अष्टका श्राद्धम्

मासि श्राद्धम् अस्य प्रकृतिः।

कालः

  • माघमासस्य कृष्णपक्षस्याष्टम्याम्
  • तथा द्वे दिने स्तश् चेत् तयोर् यस्य ज्येष्ठा-नक्षत्रसंयोगस् स्यात् तस्मिन्।

पूर्वेद्युः सायम् औपकार्यम्

  • अपूप-पाकः
    • औपासनाग्नौ
    • चतुःशराव-मात्रक+ओदनैः अपूपं श्रपयति।
    • अष्टसु कपोलेषु संस्कृतः पुरोडाशोऽष्टकपालः ।
      सः श्रपयितव्य इत्येके ।
  • अञ्जलिनापूपहोमः
    • दैवकार्यमेवैतत्
    • पार्वणवदग्नेरुपसमाधानाद्यग्निमुखान्ते
    • स्थालीपाकवत् स्वकीयेनावदानधर्मेण+अपूपात् पुरोडाशाद्वा+अवदाय उत्तरयर्चा “यां जनाः प्रतिनन्दन्ति” इत्येतया अञ्जलिना जुहोति ।
      • उपस्तरणाभिघारणयोरवदानस्य चान्यः कर्ता ।
    • स्विष्टकृतं तु दर्व्यैव जुहोति
    • शेषस्याष्टधा कृतस्य ब्राह्मणेभ्य उपहरणम् ।

कर्मदिने

प्रातः दध्यञ्जलिहोमः

  • दैवकार्यम्
  • पार्वणवच्चाग्निमुखान्ते दधिहोमः, अपूपहोमवच्चावदानम् ।
    • केचित् अञ्जलिहोमास्सर्वे अपूर्वाः, नैव तत्र पुरस्तादुपरिष्टात्तन्त्रमिति ।
  • “यां जना"इति अपूपहोमवत्

अपराह्ने

  • ब्राह्मणान् गृहमानीयेत्याद्यग्निमुखान्तं सर्व मासिश्रीद्धवत्कृत्वा
  • प्राचीनावीतिः
  • गवालम्भः
    • दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमीति।
      • पुरस्तात्प्रतीचीं तिष्ठन्तीं, श्रौते तथा दर्शनात् ।
    • ततो गवालम्भः
    • तद्वपाग्रहणं तूष्णीम्
  • वपाहोमः
    • तूष्णीं पञ्चाज्याहुतीर्हुत्वा
    • बर्हिर् उपस्तीर्य
    • वपाञ्च वपाश्रपणीभ्यां तूष्णीमुद्धृत्य औपासने श्रपयित्वा
    • अभिघार्य
    • बर्हिषि स्थापयित्वा
    • पुनरभिघार्य
    • मध्यमेनान्तमेन वा पलाशपर्णेन जुहोति उत्तरयर्चा “वह वपा"मित्येतया ।
  • मांसौदनहोमाः
    • पशोर्विशसनं कारयित्वा
    • श्रपयित्वा अन्यानि च हविष्यौदनादीनि
    • होमकाले च मिश्रणम् ।
      न श्रपणकाले ।
    • तान्यभिघार्य
    • बर्हिषि प्रतिष्ठाप्य
    • पुनरभिघार्य
    • दर्व्या जुहोत्यवदानकल्पेन ।
      • नात्र सकृदुपघातकल्पः ।
      • “यां जनाः प्रतिनन्दन्ति"इत्येताभिः सप्तभिः ।
  • पिष्टान्नहोमाः
    • पिष्टेन कृतमन्नं तस्य पयसि श्रपणम्
    • उत्तरयर्चा “उक्थ्यश्चे"त्येतया जुहोति
  • आज्याहुतयः
    • उत्तरैर्मन्त्रैः"भूः पृथिव्यग्निनर्चे"त्यादिभिः
  • स्विष्टकृदादि तन्त्रशेषं सर्वाभिमर्शनादि च प्रदक्षिणीकृत्येत्येवमन्तं ब्राह्मणभोजनं, पिण्डनिधानं, ग्रासश् च सर्व पदार्थजातं मासिश्राद्धवदिहापि कर्तव्यमेव
    • अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ति

अपरेद्युर् अन्वष्टका

  • मासिश्राद्धवत्
  • पूर्वदिनात् शिष्टेन मांसेन

स्रोतांसि

  • टीकानुमता टिप्पणिर् अत्र