०१ प्रतिज्ञा

अनुक्रमणिकाप्रारम्भः

श्रीभूमिनीलासमेतं सीतारामं प्रणम्य,
गर्भाधान-पुंसुवन-सीमन्तोन्नयन-जातकर्म-नामकरणान्नप्राशन-चौलोपनयनोपाकर्मोत्सर्जन-चतुर्व्रत-स्नातकोद्वाह-गृह-प्रवेशानां
प्रयोग-चन्द्रिकानुसारेण
स्पष्ट-प्रतिपत्त्यर्थं समन्त्रकानुक्रमणिकां वक्ष्ये ।

तत्र सर्वत्रादौ ब्राह्मणानुज्ञां विष्वक्सेनाराधनं भगवान् कर्म कारयतीत्यनुसन्धानं च कृत्वा तत्तत्कर्म कृत्वा अन्ते भगवदर्पणं कुर्यात् ।