अग्नौ चर्या

हविर्-विवेकः

14 न क्षारलवणहोमो विद्यते ...{Loading}...

न क्षारलवणहोमो विद्यते १४

15 तथावरान्न संसृष्टस्य च ...{Loading}...

तथावरान्न संसृष्टस्य च १५

16 अहविष्यस्य होम उदीचीनमुष्णम् ...{Loading}...

अहविष्यस्य होम उदीचीनमुष्णं भस्मापोह्य तस्मिञ्जुह्यात्तद्धुतमहुतं चाग्नौ भवति १६

समिधि पोषणे

12 नाप्रोक्षितमिन्धनमग्नावादध्यात् ...{Loading}...

नाप्रोक्षितमिन्धनमग्नावादध्यात् १२

20 न चैनमुपधमेत् ...{Loading}...

न चैनमुपधमेत् २०

अग्नेर् हरणम्

09 अग्निमपश्च न युगपद्धारयीत ...{Loading}...

अग्निमपश्च न युगपद्धारयीत ९

स्थापनम्

21 खट्वायाञ् च नोपदध्यात् ...{Loading}...

खट्वायां च नोपदध्यात् २१

10 नानाग्नीनाञ् च सन्निवापं ...{Loading}...

नानाग्नीनां च संनिवापं वर्जयेत् १०

स्थालीपाकतन्त्र उल्लेखनम्

12 नित्यं लोक उपदिशन्ति ...{Loading}...

नित्यं लोक उपदिशन्ति १२

13 यत्र क्व चाग्निमुपसमाधास्यन्स्यात्तत्र ...{Loading}...

यत्र क्व चाग्निमुपसमाधास्यन्स्यात्तत्र प्राचीरुदीचीश्च तिस्रस्तिस्रो लेखा लिखित्वाद्भिरवोक्ष्याग्निमुपसमिन्ध्यात् १३

14 उत्सिच्यैतदुदकमुत्तरेण पूर्वेण वान्यदुपदध्यात् ...{Loading}...

+++(शिष्टम् उदकम्)+++ उत्सिच्यैतदुदकमुत्तरेण पूर्वेण वान्यदुपदध्यात् १४

पात्र-विवेकः

18 अग्निन् नाप्रयत आसीदेत् ...{Loading}...

अग्निं नाप्रयत आसीदेत् १८

19 इषुमात्रादित्येके ...{Loading}...

इषुमात्रादित्येके १९

17 न स्त्री जुहुयात् ...{Loading}...

न स्त्री जुहुयात् १७

18 नानुपेतः ...{Loading}...

नानुपेतः १८

गौरव-दर्शनम्

12 प्रतिमुखमग्निमाह्रियमाणम् नाप्रतिष्ठितम् भूमौ ...{Loading}...

प्रतिमुखमग्निमाह्रियमाणम् नाप्रतिष्ठितं भूमौ प्रदक्षिणीकुर्यात् +++(प्रतिष्ठिते तु प्रदक्षिणीकुर्यात्)+++११

06 अग्निम् ब्राह्मणञ् चान्तरेण ...{Loading}...

अग्निं ब्राह्मणं चान्तरेण नातिक्रामेत् ६

07 ब्राह्मणांश्च ...{Loading}...

ब्राह्मणांश्च ७

08 अनुज्ञाप्य वातिक्रामेत् ...{Loading}...

अनुज्ञाप्य वातिक्रामेत् ८