स्थालीपाकः

विधिः

पार्वणम्

०७ १७ एवमत ऊर्ध्वम् ...{Loading}...

एवम् अत ऊर्ध्वं दक्षिणावर्जम् उपोषिताभ्यां पर्वसु कार्यः ॥

०७ १८ पूर्णपात्रस्तु दक्षिणेत्येके ...{Loading}...

पूर्णपात्रस् तु +++(=१००/ १२८ मुष्टिमात्रम् अन्नम् पात्रे)+++ दक्षिणेत्येके ॥

+++(उपवासविधिर् धर्मसूत्रे - पर्वसु चोभयोर् उपवासः ४ औपवस्तम् एव कालान्तरे भोजनम् ५ तृप्तिश् चान्नस्य ६ यच् चैनयोः प्रियं स्यात्तदेतस्मिन्न् अहनि भुञ्जीयाताम् ७।)+++

कर्मान्तरम्

०७ २३ पार्वणेनातो ऽन्यानि ...{Loading}...

पार्वणेनातो ऽन्यानि +++(पक्व-हविर्-युक्तानि स्थालीपाक-पश्वादीनि)+++ कर्माणि व्याख्यातान्य् - आचाराद् +++(→शास्त्रान्तराद् अपि)+++ यानि गृह्यन्ते २३

०७ २४ यथोपदेशन् देवताः ...{Loading}...

यथोपदेशं देवताः २४

०७ २५ अग्निं स्विष्टकृतम् ...{Loading}...

अग्निं स्विष्टकृतं चान्तरेण २५

०७ २६ अविकृतमातिथ्यम् ...{Loading}...

अविकृतम् आतिथ्यम् +++(= गवालम्भे न स्थालीपाकतन्त्रम्)+++२६

क्रमः

०७ ०३ श्रपयित्वाभिघार्य ...{Loading}...

श्रपयित्वा ऽभिघार्य प्रचीनम् उदीचीनं वोद्वास्य प्रतिष्ठितम् अभिघार्याऽग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायां स्थालीपाकाज् जहोति ॥

प्रधानाहुतिः -

०७ ०४ सकृदुपस्तरणाभिघारणे ...{Loading}...

सकृदुपस्तरणाभिघारणे द्विरवदानम् ॥

०७ ०५ अग्निर्देवता स्वाहाकारप्रदानः ...{Loading}...

+++(त्रिर्जमदग्नीनाम्।)+++ अग्निर्देवता स्वाहाकारप्रदानः॥

०७ ०६ अपि वा ...{Loading}...

अपि वा सकृदुपहत्य जुहुयात् ॥

०७ ०९ मध्यात् पूर्वस्यावदानम् ...{Loading}...

मध्यात् पूर्वस्यावदानम् ॥

०७ १० मध्ये होमः ...{Loading}...

मध्ये होमः ॥

स्विष्टकृत् -

०७ ०७ अग्निस्स्विष्टकृद् द्वितीयः ...{Loading}...

अग्निस्स्विष्टकृद् द्वितीयः।

०७ ०८ सकृदुपस्तरणावदाने ...{Loading}...

सकृदुपस्तरणावदाने द्विरभिघारणम् +++(जमदग्नीनां तु द्विरवदानम् ।)+++ ॥

०७ ११ उत्तरार्धादुत्तरस्य ...{Loading}...

उत्तरार्धादुत्तरस्य ॥

०७ १२ उत्तरार्धपूर्वार्धे होमः ...{Loading}...

उत्तरार्धपूर्वार्धे होमः ॥

लेपकर्म -

०७ १३ लेपयोः प्रस्तरवत् ...{Loading}...

लेपयोः प्रस्तरवत्तूष्णीं बर्हिरङ्क्त्वा ऽऽग्नौ प्रहरति ॥

०७ १४ सिद्धमुत्तरम् परिषेचनम् ...{Loading}...

सिद्धमुत्तरं परिषेचनम् +++(= अनेनोपहोमा भवन्तीति केचिन्, नेत्यन्ये)+++॥

०७ १५ तेन सर्पिष्मता ...{Loading}...

तेन सर्पिष्मता ब्राह्मणं भोजयेत् ॥