०२ स्नातकस्य कर्तव्यम्

समावर्तनप्रभृत्याविवाहात् सायं प्रातः लौकिकाग्निं प्रतिष्ठाप्य परिस्तीर्य आज्यं दवीं च संस्कृत्य परिषिच्य व्यस्ताभिः व्याहृतिभिः ‘अनाज्ञातम्’ इत्यादिभिश्च हुत्वा अग्निमुपतिष्ठेत । संन्यासं कर्तुकामोऽपि चत्वारि व्रतानि समावर्तनं च कृत्वैव संन्यसेत् । नैष्ठिकस्तु सोत्सर्जनानि चत्वारि व्रतानि चरित्वा समावर्तनमपि कृत्वा काषायवासाः यावज्जीवं ब्रह्मचर्यं चरेत् । उपकुर्वाण उद्वहेत् संन्यसेद्वा ॥

॥ इति प्रयोगचन्द्रिकायां त्रयोदशः खण्डः ॥

[[25]]