०९ होतृ-चमस-मैत्रावरुण-चमसयोस् समञ्जनम्

उपरि चात्वाले धार्यमाणा उभयीः प्रचरण्या समनक्ति । सं वोऽनक्तु वरुणस्समिन्द्रस्सम्पूषा सन्धाता सम्बृहस्पतिः । त्वष्टा विष्णुः प्रजया सꣳ रराणो यजमानाय द्रविणं दधातु होतृचमसीया आपः । यथायथं धुरो धुर्भिः कल्पन्ताम् मैत्रावरुणचमसीयाः ।