+०६ एकादशाहे कर्तव्यम्

कर्ता प्रातः षण्णाडिका समनन्तरं स्नात्वा
धौतं परिधाय
श्रीचूर्ण-सहितान् ऊर्ध्वपुण्ड्रान् धृत्वा
सन्ध्यामुपास्य
नव्यमुपवीतञ्चधृत्वा

( प्रतिदिनम् अनुस्यूतं ब्रह्म-यज्ञम् अनुष्टीयमानस्य अद्यैव ब्रह्मयज्ञस्यावकाश इति प्रतिभाति ।

तथा पुण्याहानन्तरं माध्याहिकं कृत्वा
सङ्ग्रह-रूपेण भगवन्तमाराध्य तर्पणरूपेण वैश्वदेवं पञ्चमहायज्ञाश् च कर्तव्या
इति च प्रतिभाति आशौचापगमनात् इदानीं कर्ता शुद्धः । इतः परं प्रेत शब्दोच्चारणात् प्रेत कार्यनिर्वहणाच्च अस्य सम्पर्काशौचमेव । अतः इदानीं तादृशस्या शौचस्यच अभावात् ब्रह्मयज्ञादि, अनुष्ठाने न दोषस्सम्भवेत् । अनाशौचे, अवश्यं कर्तव्यानां कर्मणामननुष्ठाने दोषस्सम्भवेदिति अस्मदाशय: । धर्मशास्त्रवश्या: अनुष्ठानपरा: पर्यालोच्य कुर्वन्तु । )