् तान् अनुज्ञाप्य, तैस् सह भोजयेत् ।

… निमन्त्रितं ब्राह्मणं न त्यजेत् ।
स्वयं महालयं कृत्वा, अन्य-महालये न भुञ्जीत ।

भोक्तृनियमः

अथ भोक्तृनियमः॥

श्राद्धे निमन्त्रितः
अन्यत्र गमनं मन्त्रोच्चारणम् अध्ययनम् अध्यापनं दानं प्रतिग्रहं
शवानुगमनं भारवहनं मैथुनं च वर्जयेत् ।

आमश्राद्धं प्रतिगृह्य नान्यश्राद्धे भुञ्जीत ।

लवण-व्यञ्जनादिकं न किञ्चिद् याचेत ।
पृष्टेऽपेक्षितं याचेत ।
नादीयमानं निरुन्ध्यात् ।
अनतिसृष्टम् अन्नं न स्पृशेत् ।

निमन्त्रित “आब्रह्मन्” इत्यनुवाकं
विसृष्टो “वामदेवाय नम” इत्यनुवाकं जपेत् ।

सर्वं शेषं भुञ्जीत ।
यथा शिष्येत तथा दद्यात् ।

[[55]]

भोक्तृ-संख्या

… पितुः सापिण्ड्य-मासिकाब्दिकादिषु
तत्-तद्–विश्वे-देवार्थे द्वौ विप्रौ,
पित्रर्थे पञ्च, त्रीन् वा,
पितामहार्थे एवं प्रपितामहार्थे एवं विष्ण्व् अर्थम् एकम्
एवम् अष्टादश द्वादश वा ब्राह्मणान् वृणुयात् ।

अथवा “श्राद्धं न विस्तरेत् प्राज्ञ” इति वचनात् -
विश्वेदेवार्थे द्वौ
पित्राद्यर्थे एकैकं
विष्ण्वर्थम् एकम्
एवं षट् ब्राह्मणान् वृणुयात्।

द्रव्यस्य ब्राह्मणस्य वा अलाभे
विश्वेदेवार्थम् एकं
पितृ-पितामह-प्रपितामहार्थम् एकं
विष्ण्व्-अर्थम् एकम्
एवं त्रीन् ब्राह्मणान् वृणुयात्।

निमन्त्रणानन्तरं विशिष्टो ब्राह्मणः आगतश् चेत् -
तान् अनुज्ञाप्य तैस्सह भोजयेत्।

देववरणस्य ब्राह्मणस्यालाभे

विष्ण्व्-अर्थे विश्वे-देवार्थे
द्रव्यस्य ब्राह्मणस्य वा अलाभे
देवता-सन्निधौ पात्रं पात्र-द्वयं वा निधाय
तस्मिन् अन्न-व्यञ्जनादिकं निधाय
श्राद्धान्ते अग्नौ प्रक्षिपेत्
ब्रह्मचारिणे वा दद्यात्।


विष्ण्व्-अर्थे विश्वेदेवार्थे वा द्रव्यस्य ब्राह्मणस्य वा अलाभे
देवता-सन्निधौ दत्तम् अन्नादिकम् अग्नौ प्रक्षिपेत् ।
ब्रह्मचारिणे वा दद्यात् ।

द्रव्य-नियमाः


कन्याशुल्केन उत्क्रोशापताद् वा (?) लब्धेन द्रव्येण श्राद्धं न कुर्यात् ।

श्राद्धार्हद्रव्याणि

कदली-भेदकारवल्ली-त्रय-पनसोर्वारुक-पटोल-
रत्न-नाल–कूश्माण्ड–श्वेत-निष्पाव–
नालिकेराच्युत-धात्री-सिंही-व्याघ्री-मुद्ग-
श्यामाक-नीवार-प्रियङ्गु-गोधूम-
माष–क्षुद्र-कन्द–महाकुन्द–शकुट–काल-शाक–
महा-शाक–पिच्छालचूतिकाकारङ्ग-द्रोण-पुष्प–
चक्रवर्तिका–नारङ्ग–दीर्घ-मूलकाश्वकर्ण-
लिकुचार्द्रवज्रवल्लीक्षु-रस–गुड-शर्करा-हिङ्गु-गव्यानि
श्राद्धे ग्राह्याणि ।

वर्ज्यद्रव्याणि

कूश्माण्ड-बृहती-क्षुद्र-बृहती–मधूकालाबुकोशातकीशिग्रु-
तण्डुलीयक-कुसुम्भ–रक्त-शाक–कुम्भीतक-श्लेष्मातक-
बिम्बस-पिण्याकापेतकी-कुलुत्थान्धकी–राज-माष–चणक-राज–सर्षप-माहिषाविकानि
शूद्र-पतिताशौचि-स्पृष्टानि,
नीचैः दत्तानि, पुरातन-भाण्ड-पक्वानि,
तक्रोदधि-मथितानि च वर्जयेत् ।

श्राद्ध-द्रव्यं भूमावेव निक्षिपेत्; न +++(रज्जु-)+++शिक्यादौ ।

परिवेषणम्

… अन्न-व्यञ्जनादिकं दर्व्या हस्ताभ्यां दद्यात्,
तैलपक्वम् अपक्वं च न दर्व्या।
आयसेन कांस्येन वा पात्रेण न किञ्चिद् अपि दद्यात् ।
कदली-पत्र-पृष्ठं न पाटयेत् ।

कालः


भृगु-वासरे प्रथमा-षष्ठ्य्-एकादशी-त्रयोदशी-चतुर्दशीषु
रोहिणी-मघा-रेवतीषु त्रि-जन्मसु च
महालयं न कुर्यात् ।

ऊहः

विभक्तिः

… सङ्कल्पासनाक्षय्येषु षष्ठ्यन्तं,
अर्घ्यपाद्ययोः चतुर्थ्यन्तम्,
आवाहने द्वितीयान्तं
गोत्रं नाम च कीर्तयेत् ।

गन्धादिदाने चतुर्थ्यन्तम्,
इतरत्र सम्बुध्यन्तं युष्मच्-छब्दं ब्रूयात् ।

[[56]]

देवताः

… स-पिण्डी-करणे क्रतु-दक्षौ
अष्टकायां काल-काम्यौ
नान्दीश्राद्धे वसु-सत्यौ,
काम्य-श्राद्धे धुरि-रुची
पार्वणश्राद्धे पुरूरवो-माद्रवसौ
इति दश विश्वेदेवाः,
वसवः पितरो,
रुद्राः पितामहाः,
आदित्याः प्रपितामहाः ज्ञेयाः ।

श्राद्ध-भेदेषु लिङ्ग-व्यत्ययेन वचन-वाक्येन शब्दान्तर-निवेशेन वा तत्र मन्त्रान् ऊहेत् -
यत्रास्य गतं मनः, यत्रास्या गतं मन, यत्रैषां गतं मनः इत्यादि । ये पार्थिवासः पितरः, यन्मे पितुर् मातेत्य्-आदि-होम-मन्त्रेषु
“अमुष्मै” पद-स्थानेषु श्राद्धोद्देश्यानां त्रयाणाम् एकैकस्य च शर्मद्वयोः+++(=??)+++ मन्त्रयोः ब्रूयात्।

यज्ञ-शर्मणे स्वाहेत्य्-आदि-पिण्ड-प्रदान-मन्त्रेषु
पित्रादीनां मात्रादीनां च
क्रमेण शर्माणि नामानि च ब्रूयात् - यज्ञशर्मन् श्रीनाम्नीत्यादि ।

इति प्रयोगदर्पणे द्वादशः खण्डः

उपवीतम्


सङ्कल्पाद्य्-आसमाप्तेः प्राचीनावीतम्
अन्यत्र आचामन-प्राणायामाघार-समिदाघारहोमाज्य-भाग–
स्विष्ट-कृत्–प्रायश्चित्त-होम–
परिवेषणाभिश्रवण-प्रदक्षिण-नमस्कारानुव्रजन-विश्वे-देव-विष्णु-+उपचारेभ्यः।

नियमान्तराणि

… सर्वं विश्वेभ्यो देवेभ्यः
ऋजुभिः युग्मैः प्राग्-अग्रैः
उदग्-अग्रैर् वा दर्भैः
प्राङ्-मुख उदङ्-मुखो वा
देव-तीर्थेन प्रदक्षिणं कृत्वा,

पश्चात् पितृणां दक्षिणाग्रैः अयुग्मैः द्विगुणीकृतैः दर्भैः
पितृ-तीर्थेन अप्रदक्षिणं कृत्वा,

पश्चात् निमित्तस्य +++(प्रेतस्य)+++ पितृवत् कृत्वा
ततः पश्चात् विश्वेदेव-विष्ण्वोः कुर्यात् ।

[[52]]

पाद-प्रक्षालनं गन्ध-दानं च पवित्र-पाणिः न कुर्यात् ।


कर्ता भोक्ता च ऊर्ध्व-पुण्ड्राणि धारयेत् ।

पादुकोपानच्-छत्रायुध–रक्त-वस्त्र–मार्जार-कुष्ठि-बधिर–च्छिन्न-नासिकान् न पश्येत् ।
उदक्या+++(=रजस्वला)+++-सूतिकाऽऽशौचि-पतित–प्रेतान्न-भोक्तृ–
षण्ड-पाषण्ड-रोगि-नग्न-कृकलास-वानर–ग्राम-सूकर-शुनकान् न पश्येत् ।
तैः श्राद्ध-दर्शनं वर्जयेत् ।

तथा दन्त-धावन–ताम्बूल-क्षौराभ्यङ्गोपवासौषध-परान्न-क्रोध-हुङ्कार-त्वरां वर्जयेत् ।
पूर्वेद्युः परेद्युश् च रात्रि-भोजनं मैथुनं च वर्जयेत् ।

… निषिद्धेष्वप्य् अभ्यङ्गं कारयेत् ।

विशिष्ट-सन्दर्भाः

श्राद्धद्वय-संयोगे


एकम् उद्दिश्य क्रियमाणम् एकोद्दिष्टम् ।
त्रीन् उद्दिश्य क्रियमाणं पार्वणम् ।
तयोः एकस्मिन् दिने संयोगे
पूर्वं पार्वणं कृत्वा पश्चादेकोद्दिष्टं कुर्यात् ।

मातापित्रोः श्राद्ध-संयोगे पूर्वं पितृ-श्राद्धं कृत्वा,
पश्चान् मातृ-श्राद्धम्।

दर्शाब्दिकयोर् योगे,
पूर्वम् आब्दिकं कृत्वा
पश्चात् दार्शिकं कुर्यात् ।

[[78]]

सोदकुम्भ-मासिकयोः दर्श-सङ्क्रान्त्योः दर्शोपरागयोश् च योगे
सोदकुम्भ-दर्श-श्राद्धे कृत्वा,
मासिक-सङ्क्रान्त्य्-उपराग-श्राद्धानि कुर्यात् ।

दर्शादिक-मासिकयोः दार्शिक–सोद-कुम्भयोः दार्शिकाब्दिकयोः
आब्दिक-सङ्क्रान्त्योः आब्दिकोपरागयोः योगे
श्राद्ध-द्वयम् अपि कुर्यात् ।

अतोऽन्येषां योगे
देवता-भेदे निमित्त-भेदे वा
श्राद्ध-द्वयं कुर्यात् ।

पित्रतिरिक्त-श्राद्धे हवन-वरणे

… मातृश्राद्धे तु “आयात पितरः” इति पितॄन् आवाहयेत् ।
“यन्मे माता” इत्यादिभिः पित्रादिभ्यो जुहुयात् ।
मात्रादीन् वृणुयात्, “एष ते मातः” इत्यन्नाभिमर्शनं,
पित्रादीनां मात्रादीनां च पिण्डप्रदानं कुर्यात् ।

पितृव्यश्राद्धे, पितृ-पितामह-प्रपितामहार्थे वृणुयात् ।
पितुः पित्रॄन् आवाहयेत् ।
पितुः-पितादिभ्यो जुहुयात् ।

[[76]]

ज्येष्ठ-भ्रातृ-श्राद्धे ज्येष्ठ-भ्रातृ–पितामहार्थे वृणुयात् ।
भार्या-श्राद्धे भार्या-मातृ-पितामह्यर्थे वृणुयात् ।
उभयत्र पित्रादिभ्यो जुहुयात् ।

भर्तृ-श्राद्धे भर्तृ–तत्-पितृ-पितामहार्थे वृणुयात् ।
“यन्मे भर्तुर्माता” इति जुहुयात् ।

माता-मह-श्राद्धे माता-मह–मातुः-पितामह–मातुः-प्रपितामहार्थे वृणुयात् ।
“यन्मे मातुर् माता” इति जुहुयात् ।

यो यो जीवति तं तं विहाय वरणादिकं कुर्यात् ।
येभ्यो जुहोति, तेभ्य तत्पत्नीभ्यश्च पिण्ड-प्रदानं कुर्यात् ।

कर्तृ-भोक्तॄणाम् अघ-सम्भवे निरवकाश-श्राद्धे

… पाकारम्भात् परं
कर्तुर् वरणात् परं
भोक्तुश् च अघ-सम्भवेऽपि श्राद्धं कुर्यात् ।

अघः श्राद्धपदार्थं न स्पृशेत् ।
अघ-रहितेन परिवेषणं कारयेत् ।
भोजनानन्तरं गृहान्तरात् आहृतेन उदकेन आचामेत ।

पाकारम्भात् पूर्वम् अपि, तस्मिन् दिने मरणे च आसन्ने
निरवक-श्राद्धे च प्राप्ते
“मदीयम् इदं वस्तु पित्रर्थ” इति निर्दिश्य,
अघ-रहितस्य हस्ते दर्भं प्रदाय,
तेन सङ्कल्प-विधानेन उपवीतिना श्राद्धं कुर्यात् ।
स्वयं तत्र प्राचीनावीतम् उपवीतं च कुर्यात् ।+++(5)+++

अत्यन्ताशक्ताव् अपि एवं कारयेत् ।

निमन्त्रितानां वमने

एकोद्दिष्ट–स-पिण्डी-करणे च

निमित्तस्य षोडशैकौद्दिष्ट-श्राद्धेषु,
निमन्त्रित-निमित्तानां मध्ये एकस्य द्वयोः बहुनां वा
भोजन-वेलायां वा वमने जाते,
पात्रम् उद्धृत्य,
शुद्धिं कृत्वा,

[[78]]

पूर्वं स्थापिते अग्नौ प्रेतम् आवाह्य,
आसनादिभिः अभ्यर्च्य,
“प्राणाय स्वाहा”, इत्यादि पञ्चान्नाहुतीः,
“यमाय सोमम्” इति द्वात्रिंशद् अन्नाहुतीः,
तावतीः आज्याहुतीश्च हुत्वा,
ब्राह्मणानां दक्षिणा-ताम्बूलादि दत्वा,
उद्वास्य
तस्मिन् दिने उपोष्य,
परेद्युः एकोद्दिष्टं सपिण्ड्यं षोडशं वा पुनः कुर्यात् ।

सापिण्ड्यादि-पार्वण-श्राद्धे
पित्रर्थ-निमन्त्रितस्य वमने
तस्मिन् दिने उपोष्य, … ।

भ्रात्राद्य्-एकोद्दिष्ट-श्राद्धे ऽप्य् एवं।

पितामहस्य वमने तु
पात्रम् उद्धृत्य शुद्धिं कृत्वा,
पूर्वं स्थापिताग्नौ
“अमुक-गोत्रम् अमुक-शर्माणं पितामहम् आवाहयामि”, इत्यवाह्य,
“अमुक-गोत्रस्य अमुक-शर्मणः पितामहस्य इदम् आसनम्” इति आसनादिभिः अभ्यर्च्य,
“प्राणाय स्वाहा” इत्यादि पञ्चभिः अन्नाहुतीः हुत्वा,
“अमुक-गोत्राय अमुक-शर्मणे पितामहाय स्वाहा”
इति द्वात्रिंशत् अन्नाहुतीः जुहुयात् ।

प्रपितामहस्य वमने तु,
तम् आवाह्य, तस्मै जुहुयात् ।

पितृव्यादिश्राद्धेऽपि एवम् ऊह्यम् ।

पित्रादीनां त्रयाणाम् अपि एक एव निमन्त्रितश् चेत्,
तस्य वमने पुनः श्राद्धं कुर्यात् ।

पिण्डप्रदानात् पूर्वम् अग्निनाशे

पिण्डप्रदानात् पूर्वम् अग्निनाशे, तस्मिन् दिने उपोष्य, परेद्युः पुनः श्राद्धं कुर्यात् ।

[[79]]

उच्छिष्ट-संसर्ग–गात्र-स्पर्शौ

भुञ्जानानां मध्ये द्वयोः भोजन-पात्रयोः अन्नोदकादि-संसर्गेण दुष्टौ
उभौ भोजनात् विरमेताम् ।
कर्ता उपोष्य परेद्युः पुनः श्राद्धं कुर्यात् ।

अन्यतरोच्छिष्टाभावे तदुच्छिष्टं पात्रं निस्सृत्य,
गोमयेन उपलिप्य, अन्यत् पात्रं निधाय,
तस्मिन् अन्नादिकं परिविष्य,
तत् परिषेचयित्वा भोजयेत् ।

तस्य उच्छिष्टे, तं प्रक्षालयेत् ।

अन्योन्य-गात्र-स्पर्शे, पात्रस्थम् अन्नं भुक्त्वा षट्शतं गायत्रीजपं कुर्याताम् ।

भुक्ति-मध्ये दीपनाशे

भुक्तिमध्ये दीपनाशे
सूर्यं ध्यायन्तः,
पाणिभ्यां भोजनपात्रं गृह्णन्तः
पुनः दीपे प्रज्वलिते,
भोजन-पात्रस्थम् एव अन्नं भुञ्जीरन् ।

विभक्तेष्वपि भ्रातृषु
प्रथमाब्दिक-पर्यन्तं ज्येष्ठ-पुत्र एव कुर्यात् ।
तद्-ऊर्ध्वं सर्वेऽपि पृथक्-पृथक् कुर्युः ।

अविभक्ता अपि भिन्न-स्थान-गताश् चेत्
प्रत्याब्दिक-दर्शादिकं पृथक् पृथक् कुर्युः ।

फल-स्तुतिः

एवं नित्यं नैमित्तिकं च श्राद्धं यथाशक्ति कुर्यात् ।
तेन प्रोताः पितरः पशु-पुत्रादीन् भोगान् प्रयच्छन्ति ।
अकरणे “पशु-पुत्रादिभिः हीनो भवतु” इति शपन्ति ।
सर्वेऽपि निन्दन्ति ।
शरीरान्ते बहून् नरकान् अनुभूय
बहूनि जन्मानि चण्डालो भवति ।

[[80]]