गौरव-दर्शनम्

[अभिवादन-विषयः, शुश्रूषा, भोजननियमाश् चाऽन्यत्रोक्तः]

02 पूजा वर्णज्यायसाङ् कार्या ...{Loading}...

पूजा वर्णज्यायसां कार्या २

03 वृद्धतराणाञ् च ...{Loading}...

वृद्धतराणां च ३

06 मातरि पितर्याचार्यवच्छुश्रूषा ...{Loading}...

मातरि पितर्याचार्यवच्छुश्रूषा ६

07 समावृत्तेन सर्वे गुरव ...{Loading}...

समावृत्तेन सर्वे गुरव उपसंग्राह्याः ७

08 प्रोष्य च समागमे ...{Loading}...

प्रोष्य च समागमे ८

09 भ्रातृषु भगिनीषु च ...{Loading}...

भ्रातृषु भगिनीषु च यथापूर्वमुपसंग्रहणम् ९

10 नित्या च पूजा ...{Loading}...

नित्या च पूजा यथोपदेशम् १०

पथि अवकाश-दानम्

05 राज्ञः पन्था ब्राह्मणेनासमेत्य ...{Loading}...

राज्ञः पन्था ब्राह्मणेनासमेत्य ५

06 समेत्य तु ब्राह्मणस्यैव ...{Loading}...

समेत्य तु ब्राह्मणस्यैव पन्थाः ६

07 यानस्य भाराभिनिहितस्यातुरस्य स्त्रिया ...{Loading}...

यानस्य भाराभिनिहितस्यातुरस्य स्त्रिया इति सर्वैर्दातव्यः ७

08 वर्णज्यायसाञ् चेतरेर्वर्णैः ...{Loading}...

वर्णज्यायसां चेतरेर्वर्णैः ८

09 अशिष्टपतितमत्तोन्मत्तानामात्मस्वस्त्ययनार्थेन सर्वैरेव दातव्यः ...{Loading}...

अशिष्टपतितमत्तोन्मत्तानामात्मस्वस्त्ययनार्थेन सर्वैरेव दातव्यः ९

अतिक्रमणम्

06 अग्निम् ब्राह्मणञ् चान्तरेण ...{Loading}...

अग्निं ब्राह्मणं चान्तरेण नातिक्रामेत् ६

07 ब्राह्मणांश्च ...{Loading}...

ब्राह्मणांश्च ७

08 अनुज्ञाप्य वातिक्रामेत् ...{Loading}...

अनुज्ञाप्य वातिक्रामेत् ८

समुदिते गुरुवदाचरणम्, तच्चान्यत्रोक्तम्। परियष्टादाव् अन्यत्र।

भाषणे

05 न चास्य सकाशे ...{Loading}...

न चास्य सकाशे संविष्टो भाषेत् ५

06 अभिभाषितस्त्वासीनः प्रतिब्रूयात् ...{Loading}...

अभिभाषितस्त्वासीनः प्रतिब्रूयात् ६

07 अनूत्थाय तिष्ठन्तम् ...{Loading}...

अनूत्थाय तिष्ठन्तम् ७

08 गच्छन्तमनुगच्छेत् ...{Loading}...

गच्छन्तमनुगच्छेत् ८

09 धावन्तमनुधावेत् ...{Loading}...

धावन्तमनुधावेत् ९

उपसर्पणे

10 न सोपानःवेष्टितशिरा अवहितपाणिर्वासीदेत् ...{Loading}...

न सोपानःवेष्टितशिरा अवहितपाणिर्वासीदेत् १०

11 अध्वापन्नस्तु कर्मयुक्तोवासीदेत् ...{Loading}...

अध्वापन्नस् तु कर्म-युक्तो ऽवासीदेत् ११

12 न चेदुपसीदेत् ...{Loading}...

न चेद् उपसीदेत् १२

13 देवमिवाचार्यमुपासीताविकथयन्न् अविमना वाचं ...{Loading}...

देवम् इवाचार्यम् उपासीताविकथयन्न् अविमना वाचं शुश्रूषमाणोऽस्य १३

देहस्थितिः

26 तिष्ठति च नासीतानासनयोगविहिते ...{Loading}...

तिष्ठति च नासीतानासनयोगविहिते २६

27 आसीने च न ...{Loading}...

आसीने च न संविशेत् २७

28 चेष्टति च चिकीर्षन्तच्छक्तिविषये ...{Loading}...

चेष्टति च चिकीर्षन्तच्छक्तिविषये २८

02 नापपर्यावर्तेत गुरोः प्रदक्षिणीकृत्यापेयात् ...{Loading}...

नापपर्यावर्तेत गुरोः प्रदक्षिणीकृत्यापेयात् २

उपवेषणे

14 अनुपस्थकृतः ...{Loading}...

अनुपस्थकृतः १४

15 अनुवाति वीतः ...{Loading}...

अनुवाति वीतः १५

16 अप्रतिष्टब्धः पाणिना ...{Loading}...

अप्रतिष्टब्धः पाणिना १६

17 अनपश्रितोऽन्यत्र ...{Loading}...

अनपश्रितोऽन्यत्र १७

18 यज्ञोपवीती द्विवस्त्रः ...{Loading}...

यज्ञोपवीती द्विवस्त्रः १८

19 अधोनिवीतस्त्वेकवस्त्रः ...{Loading}...

अधोनिवीतस्त्वेकवस्त्रः १९

20 अभिमुखोऽनभिमुखम् ...{Loading}...

अभिमुखोऽनभिमुखम् २०

21 अनासन्नोऽनतिदूरे ...{Loading}...

अनासन्नोऽनतिदूरे २१

22 यावदासीनो बाहुभ्याम्प्राप्नुयात् ...{Loading}...

यावदासीनो बाहुभ्याम्प्राप्नुयात् २२

23 अप्रतिवातम् ...{Loading}...

अप्रतिवातम् २३

24 एकाध्यायी दक्षिणम् बाहुम् ...{Loading}...

एकाध्यायी दक्षिणं बाहुं प्रत्युपसीदेत् २४

25 यथावकाशम् बहवः ...{Loading}...

यथावकाशं बहवः २५

इतरेषु व्यवहारः

29 न चास्य सकाशेऽन्वक्स्थानिनमुपसङ्गृह्णीयात् ...{Loading}...

न चास्य सकाशेऽन्वक्स्थानिनमुपसंगृह्णीयात् २९

30 गोत्रेण वा कीर्तयेत् ...{Loading}...

गोत्रेण वा कीर्तयेत् ३०

31 न चैनम् प्रत्युत्तिष्ठेदनूत्तिष्ठेद्वा ...{Loading}...

न चैनं प्रत्युत्तिष्ठेदनूत्तिष्ठेद्वा ३१

32 अपि चेत्तस्य गुरुः ...{Loading}...

अपि चेत्तस्य गुरुः स्यात् ३२

33 देशात्त्वासनाच्च संसर्पेत् ...{Loading}...

देशात्त्वासनाच्च संसर्पेत् ३३

34 नाम्ना तदन्तेवासिनङ् गुरुमप्यात्मन ...{Loading}...

नाम्ना तदन्तेवासिनं गुरुमप्यात्मन इत्येके ३४

35 यस्मिंस्त्वनाचार्यसम्बन्धाद्गौरवं वृत्तिस्तस्मिन्न् अन्वक्स्थानीये ...{Loading}...

यस्मिंस्त्वनाचार्यसंबन्धाद्गौरवं वृत्तिस्तस्मिन्न् अन्वक्स्थानीये ऽप्याचार्यस्य ३५

12 यां विद्याङ् कुरुते ...{Loading}...

यां विद्यां कुरुते गुरौ तेऽप्यस्याचार्या ये तस्यां गुरोर्वंश्याः १२

13 यानन्यान्पश्यतोऽस्योपसङ्गृह्णीयात् तदा त्वेत ...{Loading}...

यानन्यान्पश्यतोऽस्योपसंगृह्णीयात् तदा त्वेत उपसंग्राह्याः १३

27 अन्यत्रोपसङ्ग्रहणादुच्छिष्टाशनाच्चाचार्यवदाचार्यदारे वृत्तिः ...{Loading}...

अन्यत्रोपसंग्रहणादुच्छिष्टाशनाच्चाचार्यवदाचार्यदारे वृत्तिः २७

28 तथा समादिष्टेऽध्यापयति ...{Loading}...

तथा समादिष्टेऽध्यापयति २८

29 वृद्धतरे च सब्रह्मचारिणि ...{Loading}...

वृद्धतरे च सब्रह्मचारिणि २९

30 उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः ...{Loading}...

उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः ३०

31 समावृत्तस्याप्येतदेव सामयाचारिकमेतेषु ...{Loading}...

समावृत्तस्याप्येतदेव सामयाचारिकमेतेषु ३१

13 समादिष्टमध्यापयन्तं यावदध्ययनमुपसङ्गृह्णीयात् ...{Loading}...

समादिष्टमध्यापयन्तं यावदध्ययनमुपसंगृह्णीयात् १३

14 नित्यमर्हन्तमित्येके ...{Loading}...

नित्यमर्हन्तमित्येके १४

26 न चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु ...{Loading}...

न चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु २५

समावृत्तस्य गुरौ

27 अन्यत्रोपसङ्ग्रहणादुच्छिष्टाशनाच्चाचार्यवदाचार्यदारे वृत्तिः ...{Loading}...

अन्यत्रोपसंग्रहणादुच्छिष्टाशनाच्चाचार्यवदाचार्यदारे वृत्तिः २७

29 वृद्धतरे च सब्रह्मचारिणि ...{Loading}...

वृद्धतरे च सब्रह्मचारिणि २९

30 उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः ...{Loading}...

उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः ३०

31 समावृत्तस्याप्येतदेव सामयाचारिकमेतेषु ...{Loading}...

समावृत्तस्याप्येतदेव सामयाचारिकमेतेषु ३१

01 यथा ब्रह्मचारिणो वृत्तम् ...{Loading}...

यथा ब्रह्मचारिणो वृत्तम् १

08 उच्चैस्तरान् नासीत ...{Loading}...

उच्चैस्तरां नासीत ८

09 तथा बहुपादे ...{Loading}...

तथा बहुपादे ९

10 सर्वतः प्रतिष्ठिते ...{Loading}...

सर्वतः प्रतिष्ठिते १०

11 शय्यासने चाचरिते नाविशेत् ...{Loading}...

शय्यासने चाचरिते नाविशेत् ११

12 यानमुक्तोऽध्वन्यन्वारोहेत् ...{Loading}...

यानमुक्तोऽध्वन्यन्वारोहेत् १२

13 सभानिकषकटस्वस्तरांश्च ...{Loading}...

सभानिकषकटस्वस्तरांश्च १३

14 नानभिभाषितो गुरुमभिभाषेत प्रियादन्यत् ...{Loading}...

नानभिभाषितो गुरुमभिभाषेत प्रियादन्यत् १४

15 व्युपतोदव्युपजावव्यभिहासोदामन्त्रणनामधेयग्रहणप्रेषणानीति गुरोर्वर्जयेत् ...{Loading}...

व्युपतोदव्युपजावव्यभिहासोदामन्त्रणनामधेयग्रहणप्रेषणानीति गुरोर्वर्जयेत् १५

16 आपद्यर्थञ् ज्ञापयेत् ...{Loading}...

आपद्यर्थं ज्ञापयेत् १६

17 सह वसन्सायम् प्रातरनाहूतो ...{Loading}...

सह वसन्सायं प्रातरनाहूतो गुरुं दर्शनार्थो गच्छेत् १७

18 विप्रोष्य च तदहरेव ...{Loading}...

विप्रोष्य च तदहरेव पश्येत् १८

20 प्रतिषेधेदितरः ...{Loading}...

प्रतिषेधेदितरः २०

21 लुप्यते पूजा चास्य ...{Loading}...

लुप्यते पूजा चास्य सकाशे २१

22 मुहूंश्चाचार्यकुलन् दर्शनार्थो गच्छेद्यथाशक्त्यधिहस्त्यमादायापि ...{Loading}...

मुहूंश्चाचार्यकुलं दर्शनार्थो गच्छेद्यथाशक्त्यधिहस्त्यमादायापि दन्तप्रक्षालनानीति २२

04 समावृत्तञ् चेदाचार्योऽभ्यागच्छेत्तमभिमुखो ऽभ्यागम्य ...{Loading}...

समावृत्तं चेदाचार्योऽभ्यागच्छेत्तमभिमुखो ऽभ्यागम्य तस्योपसंगृह्य न बीभत्समान उदकमुपस्पृशेत्पुरस्कृत्योपस्थाप्य यथोपदेशं पूजयेत् ४

05 आसने शयने भक्ष्ये ...{Loading}...

आसने शयने भक्ष्ये भोज्ये वाससि वा संनिहिते निहीनतरवृत्तिः स्यात् ५

06 तिष्ठन्सव्येन पाणिनानुगृह्याचार्यमाचमयेत् ...{Loading}...

तिष्ठन्सव्येन पाणिनानुगृह्याचार्यमाचमयेत् ६

07 अन्यं वा समुदेतम् ...{Loading}...

अन्यं वा समुदेतम् ७

08 स्थानासनचङ्क्रमणस्मितेष्वनुचिकीर्षन् ...{Loading}...

स्थानासनचङ्क्रमणस्मितेष्वनुचिकीर्षन् ८

09 सन्निहिते मूत्रापुरीषवातकर्मोच्चैर्भाषाहासष्ठेवनदन्तस्कवननिःशृङ्खणभ्रुक्षेपणतालननिष्ठ्यानीति ...{Loading}...

संनिहिते मूत्रापुरीषवातकर्मोच्चैर्भाषाहासष्ठेवनदन्तस्कवननिःशृङ्खणभ्रुक्षेपणतालननिष्ठ्यानीति ९

10 दारे प्रजायाञ् चोपस्पर्शनभाषा ...{Loading}...

दारे प्रजायां चोपस्पर्शनभाषा विस्रम्भपूर्वाः परिवर्जयेत् १०

11 वाक्येन वाक्यस्य प्रतीघातमाचार्यस्य ...{Loading}...

वाक्येन वाक्यस्य प्रतीघातमाचार्यस्य वर्जयेत् ११

12 श्रेयसाञ् च ...{Loading}...

श्रेयसां च १२

13 सर्वभूतपरीवादाक्रोशांश्च ...{Loading}...

सर्वभूतपरीवादाक्रोशांश्च १३

14 विद्यया च विद्यानाम् ...{Loading}...

विद्यया च विद्यानाम् १४

15 यया विद्यया न ...{Loading}...

यया विद्यया न विरोचेत पुनराचार्यमुपेत्य नियमेन साधयेत् १५

यज्ञोपवीतम्

01 उपासने गुरूणां वृद्धानामतिथीनां ...{Loading}...

उपासने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात् १