०९ सम्भारयजुषः हवनम्

अध्वर्युः - आहवनीयं विहृत्य सम्भारयजूंषि जुहोति । लौकिकाज्येन जुह्वां सकृत्सकृद्गृहीत्वा अग्निर्यजुर्भिस्स्वाहा । अग्नये यजुर्भ्य इदम् । सविता स्तोमैस्स्वाहा । सवित्रे स्तोमेभ्य इदम् । इन्द्र उक्थामदैस्स्वाहा । इन्द्रायोक्थामदेभ्य इदम् । मित्रावरुणावाशिषा स्वाहा । मित्रावरुणाभ्यामाशिष इदम् । अङ्गिरसो धिष्णियैरग्निभिस्स्वाहा । अङ्गिरोभ्यो धिष्णियेभ्योऽग्निभ्य इदम् । मरुतस्सदो-हविर्धानाभ्याꣳ स्वाहा । मरुद्भ्यः सदोहविर्धानाभ्यामिदम् । आपः प्रोक्षिणीभिस्स्वाहा । अद्भ्यः प्रोक्षणीभ्य इदम् । ओषधयो बर्हिषा स्वाहा । ओषधीभ्यो बर्हिष इदम् । अदितिर्वेद्या स्वाहा । अदित्यै वेद्या इदम् । सोमो दीक्षया स्वाहा । सोमाय दीक्षाया इदम् । त्वष्टेध्मेन स्वाहा । त्वष्ट्र इध्मायेदम् । विष्णुर्यज्ञेन स्वाहा । विष्णवे यज्ञायेदम् । वसव आज्येन स्वाहा । वसुभ्य आज्यायेदम् । आदित्या दक्षिणाभिस्स्वाहा । आदित्येभ्यो दक्षिणाभ्य इदम् । विश्वे देवा ऊर्जा स्वाहा । विश्वेभ्यो देवेभ्य ऊर्ज इदम् । पूषा स्वगाकारेण स्वाहा । पूष्णे स्वगाकारायेदम् । बृहस्पतिः पुरोधया स्वाहा । बृहस्पतये पुरोधाया इदम् । प्रजापतिरुद्गीथेन स्वाहा । प्रजापतय उद्गीथायेदम् । अन्तरिक्षं पवित्रेण स्वाहा । अन्तरिक्षाय पवित्रायेदम् । वायुः पात्रैस्स्वाहा । वायवे पात्रेभ्य इदम् । अहꣳ श्रद्धया स्वाहा । मह्यꣳ श्रद्धाया इदम् ।