४० प्रवर्ग्योपसदां विशेषाः

आपराह्णिकीभ्यां प्रचर्य । अग्नीन्ज्योतिष्मतः कुरुतेत्यादि । अत्र द्विस्तनव्रतं यजमानाय प्रयच्छति । व्रतानन्तरं यजमानः अग्ने त्वꣳ सुजागृहि वयꣳ सुमन्धिषीमहि गोपाय नस्स्वस्तये प्रबुधे नः पुनर्ददः स्वप्स्यन्नाहवनीयमभिमन्त्रयते । दक्षिणेनाहवनीयं प्राङ् शेते । न न्यङ् नोत्तानो नाग्नेरपपर्यावर्तेत । यद्यपपर्यावर्तेत त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्यः प्रबुध्याभिमन्त्र्य । विश्वे देवा अभि मा माववृत्रन् जपति । पुनर्मनः पुनरायुरागात्पुनः प्राणः पुनराकूतमागात् । वैश्वानरोऽदब्धस्तनूपा अव बाधतां दुरितानि विश्वा इति च मुष्टी वाचं वा विसृज्य । अदीक्षितवादं वोदित्वा । त्वमग्ने व्रतपा असि इत्याहवनीयमभिमन्त्रयते । सन्तिष्ठते तृतीयमहः ।

उपोदये प्रतिप्रस्थाता वाचं यमयति । अग्नीन्ज्योतिष्मतः कुरुतेत्यादि वाग्विसर्जनान्तम् । पौर्वाह्णिकीभ्यां प्रचरन्ति । अहर्ज्योतिः इति रौहिणौ जुहोति । अपीपरो मा रात्रिया इति समिदमाधाय । सूर्यो ज्योतिः इति जुहोति । स्वाहा त्वा सूर्यस्य रश्मिभ्य इति सादयति । या ते अग्ने हराशया तनूः इत्युपसदं जुहोति । अग्नेर्हराशयायै तन्वा इदम् १ । सुब्रह्मण्यान्ते तदानीमेव आपराह्णिकीभ्यां प्रचरन्ति । रात्रिर्ज्योतिः इति रौहिणौ जुहोति । तूष्णीं समिधमाधाय भूस्स्वाहेत्यग्निहोत्रं जुहोति । स्वाहा त्वा नक्षत्रेभ्य इति सादयति ।