१७ द्रोणकलशस्योपरि पवित्रवितानम्

अध्वर्युः - संभृत्य राजानमुपरे ग्राव्ण्णस्संमुखान् कृत्वा प्रपीड्य ऋजीषं मुखेषूपोहति । घासमेभ्यः प्रयच्छतीति विज्ञायते । तेषूद्गातारो द्रोणकलशं प्रतिष्ठाप्य तस्मिन्नुदीचीनदशं पवित्रं वितन्वन्ति१। यजमानः - पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्नतदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत वितत्यमानमभिमन्त्र्य ।