०५ राष्ट्रभृतः

राष्ट्रभृतः,

१४ 'ऋताषा'डिति सानुषङ्गम् ...{Loading}...

‘ऋताषा’डिति सानुषङ्गम् अनुवाकं

बोधायनीये विशेषः (श्रीनिवास-देशिकः)

अत्रापि कश्चिद् विशेषः बोधायनीये दृश्यते,

ऋ॒ता॒षाडृ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्
स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒
तस्मै॒ स्वाहा॒

तस्यौष॑धयोऽफ्स॒रस॒ ऊर्जो॒ नाम॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒
ताभ्य॒स्स्वाहा॑

इति पुंल्लिङ्गपदानि पुंल्लिङ्गपदेन,
स्त्रीलिङ्गपदानि स्त्रीलिङ्गपदेन च संयोज्य कथयितव्याः
आहत्य द्वाविंशतिर्मन्त्राः ।

विश्वास-टिप्पनी

तद्-अनुवाकस्थ-मन्त्रैः जयादि-होमे क्रियमाणे
गन्धर्व-होम-मन्त्र एव तद्-अप्सरसां कीर्तनं कृत्वा
“तस्मै स्वाहा” इति गन्धर्वाय होमं कृत्वा,
“ताभ्यः स्वाहा” इति सर्वत्र सर्व-नाम-शब्देनैव अप्सरसो होम
इति कपर्दि-मतानुसारेण पन्थाः सूचितः ॥

विश्वेदेवा ऋषयः

भास्करोक्त-विनियोगः

1अथ राष्ट्रकामादिभ्यो विहिता राष्ट्रभृतः ऋताषाडृतधामेत्यादयः द्विस्स्वाहाकारं होतव्याः ।

मूलम् (संयुक्तम्)

ऋ॒ता॒षाडृ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्तस्यौष॑धयोऽफ्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒स्स्वाहा॑

सङ्क्षेपः

ऋ॒ता॒षाड् +++(=ऋतेन शाततीति)+++ ऋ॒तधा॑मा॒ ऽग्निर् ग॑न्ध॒र्वः। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।
तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।

स॒ꣳ॒हि॒तो वि॒श्वसा॑मा॒ +++(=विश्वानि सामान्यवसितान्यस्मिन्)+++ सूर्यो॑ ग॑न्ध॒र्वः । … ।
तस्य॒ मरी॑चयोऽप्स॒रस॒ आ॒युवो॒ नाम॑ । … ।

सु॒षु॒म्नः+++(=सुखम्)+++ सूर्य॑रश्मिश् च॒न्द्रमा॑ ग॑न्ध॒र्वः । … ।
तस्य॒ नक्ष॑त्राण्यऽप्स॒रसो॑ बे॒कुर॑यो॒+++(=चित्तविकारहेतवः)+++ नाम॑ । … ।

भु॒ज्युस् +++(=पालयिता, यो भुनक्ति)+++ सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वः । … ।
तस्य॒ दक्षि॑णा अप्स॒रस॑स् स्त॒वा नाम॑ । … ।

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः । … ।
तस्य॑र्क्सा॒मान्य् अप्स॒रसो॒ वह्ण॑यो॒ +++(सौन्दर्यं वहन्तीति)+++ नाम॑ । … ।

इ॒षि॒रो +++(इष्यमानवस्तुवत्त्वात्)+++ वि॒श्वव्य॑चा॒ +++(विश्वं वियातीति)+++ वातो॑ ग॑न्ध॒र्वः । … ।
तस्यापो॑ऽप्स॒रसो॑ मु॒दा नाम॑ । … ।

भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ । स नो॑ रास्व+++(=देहि)+++ +आज्या॑निꣳ+++(=दीर्घायुः)+++ रा॒यस्पोषाꣳ॑
सु॒वीर्यꣳ॑ संवत्स॒रीणाꣳ॑ स्व॒स्तिꣳ स्वाहा॑ ।

प॒र॒मे॒ष्ठ्य् +++(=परमस्थानो)+++ अधि॑पतिर् मृ॒त्युर् ग॑न्ध॒र्वः । … ।
तस्य॒ विश्व॑म् अप्स॒रसो॒ भुवो॑ नाम॑ । … ।

सु॒क्षि॒तिस् सुभू॑तिर् भद्र॒कृत् सुव॑र्वान् प॒र्जन्यो॑ ग॑न्ध॒र्वः । … ।
तस्य॒ वि॒द्युतो॑ऽप्स॒रसो॒ रुचो॒ नाम॑ । … ।

दू॒रेहे॑तिर् अमृड॒यो मृ॒त्युर् ग॑न्ध॒र्वः । … ।
तस्य॒ प्र॒जा अ॑प्स॒रसो॒ भी॒रुवो॒ नाम॑ । … ।

चारुः॑ कृपणका॒शी +++(कृपणेषु मनो दीपयतीति)+++ कामो॑ ग॑न्ध॒र्वः । … ।
तस्या॒धयो॑ +++(=चित्तक्लेशाधिदेवताः)+++ ऽप्स॒रस॑श् शो॒चय॑तीर् नाम॑ । … ।

स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑।
उ॒रु+++(=विपुल)+++ब्रह्म॑णे॒ ऽस्मै क्ष॒त्राय॒
महि॒+++(=महत्)+++ शर्म॑ यच्छ॒ स्वाहा॑ ॥

विश्वास-प्रस्तुतिः

ऋ॒ता॒षाड् +++(=ऋतेन शाततीति)+++ ऋ॒तधा॑मा॒ ऽग्निर् ग॑न्ध॒र्वः। स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।
तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।

मूलम्

ऋ॒ता॒षाडृ॒तधा॑मा॒ अग्निर्ग॑न्ध॒र्वः , तस्यौष॑धयोऽफ्स॒रसः॑ , ऊर्जो॒ नाम॒, स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ,ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒, तस्मै॒ स्वाहा॒ , ताभ्य॒स्स्वाहा॑

मूलम् (संयुक्तम्)

सꣳहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युव॑स्

विश्वास-प्रस्तुतिः

स॒ꣳ॒हि॒तो वि॒श्व-सा॑मा॒ सूर्यो॑ गन्ध॒र्वस् [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युवो॒ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम्

स॒ꣳ॒हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस् [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युवः॑ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम् (संयुक्तम्)

सुषु॒म्नस्सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नख्ष॑त्राण्यफ्स॒रसो॑ बे॒कुर॑यः

विश्वास-प्रस्तुतिः

सु॒-षु॒म्नस् सूर्य॑-रश्मिश् च॒न्द्रमा॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॒ नख्ष॑त्राण्य् अफ्स॒रसो॑ बे॒कुर॑यो॒ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम्

सु॒षु॒म्नस्सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॒ नख्ष॑त्राण्यफ्स॒रसो॑ बे॒कुर॑यः [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम् (संयुक्तम्)

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दख्षि॑णा अफ्स॒रस॑स्स्त॒वाः

विश्वास-प्रस्तुतिः

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॒ दख्षि॑णा अफ्स॒रस॑स् स्त॒वा [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम्

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॒ दख्षि॑णा अफ्स॒रस॑स् स्त॒वाः [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम् (संयुक्तम्)

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनः॑ [19] ग॒न्ध॒र्वस्तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑यः

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑यो॒ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम्

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑यः [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम् (संयुक्तम्)

इषि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापो᳚ऽफ्स॒रसो॑ मु॒दा

विश्वास-प्रस्तुतिः

इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्यापो᳚ऽफ्स॒रसो॑ मु॒दा [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम्

इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्यापो᳚ऽफ्स॒रसो॑ मु॒दाः [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

विश्वास-प्रस्तुतिः

भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ सव्ँवथ्स॒रीणाꣳ॑ स्व॒स्तिम् ।

मूलम्

भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोषꣳ॑ सु॒वीर्यꣳ॑ सव्ँवथ्स॒रीणाꣳ॑ स्व॒स्तिम् ।

मूलम् (संयुक्तम्)

प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॒ विश्व॑मफ्स॒रसो॒ भुव॑स्

विश्वास-प्रस्तुतिः

प॒र॒मे॒ष्ठ्य् अधि॑पतिर् मृ॒त्युर् ग॑न्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॒ विश्व॑मफ्स॒रसो॒ भुवो॒ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम्

प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॒ विश्व॑मफ्स॒रसो॒ भुवो॑ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम् (संयुक्तम्)

सुख्षि॒तिस्सुभू॑तिर्भद्र॒कृथ्सुव॑र्वान्प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतो᳚ऽफ्स॒रसो॒ रुचो॑

विश्वास-प्रस्तुतिः

सु॒ख्षि॒तिस् सुभू॑तिर् भद्र॒कृथ् सुव॑र्वान् प॒र्जन्यो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॑ वि॒द्युतो᳚ऽफ्स॒रसो॒ रुचो॑ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम्

सु॒ख्षि॒तिस्सुभू॑तिर्भद्र॒कृथ्सुव॑र्वान् , प॒र्जन्यो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॑ वि॒द्युतो᳚ऽफ्स॒रसो॒ रुचो॑ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम् (संयुक्तम्)

दू॒रेहे॑तिरमृड॒यः [20] मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवः

विश्वास-प्रस्तुतिः

दू॒रेहे॑तिरमृड॒यो मृ॒त्युर्ग॑न्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवो॒ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम्

दू॒रेहे॑तिरमृड॒यो मृ॒त्युर्ग॑न्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवः॑ [+नाम॑। ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑न्तु। ताभ्यः॒ स्वाहा॑ ।]

मूलम् (संयुक्तम्)

चारु॑ᳵ कृपणका॒शी कामो॑ गन्ध॒र्वस्तस्या॒धयो᳚ऽफ्स॒रस॑श्शो॒चय॑न्ती॒र्नाम॒ स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒स्स्वाहा

विश्वास-प्रस्तुतिः

चारु॑ᳵ कृपण-का॒शी कामो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्या॒धयो᳚ऽफ्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ ता इ॒दम् ब्रह्म॑ ख्ष॒त्रम् पा᳚न्तु॒ ताभ्य॒स् +++(अप्सरोभ्यः)+++ स्वाहा॑॥

मूलम्

चारु॑ᳵ कृपणका॒शी कामो॑ गन्ध॒र्वः, [स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु। तस्मै॒ स्वाहा॑।]
तस्या॒धयो᳚ऽफ्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ स इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्ष॒त्रम्पा᳚न्तु॒ तस्मै॒ स्वाहा॒, ताभ्य॒स् स्वाहा॑

विश्वास-प्रस्तुतिः

स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
उ॒रु ब्रह्म॑णे॒ऽस्मै ख्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ॥ [21]

मूलम्

स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
उ॒रु ब्रह्म॑णे॒ऽस्मै ख्ष॒त्राय॒ महि॒ शर्म॑ यच्छ ॥ [21]