०८ दर्शपूर्णमासारम्भः

दर्शपूर्णमासस्थालीपाकौ पौर्णमास्याम् अमावास्यायां वा पत्न्या सह कृतैकभुक्तः परेद्युराग्नेयस्थालीपाकवत् कुर्यात् । द्वेधा विभक्तस्याह्नो मध्ये तत्पूर्वं वा पर्वप्रतिपत्सन्धिश्चेत् तस्मिन्दिने स्थालीपाकं कुर्यात् ।

[[32]]

परतस्सन्धिश्चेत् परस्मिन् दिने कुर्यात् । आग्नेयस्थालीपाकशेषहोमयोः मध्ये वा तदूर्ध्वं वा पौर्णमास्यां स्थालीपाकमारभेत । तस्याषाढादिपितृमासचतुष्टयाधिमासगुरुशुक्रमौढ्यग्रहणसङ्क्रान्तिदोषदुष्टत्वे तत्पूर्वं शेषहोमात्परं दर्शसम्भवे दर्शात्पूर्वमेव यस्यां कस्याञ्चित् तिथौ पौर्णमासस्थालीपाकं कृत्वा दर्शस्थालीपाकं च स्वकाले कुर्यात् । तत्र दर्शपूर्णमासस्थालीपाकावारप्स्ये पौर्णमासस्थालीपाकेन यक्ष्य इति सङ्कल्पः । एवं दर्शपूर्णमासस्थालीपाको प्रतिपदि प्रतिपदि कुर्यात् । शरदि पौर्णमास्याममावास्यायां वा आग्रयणेन स्थालीपाकेन यक्ष्ये इति सङ्कल्प्य पूर्ववत् व्रीह्यवहननाद्यग्निमुखान्ते पत्न्यान्वारब्धः पूर्ववदवदाय इन्द्राग्निभ्यां स्वाहा, विश्वेभ्यो देवेभ्यः स्वाहा, द्यावापृथिवीभ्यां स्वाहा, अग्नये स्विष्टकृते स्वाहेति हुत्वा लेपकार्यादि कृत्वा ग्रासमात्रं हुतशेषम् अन्नं तण्डुलं वा प्राश्य अपः पीत्वाचम्य यथोत्क्षिप्यमाणो न शीर्येत, तथा सुदृढमोदनं पिण्डं हुतशेषेण कृत्वा ‘परमेष्ठ्यसि परमां माँश्रियं गमय’ इति गृह्य पृष्ठवंश उत्क्षिप्य चरुशेषेण बह्वाज्यसिक्तेन ब्राह्मणं भोजयेत् । एतेषु वृषभदानवर्जम् अष्टाविंशत्यधिकशतमुष्टिधान्यपूर्णं यत्किञ्चित्पात्रं दद्यादित्येके | आग्रयणं कर्तुमशक्तः श्रोत्रियस्य हुतशेषं याचयित्वा प्राश्नीयात् ॥