०७ देवतोपस्थानं, नान्दीश्राद्धञ्च

देवता एवोपतिष्ठेत गार्हपत्यस्य पश्चात्तिष्ठन् सक्षेदं पश्य विधर्तरिदं पश्य नाकेदं पश्य । रमतिः पनिष्ठर्तं वर्षिष्ठममृतायान्याहुः । सूर्यो वरिष्ठो अक्षभिर्विभात्यनु द्यावापृथिवी देवपुत्रे । अत्र वा प्रवर्ग्यसम्भरणम् । ततो यजमानो नान्दीश्राद्धं करोति । तत्र दक्षक्रतुसंज्ञका विश्वेदेवा इति विशेष: ।