०६ पञ्चापगेशः

॥ श्रीः ॥

Vedantha Meemamsa, Siromani, Pravachana Praveena, Balasaraswarthi, Purana Ratna, Bhagavatha Sudhavarshi, Veda Vidyacharya, Pravachana Chakravarthi, Vishista, Grahayagna, BHASHYAMANI, DHARMAGNA

Sri. S. Panchapagesa Sastrigal

7, Sakojl Pandit Street Melacauvery, Kumbakonam - 612002

महद् इदं प्रमोदस्थानं यत्
श्रीमद्-आपस्तम्बीयः पूर्वापरप्रयोगः
वीर-वल्लि–घन-पाठि-भाष्य-मणि-श्रीनिवासदेशिकाचार्यैः विरच्य
ग्रन्थरूपेण प्रकाशतां नीयते इति ।

श्री-श्री-निवास-देशिकाचार्याः
स-लक्षण-घनपाठिनः भाष्य-मणि-बिरुदाङ्किताः
शास्त्रेषु कृत-भूरि-परिश्रमाः
सद्-आचार-सम्पन्नाः परमैकान्तिनश् च ।
अस्मिन् ग्रन्थे सस्वरः पद-विभागः द्राविडी-वृत्तिश् च सङ्कलितः
इति हेम्नः परमामोदः ।+++(4)+++
तत्र तत्र संशयानाम् अपनोदाय
आपस्तम्ब-सूत्राणि कपर्दि-कारिकाश् च संयोजिताः ।
एतद्-ग्रन्थ-साहाय्येन अन्य-सूत्रेऽपि
विना श्रमं कर्म कर्तुं कारयितुं च
समर्थो भवति ।
यद्य् अपि +इतः पूर्वं
आपस्तम्बीयः पूर्वापर-प्रयोगः बहुभिः मुद्रितः,
तथापि एतादृशः ग्रन्थो
न केनापि विलिखितः
इत्यत्र न विशय-लेशः विद्यते ।+++(4)+++
एतादृश अपूर्व-ग्रन्थ-लेखनेन
श्रीनिवास-देशिकाचार्याणां
सर्वः वैदिकलोकः अधम-र्ण एव
इत्यत्र न कापि संशीतिः ।
एतद्-ग्रन्थ-साहाय्येन
कर्म सम्यग् अनुष्ठाय
सर्वे आस्तिक-तल्लजाः
प्रेयः–श्रेयः–परं-पराम् आप्नुयुः
इति भगवन्तं प्रार्थये ।
श्रीनिवासदेशिकाचार्याः शतं समाः
एवं आस्तिकलोकस्य उपकारं कुर्वन्तः
चिरञ्जीविताम् अश्नुवताम्
इत्य् अपि भगवन्तं राज-गोपालं प्रार्थयामः ।

इति शम् ।

[[xxiii]]