४२ अनूयाज उपयड्ढोमौ

अग्नीदौपयजानङ्गारानाहरोपयष्टरुपसीद ब्रह्मन् प्रस्थास्यामस्समिधमाधाय इत्यादि संप्रेष्यति । आग्नीध्रः - आग्नीध्रीयादङ्गारानाहृत्य होत्रीये निदधाति । तस्य पश्चात् प्रतिप्रस्थातोपविशति । ब्रह्मा देवसवितरित्यादि । अध्वर्युः - इध्मसन्नहनप्रहरणान्ते पृषदाज्यं जुह्वामानीय पृषदाज्यधानीमुपभृतं कृत्वा तेनैकादशानूयाजान् यजति । देवेभ्यः प्रेष्य इति प्रथमं संप्रेष्यति । प्रेष्य प्रेष्य इतीतरान् । पञ्चमप्रभृतिषु दशमवर्जितेषु मैत्रावरुणेन सह यज इति ब्रूयात् । आद्यांश्चतुरो दशमं च पूर्वार्धे समिधि जुहोति । पञ्चमप्रभृति चतुरो मध्ये, नवमैकादशौ पश्चार्धे हुत्वेतरावनुसंभिनत्ति । प्रतिप्रस्थाता गुदकाण्डमेकादशधा तिर्यक्छित्वा असंभिन्दन्नपर्यावर्तयन्ननूयाजानां वषट्कृते वषट्कृत एकैकं गुदकाण्डं हस्तेन जुहोति समुद्रं गच्छ स्वाहेत्येतैः प्रतिमन्त्रं । समुद्रं गच्छ स्वाहा । अन्तरिक्षं गच्छ स्वाहा । देवꣳ सवितारं गच्छ स्वाहा । अहोरात्रे गच्छ स्वाहा । मित्रावरुणौ गच्छ स्वाहा । सोमं गच्छ स्वाहा । यज्ञं गच्छ स्वाहा । छन्दाꣳसि गच्छ स्वाहा । द्यावापृथिवी गच्छ स्वाहा । नभो दिव्यं गच्छ स्वाहा । अग्निं वैश्वानरं गच्छ स्वाहा । यजमानः - अग्नय इदम् । समुद्रायेदम् । बर्हिषोऽहं देवयज्यया प्रजावान् भूयासम् । अग्नय इदम् । अन्तरिक्षायेदम् । द्वारामहं देवयज्यया प्रजावान् भूयासम् । अग्नय इदम् । देवाय सवित्र इदम् । उषासानक्तयोरहं देवयज्यया प्रजावान् भूयासम् । अग्नय इदम् । अहोरात्राभ्यामिदम् । जोष्ट्र्योरहं देवयज्यया प्रजावान् भूयासम् । अग्नय इदम् । मित्रावरुणाभ्यामिदम् । ऊर्जाहुत्योरहं देवयज्यया पशुमान् भूयासम् । अग्नय इदम् । सोमायेदम् । दैव्ययोर्होत्रोरहं देवयज्यया पशुमान् भूयासम् । अग्नय इदम् । यज्ञायेदम् । तिसृणां तिसृणां देवीनामहं देवयज्यया पशुमान् भूयासम् । अग्नय इदम् । छन्दोभ्य इदम् । नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम् । अग्नय इदम् । द्यावापृथिवीभ्यामिदम् । वनस्पतेरहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । अग्नय इदम् । नभसे दिव्यायेदम् । बर्हिषो वारितीनामहं देवयज्यया प्रजावान् भूयासम् । अग्नय इदम् । अग्नये वैश्वानरायेदम् । अग्नेस्स्विष्टकृतोऽहं देवयज्ययाऽऽयुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । प्रतिप्रस्थाता अद्भ्यस्त्वौषधीभ्यः बर्हिषि लेपं निमृज्य । मनो मे हार्दि यच्छ तनूं त्वचं पुत्रं नप्तारमशीय जपति ।

सूक्तवाकशंयुवाकौ:-

अध्वर्युः :- प्रत्याक्रम्य न स्वरुं जुहोति । न हृदयशूलमुद्वासयति । आयतने स्रुचौ सादयित्वा । वाजवतीभ्यामित्यादि । जूहूद्वयमुपभृद्द्वयं च करोति । जुह्वैव परिध्यञ्जनम् । प्रस्तरं द्वयोर्द्वयोरनक्ति । जुह्वामेव प्रतिष्ठाप्याश्राव्य प्रत्याश्राविते अग्निमद्य होतारमिति सूक्तवाकप्रैषं मैत्रावरुणो ब्रूयात् । अग्नेरहम् । सोमस्याहम् । अग्नीषोमयोरहम् । वनस्पतेरहम् । अग्नेस्स्विष्टकृतोऽहम् इत्यादि । जुहूद्वयेनोपभृद्द्वयेन च संस्रावहोमः ।