नम॒स् सद॑से …स॒भाम् मे॑ गोपाय

नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)