२८ व्रतप्रदानं, प्राशनं च

अध्वर्युः - मध्यरात्रे गार्हपत्ये दीक्षितस्य व्रतं श्रपयति । दक्षिणाग्नौ पत्न्याः । अग्निहोत्रवद्व्रतपात्रे तूष्णीमुन्नीयापरेणाहवनीयं व्रतमत्याहृत्य प्रयच्छन् आह व्रत्य व्रतय व्रतमुपेहि । यजमानः - प्रतिगृह्य निधाय । दैवीं धियं मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहसꣳ सुपारा नो असद्वशे हस्ताववनिज्य । ये देवा मनोजाता मनोयुजस्सुदक्षा दक्षपितारस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यस्स्वाहा दक्षिणेनाहवनीयं परिश्रिते व्रतयति । नैनमदीक्षिता व्रतयन्तं पश्यन्ति । आचम्य, आत्मन इदम् । शिवाः पीता भवथ यूयमापोऽस्माकं योनावुदरे सुशेवाः । इरावतीरनमीवा अनागसश्शिवा नो भवथ जीवसे व्रतयित्वा नाभिदेशमभिमृशति । अपश्च पीत्वा जपति । तूष्णीं पत्नी स्व आयतने व्रतयति ।