३९ यूपाहरणम्

[ तद्यथा = स्रुवेणाहवनीये यूपाहुतिं जुहोति उरु विष्णो विक्रमस्वोरु क्षयाय न: कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहा । विष्णव इदम् । स्रुवमाज्यशेषं चाध्वर्युरादत्ते । तक्षा शस्त्रम् । यत्र यूपस्तद्यन्ति । यूप्यावृक्षाः पलाशखदिरबिल्वरौहीतकाः । समे जातमशाखाजं बहुपर्णशाख-मप्रतिशुष्काग्रमसुशिरमव्यावृत्तमघूर्णमृजुमूर्ध्वमूर्ध्वशकलमग्रे ईशदुपावनतं प्रागुदक् प्रत्यग्वोपनतम् । न दक्षिणावनतम् । अतिक्रम्य यूप्यान् यं जोषयते तमभिमन्त्रयते अत्यन्यानगान्नान्यानुपागामर्वाक्त्वा परैरविदं परोऽवरैः । अथैनमुपस्पृशति तं त्वा जुषे वैष्णवं देवयज्यायै । देवस्त्वा सविता मध्वानक्तु स्रुवेण सर्वतो मूलं प्रदक्षिणं पर्यणक्ति । ओषधे त्रायस्वैनम् ऊर्ध्वाग्रं दर्भमन्तर्धाय । स्वधिते मैनꣳ हिꣳसीः स्वधितिना प्रहरति । प्रथमपरापातिनं शकलमाहरति । तं प्रज्ञातं निदधाति । गुल्फदघ्ने वृश्चेज्जानुदघ्नेऽनक्षसङ्गं वा । दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन मा हिꣳसीः पृथिव्या संभव प्राञ्चं पातयति । वनस्पते शतवल्शो वि रोह स्वाहा आव्रश्चने जुहोति । वनस्पतय इदम् । सहस्रवल्शा वि वयꣳ रुहेम आत्मानं प्रत्यभिमृश्याप उपस्पृश्य । यं त्वा यꣳ स्वधितिस्तेऽतिजानः प्रणिनाय महते सौभगाय अन्वग्रमद्गांश्छिनत्ति । एकं, द्वे, त्रीणि, चत्वारि, पञ्च, अच्छिन्नो रायस्सुवीरः अग्रं परिवासयति । पञ्चारत्निर्मूलतोऽतष्टमुपरम् । अष्टाश्रिरनुपूर्वोऽग्रतोऽ-णीयान्प्रज्ञाताग्निष्ठाश्श्रिरस्थूलोऽनणुः । अवतक्षणानां स्वरुरधिमन्थनश्च शकलः । अग्राच्चषालं पृथमात्रमष्टाश्रि मध्ये सन्नतम् । यावदुत्तममङ्गुलिकाण्डं तावदूर्ध्वं चषालाद्यूपस्यातिरिक्तं द्व्यङ्गुलं त्र्यङ्गुलं चतुरङ्गुलं वा । ]