०२ यज्ञतनूनां होमः

प्रजापतिर्मनसान्धोच्छेत इति त्रयस्त्रिंशतमाग्नीध्रे यज्ञतनूर्जुहोति । प्रथमेन मन्त्रेण हुत्वा पूर्वं पूर्वमनुद्रुत्योत्तरेणोत्तरेण सकृद्गृहीतं जुहोति । प्रजापतिर्मनसान्धोच्छेतस्स्वाहा । प्रजापतये सोमायेदम् । प्रजापतिर्मनसान्धोच्छेतो धाता दीक्षायाꣳ स्वाहा । धात्रे सोमायेदम् । धाता दीक्षायाꣳ सविता भृत्याꣳ स्वाहा । सवित्रे सोमायेदम् । सविता भृत्यां पूषा सोमक्रयण्याꣳ स्वाहा । पूष्णे सोमायेदम् । पूषा सोमक्रयण्यां वरुण उपनद्धस्स्वाहा । वरुणाय सोमायेदम् । वरुण उपनद्धोऽसुरः क्रीयमाणस्स्वाहा । असुराय सोमायेदम् । असुरः क्रीयमाणो मित्रः क्रीतस्स्वाहा । मित्राय सोमायेदम् । मित्रः क्रीतः शिपिविष्ट आसादितस्स्वाहा । शिपिविष्टाय सोमायेदम् । शिपिविष्ट आसादितो नरन्धिषः प्रोह्यमाणस्स्वाहा । नरन्धिषाय सोमायेदम् । नरन्धिषः प्रोह्यमाणोऽ-धिपतिरागतस्स्वाहा । अधिपतये सोमायेदम् । अधिपतिरागतः प्रजापतिः प्रणीयमानस्स्वाहा । प्रजापतये सोमायेदम् । प्रजापतिः प्रणीयमानोऽग्निराग्नीध्रे स्वाहा । अग्नये सोमायेदम् । अग्निराग्नीध्रे बृहस्पतिराग्नीध्रात्प्रणीयमानस्स्वाहा । बृहस्पतये सोमायेदम् । बृहस्पतिराग्नीध्रात्प्रणीयमान इन्द्रो हविर्धाने स्वाहा । इन्द्राय सोमायेदम् । इन्द्रो हविर्धानेऽदितिरासादितस्स्वाहा । अदित्यै सोमायेदम् । अदितिरासादितो विष्णुरुपावह्रियमाणस्स्वाहा । विष्णवे सोमायेदम् । विष्णुरुपावह्रियमाणोऽ-थर्वोपोत्तस्स्वाहा । अथर्वणे सोमायेदम् । अथर्वोपोत्तो यमोऽभिषुतस्स्वाहा । यमाय सोमायेदम् । यमोऽभिषुतोऽपूतपा आधूयमानस्स्वाहा । अपूतपे सोमायेदम् । अपूतपा आधूयमानो वायुः पूयमानस्स्वाहा । वायवे सोमायेदम् । वायुः पूयमानो मित्रः, क्षीरश्रीस्स्वाहा । मित्राय सोमायेदम् । मित्रः, क्षीरश्रीर्मन्थी सक्तुश्रीस्स्वाहा । मन्थिने सोमायेदम् । मन्थी सक्तुश्रीर्वैश्वदेव उन्नीतस्स्वाहा । वैश्वदेवाय सोमायेदम् । वैश्वदेव उन्नीतो रुद्र आहुतस्स्वाहा । रुद्राय सोमायेदम् । अप उपस्पृश्य । रुद्र आहुतो वायुरावृत्तस्स्वाहा । वायवे सोमायेदम् । वायुरावृत्तो नृचक्षाः प्रतिख्यातस्स्वाहा । नृचक्षसे सोमायेदम् । नृचक्षाः प्रतिख्यातो भक्ष आगतस्स्वाहा । भक्षाय सोमायेदम् । भक्ष आगतः पितृणां नाराशꣳसस्स्वाहा । पितृभ्यः सोमायेदम् १। अप उपस्पृश्य । पितृणां नाराशꣳसोऽसुरात्तस्स्वाहा । असवे सोमायेदम् । असुरात्तस्सिन्धुरवभृथमवप्रयन्थ्स्वाहा । सिन्धवे सोमायेदम् । सिन्धुरवभृथमव प्रयन्थ्समुद्रोऽवगतस्स्वाहा । समुद्राय सोमायेदम् । समुद्रोऽवगतस्सलिलः प्रप्लुतस्स्वाहा । सलिलाय सोमायेदम् । सलिलः प्रप्लुतस्सुवरुदृचं गतस्स्वाहा । स्वस्सोमायेदम् ।